________________
१४३
उद्देशक ः ४, मूलं-११२, [भा. ५०७५] [भा.५०७५] मज्झमिणमन्न-पानं, उवजीवऽनुकंपनाय सुद्धो उ।
पुट्ठमपुढे कहणा, एमेव य इहरहा दोसो॥ वृ-ततः स साधुर्मदीयमिदमन्न-पानम् ‘उपजीव' मुंश्वेति ब्रुवाणो यदि ‘साधर्मिकोऽयम्' इत्यनुकम्पया ददाति तदा शुद्धः । शैक्षेण पृष्टोऽपृष्टो वा यदि 'एवमेव' अनुकम्पया धर्मकथां करोति तदाशुद्धः । 'इतरथा' अपहरणार्थं भक्त-पानंददतोधर्म वा कथयतो 'दोषः' चतुर्गुरुकं प्रायश्चित्तम् । अपहरणप्रयोगानेव दर्शयति[भा.५०७६] भत्ते पन्नवण निगृहणा य वावार झंपणाचेव।
पत्थवण-सयंहरणे, सेहे अव्वत्त वत्ते य॥ . वृ-अपहरणार्थं भक्त-पानं ददाति धर्मं वातस्य पुरतः प्रज्ञापयति। ततः स शैक्ष आवृत्तः सन् भणति-भवत एव सकाशेऽहं प्रव्रजामि किन्तु न शक्नोमि येनाऽऽनीतस्तत्पुरतः स्थातुम्, ततो मां गुपिले प्रदेशे निगूहत; ततोऽसौतं व्यापारयति-अमुकत्र निलीय तिष्ठेति। ततस्तं तत्रनिलीनं साधुः पलालादिनाझम्पयति, स्थगयतीत्यर्थः। अथवाऽन्यैः सार्धमन्यं ग्रामंप्रस्थापयति, एकाकिनं वाप्रेषयति-अमुकत्र ग्रामादौ व्रज, अहमप्यमुष्मिन् दिवसे तत्राऽऽगमिष्यामि।अथवा स्वयमेव गृहीत्वा तमपहरति। एतानिषट्पदानि भवन्ति, तद्यथा-भक्तप्रदानं धर्मकथा २ निगूहनावचनं ३व्यापारणं ४ झम्पनं ५प्रस्थापन-स्वयंहरणं ६ चेति । एतेषुषट्सु पदेषु शैक्षे व्यक्तेऽव्यक्ते च प्रायश्चित्तमिदं भवति॥ [भा.५०७७] गुरुओ चउलहु चउगुरु, छल्लहु छग्गुरुगमेव छेदो य।
भिक्खु-गणाऽऽयरियाणं, मलूं अणवट्ठ पारंची॥ वृ-भिक्षुर्यद्यव्यक्तशैक्षस्यापहरणार्थं भक्तं ददाति तदा मासगुरू, धर्मप्रज्ञापनायां चतुर्लघु, निगूहनवचनेचतुर्गुरु, व्यापारणेषड्लघु, झम्पनेषड्गुरु,प्रस्थापने स्वयंहरणेवाच्छेदः। एवमव्यक्ते शैक्षे भणितम् । अव्यक्तो नाम-यस्याद्यापि श्मश्रु न सातम् । यस्तु व्यक्तः-सञ्जातश्मश्रुस्तत्र चतुर्लघुकादारब्धमूलंयावद्भिक्षोःप्रायश्चित्तम्।गणिनः-उपाध्यायस्य चतुर्लघुकादारब्धमनवस्थाप्ये तिष्ठति । आचार्यस्य चतुर्गुरुकादारब्धं पाराञ्चिके पर्यवस्यति॥
एवं ससहाये शैक्षे भणितम्, यः पुनरसहायोऽभिधारयन् व्रजति तत्र विधिमाह[भा.५०७८] अभिधारंत वयंतो, पुट्ठो वच्चामऽहं अमुगमूलं ।
पनवण भत्तदाने, तहेव सेसा पदा नत्थि ।। वृ- कोऽपि शैक्ष एकाकी कमप्याचार्यमभिधारयन् प्रव्रज्याभिमुखो व्रजति । तेन क्वचिद् ग्रामेपथिवा साधुंदृष्ट्वा वन्दनकंकृतम्।साधुना पृष्टः-कगच्छसि? ।सप्राह-अमुकस्याऽऽचार्यस्य पादमूले प्रव्रजनार्थं व्रजामि । एवमुक्ते यदि भिक्षुरव्यक्तशैक्षस्य भक्तदानं करोति मासगुरु, धर्मप्रज्ञापनायां चतुर्लघु; व्यक्तशैक्षस्य भक्तदाने चतुर्लघु, धर्मकथायां चतुर्गुरु । उपाध्यायाऽऽचार्ययोर्यथाक्रमं षड्लघुषड्गुरुकंच भवति, अधस्तनमेकैकंपदं हसतीति भावः । 'शेषाणि तु' निगूहन-व्यापारण-झम्पनादीनि पदानि न सन्ति, असहायत्वात्, तदभावात् प्रायश्चित्तमपि नास्तीति ॥ एते चापरे दोषाः___ [भा.५०७९] आणादऽनंतसंसारियत्त बोहीय दुल्लभत्तं च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org