________________
१५०
बृहत्कल्प-छेदसूत्रम् -३-४/११३
अथ "कारणजाते व बोहिगाईसु" त्ति पदं व्याचष्टे[भा.५१११] बोहिकतेनभयादिसु, गणस्स गणिणो व अञ्च्चए पत्ते । इच्छंति हत्थतालं, कालातिचरं व सज्जं वा ॥
वृ- बोधिकस्तेनभये आदिशब्दात् श्वापदादिभयेषु वा यदि 'गणिस्य' गच्छस्य 'गणिनो वा' आचार्यस्य ' अत्ययः' आत्यन्तिको विनाशः प्राप्तस्तदा 'कालातिचरं वा' कालातिक्रमेण 'सद्यो वा' तत्कालमेव हस्ततालमिच्छन्ति, गीतार्था इति गम्यते ॥ अथ हस्तालम्बं व्याख्यानयति[ भा. ५११२] असिवे पुरोवरोधे, एमादीवइससेसु अभिभूता । संजायपञ्च्चया खलु, अन्नेसु य एवमादीसु ॥
वृ- अशिवेन लोको भूयान् म्रियते, परबलेन वा पुरं समन्तादुपरुद्धम्, तत्र बहिकटकयोधैः आभ्यन्तराणां कटकमर्द क्रियते, अन्नक्षयाद्वा क्षुधा म्रियते, आदिशब्दाद् गलगण्डादिभिर्वा रोगैर्दिने दिने प्रभूतो जनो मरणमश्नुते, एवमादिभिः 'वैशसैः' दुःखैरभिभूतास्ते पौरजनाः सञ्जातप्रतययाः ' 'योऽत्र पुरे आचार्यो बहुश्रुतो गुणवांस्तपस्वी स शक्तो वैशसमिदं निरोद्धुम्, नान्यः कश्चिद्' इति समिति - सम्यग् जातः प्रत्ययो येषां ते तथा, न केवलमत्रैव किन्तु अन्येष्वप्येवमादिषु सञ्जातप्रत्ययास्ते सम्भूय तमाचार्यं त्रायस्व' इति शरणमुपगताः प्राञ्जलिपुटाः पादपतितास्तिष्ठन्ति ।। [भा. ५११३] मरणभणऽभिभूते, ते नातुं देवतं वुवासंते ।
पडिमं काउं मज्झे, विंधति मंते परिवजवेंतो ॥
वृ- ततः स आचार्यस्तान् पौरजनान् मरणभयेनाभिभूतान् देवतामिवाऽऽत्मानं पर्युपासीनान् ज्ञात्वा तदनुकम्पापरीतचित्तः प्रतिमांकृत्वा तत अभिचारुकमन्त्रान् परिजपन् तां प्रतिमां मध्यभागे विध्यति, ततो नष्टा सा कुलदेवता, प्रशमितः सर्वोऽप्युपद्रवः । एवंविधहस्तालम्बदायी यदाऽभ्युत्तिष्ठते तदा तत्कालमेव नोपस्थाप्यते किन्तु कियन्तमपि कालं गच्छ एव वसन् व्यामर्दनं कार्यते ॥ अथाऽर्थादानमाह
[ भा. ५११४] अनुकंपणा निमित्ते, जायण पडिसेहणा सउनिमेव ।
दायण पुच्छा यता, सारण उब्भावण विनासे ॥
वृ- कस्याप्याचार्यस्य भागिनेयो व्रतं परित्यज्य मुत्कलापयति, तत आचार्यस्य 'अनुकम्पा' 'कथमयं द्रव्यमन्तरेण गृहवासमध्यासिष्यते ?' इत्येवंलक्षणा बभूव । स च 'निमित्ते अतीव कुशलः' इति कृतवा तेनैवावर्जितयोर्द्वयोर्वणिजोरन्तिके तं भागिनेयं रूपकयाचनाय प्रेषितवान् । स च तत्रैकेन वणिजा 'किं मम शकुनिका रूपकान् हदते ? ' एवमुक्त्वा प्रतिषिद्धः, द्वितीयेन तु रूपकनवलकानां दर्शना कृता। द्वितीये च वर्षे द्वाभ्यामपि वणिग्भ्यां पृच्छा कृता । तत आचार्येण 'सारणा' क्रयाणकग्रहणविषया शिक्षा दत्ता । ततो येन रूपका न दत्तास्तस्य सर्वस्वविनाशः समजनि, येन तु दत्तास्तस्य 'उद्भावनं' महर्द्धिकतासम्पादनं कृतवान् । एष नियुक्तिगाथाक्षरार्थः । भावार्थस्तु कथानकादवसेयः । तच्चेदम्
उज्जेनीए एगो ओसन्नायरिओ नेमित्तितो। तस्स य दुन्निमित्ता वाणियगा, ते तं आपुच्छिउं आपुच्छिउं ववहरंति किं भंडं गिण्हामो मुयामो वा ? । एवं ते इस्सरीभूया । तस्स य आयरियस्स भागिनेज्जो भोगाभिलासी आगम्म तं आयरियं तं आयरियं केवइए मग्गति ताहे आयरियेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org