________________
उद्देश : ४, मूलं- ११२, [भा. ५१०७]
[भा. ५१०७ ] विनयस्स उ गाहणया, कन्नामोड खड्डुगा-चवेडाहिं । सावेक्ख हत्थतालं, दलाति मम्माणि फेडिंतो ॥
वृ- इह विनयशब्दः शिक्षायामपि वर्तते, यत उक्तम् - "विनयः शिक्षा प्रणत्योः” इति । ततोऽयमर्थ:-'विनयस्य' ग्रहणशिक्षाया आसेवनाशिक्षाया वा ग्राहणायां क्रियमाणायां कर्णामोटकेन खडुकाभिः चपेटाभिर्वा 'सापेक्षः' जीवितापेक्षां कुर्वन् अत एव 'मर्माणि स्फेटयन्' येषु प्रदेशेष्वाहतः सन् म्रियते तानि परिहरन् आचार्य क्षुल्लकस्य हस्तातालं ददाति । अत्र परः प्राह- ननु परस्य परितापे क्रियमाणेऽसातवेदनीयकर्मबन्धो भवति तत् कथमसावनुज्ञायते ? उच्यते
[भा. ५१०८] कामं परपरतावी, असा हेतू जिनेहि पन्नत्तो । आत- परहितकरो पुन, इच्छिज्जइ दुस्सले स खलु ॥
,
वृ- 'कामम्' अनुमतमिदमस्माकम्-परपरितापो जिनैरसातहेतुः प्रज्ञप्तः परं 'सः' परपरितापः 'दुःशले' वाक्छिक्षया दुर्ग्रहे दुर्विनीते शिष्ये 'खलु' निश्चितमिष्यत एव । कुतः ? इत्याह- "आयपरहियकरो' त्ति हेतौ प्रथमा भावप्रधानश्च निर्देशः, ततोऽयमर्थ-आत्मनः परस्य च हितकरत्वात् । तत्राऽऽत्मनः शिष्यं शिक्षां ग्राहयतः कर्मनिर्जरालाभः परस्य तु सम्यग्गृहीतशिक्षस्य यथावत् चरम-करणानुपालनादयो भूयांसो गुणाः । पुनः शब्दो विशेषणे, स चैतद् विशिनष्टि-यो दुष्टाध्यवसायतया परपरितापः क्रियते स एवासातहेतुः प्रज्ञप्तः, यस्तु शुद्धाध्यवसायेनाऽऽत्मपरहितकरः क्रियते स नैवासातहेतुरिति ।। अमुमेवार्थं दृष्टान्तेन द्रढयति
[ भा. ५१०९]
सिप्पंनेउणियट्ठा, घाते वि सहति लोइया गुरुणो ।
न य मधुरनिच्छया ते, न होति एसेविहं उवमा ।
१४९
वृ- ‘“सिष्पं’”ति मकारोऽलाक्षणिकः, शिल्पानि - रथकारकर्मप्रभृतीनि नैपुण्यानि च-चिलिगणितादिकलाकौशलानि तदर्थं लौकिकाः शिक्षकाः 'गुरोः' आचार्यस्य घातानपि सहन्ते, न च ‘ते’ घातास्तदानीं दारुणा अपि 'मधुरनिश्चयाः' सुन्दरपरिणामा न भवन्ति, किन्तु शिल्पादिपरिज्ञाने वृत्तिलाभ - जनपूजनीयतादिनापरिणामस्तेषां सुन्दरो भवतीति भावः । एषैवोपमा 'इह' प्रस्तुतार्थे मन्तव्या यथा तेषां ते घाता हितास्तथा प्रस्तुतस्यापि दुर्विनीतस्य शिष्यस्येति भावः । अत्रायं बृहद्भाष्योक्तः सोपनयोऽपरो दृष्टान्तः
अहवा वि रोगियस्सा, ओसह चाडूहि पिज्जए पुव्विं । पच्छा तालेत्तुमवी, देहहियट्ठाए दिजइ से | इह भवरोगत्तस्स वि, अनुकूलेणं तु सारणा पुव्विं । पच्छा पडिकूलेन वि, परलोहियट्ठ कायव्वा ॥
“ओसह”त्ति विभक्तिलोपादौषधमिति मन्तव्यम् । अत एव साधुरेवंविधो भवेत्[भा. ५११० ] संविग्गो मद्दविओ, अमुई अनुयत्तओ विसेसन्नू । उज्जुत्तमपरितंतो, इच्छियमत्थं लहइ साहू ॥
वृ-‘संविग्नः’ मोक्षाभिलाषी, ‘मार्दविकः' स्तब्धताविकलः, 'अमोचि' गुरूणाममोचनशीलः, 'अनुवर्तकः' तेषामेव च्छन्दोऽनुवर्ती, 'विशेषज्ञः' वस्त्ववस्तुविभागवेदी, उद्युक्तः स्वाध्यायादी, अपरितान्तो वैयावृत्यादौ, एवंविधः साधुरीप्सितमर्थमिह परत्र च लभते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org