SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४४ बृहत्कल्प-छेदसूत्रम् - ३-४/११३ साहम्मियतेन्त्रम्मिं, पमत्तछलणाऽधिकरणं च ॥ वृ- शैक्षमपहरत आज्ञाभङ्गादयो दोषा भवन्ति । अनन्तसंसारिकत्वं च भगवतामाज्ञाभङ्गाद् भवति । बोधेश्च दुर्लभत्वं जायते । साधर्मिकस्तैन्यं च कुर्वाणः प्रमत्तो लभ्यते । प्रमत्तस्य च प्रान्तदेवतया छलना भवति । यस्य च सम्बन्धी सोऽपहियते तेन समम् 'अधिकरणं' कलह उपजायते । एवं तावत् पुरुषविषया दोषा उक्ताः । अथ स्त्रीविषयांस्तानेवातिदिशतिएमेव य इत्थी, अभिधारेंतीए तह वयंतीए । वत्तऽव्वत्ता गमो जहेव पुरिसस्स नायव्वो । [भा. ५०८० ] वृ एवमेव स्त्रिया अपि शैक्षिकायाः अभिधारयन्त्यास्तथा "वयंतीए "त्ति ससहायायाः प्रव्रजितुं व्रजन्त्या व्यक्ताया अव्यक्तायाश्च गमः स एव ज्ञातव्यो यथा पुरुषस्योक्तः ॥ अथ प्रावचनिकपदं व्याचष्टे [ भा. ५०८१] एवं तु सो अवधितो, जाघे जातो सयं तु पावयणी । निक्कारणे य गहितो, वञ्चति ताहे पुरिल्लाणं ॥ वृ- 'एवम्' अन्तरोक्तैः प्रकारैः 'सः' शैक्षोऽपहृतः सन् यदा स्वयमेव प्रावचनिको जातः, अन्यो वा निष्कारणे यः केनापि गृहीतः स आत्मनो दिक्परिच्छेदं कृत्वा भूयोऽपि बोधिलाभावाप्तये पूर्वेषामेवाचार्याणामन्तिके व्रजति ॥ [ भा. ५०८२ ] अन्नरस व असतीए, गुरुम्मि अब्भुज्जएगतरजुत्ते । धारेति तमेव गणं, जो य हडों कारणज्जाते ॥ वृ- येन स शैक्षो निष्कारणेऽपहृतस्तस्य गच्छेऽपरः कोऽप्याचार्यपदयोग्यो न विद्यते ततोऽन्यस्याभावे यद्वा स गुरु आचार्योऽभ्युद्यतस्यैकतरेण युक्तः, अभ्युद्यतमरणम् अभ्युद्यतविहारं वा प्रतिपन्न इत्यर्थः, ततो यदि कोऽपि शिष्यस्तेषां निष्पन्नो नास्ति तदा तमेव गणमसौ धारयति यावत् कोऽपि तत्र निष्पत्र इति । यश्च कारणजाते केनाप्याचार्येण हृतः सोऽपि तमेव गणं धारयति ।। किं पुनस्तत कारणम् ? इत्याह [भा. ५०८३] नाऊण य वोच्छेदं, पुव्वगते कालियानुजोगे च । अज्जाकारणजाते, कप्पति सेहावहारो तु ॥ वृ- कोऽप्याचार्यो बहुश्रुतस्तस्य पूर्वगते किञ्चिद् वस्तु प्राभृत वा कालिकानुयोगेऽपि श्रुतस्कन्धोऽध्ययनं वा विद्यते तच्चान्यस्य नास्ति ततो यद्यन्यस्य न सङ्क्राम्यते तदा व्यवच्छिद्यते। एवं पूर्वगते कालिकानुयोगे च व्यवच्छेदं ज्ञात्वा तं च सम्प्रस्थितं शैक्षं ग्रहण धारणासमर्थं विज्ञाय भक्तदान-धर्मकथादिभिर्विपरिणाम्य झम्पनादीन्यपि कुर्वाणः शुद्धः । यद्वा तस्याऽऽचार्यस्य नास्ति कोऽप्यार्याणां परिवर्तकस्ततस्तासामपि कारणजाते शैक्षमपहरेत् । एवं कल्पते शैक्षापहारः कर्तुम् ॥ तस्य च कारणेऽपहृतस्य को विधिः? इत्याह 1 [भा. ५०८४] कारणजाय अवहितो, गणं धरेंतो तु अवहरंतस्स । जागो निष्पन्नो, पच्छा से अप्पणो इच्छा ॥ वृ- यः कारणजातेऽ पहृतः स तदीयं गणं धारयन् अपहरत एवाभाव्यो भवति । अथ येन कारणेनापहृतस्तत् कारणं न पूरयति तदा पूर्वेषामेवाभवति नापहरतः । सच कारणापहृतस्तस्मिन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy