SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १४२ बृहत्कल्प-छेदसूत्रम् -३-४/११३ [भा.५०७०] लहुगा अनुग्गहम्मिं, गुरुगा अप्पत्तियम्मि कायव्वा । मूलं च तेनसद्दे, वोच्छेद पसज्जणा सेसे ॥ वृ-एवं तेन साधुनास्तैन्येनवस्त्रेषु गृहीतेषुयद्यप्यसौ श्राद्धोऽनुग्रहंमन्यते-“यथाऽपितथाऽपि गृह्णताममी साधवः' इति तथापि चतुर्लघवः । अथाप्रीतिकं करोति ततश्चतुर्गुरवः प्रायश्चित्तं कर्तव्याः । अथासौ ‘स्तेनोऽयं स्तेनोऽयम्' इति शब्दं जनम्ये विस्तारयति तदा मूलम् । यच्च शेषद्रव्याणां शेषसाधूनां वा व्यवच्छेदं “पसज्जण"त्तिप्रसङ्गतः करोति तनिष्पन्न प्रायश्चित्तम्॥ अथ सतीं ध्यामनां दर्शयति[भा.५०७१] सुव्वत्त झामिओवधि, पेसण गहिते य अंतरा लुद्धो । लहुगो अदेंते गुरुगा, अनवट्ठप्पो व आदेसा॥ वृ-अथ 'सुव्यक्तं' सत्येनैव ध्यामित उपधि ततो गुरुभिस्तथैव प्रेषणं कृतम्, प्रेषितश्च सन् येनाचार्या निमन्त्रितास्तस्मादन्यस्माद्वा श्रावकाद् वस्त्रादिकमुपधिं गृहीत्वा अन्तरा ‘लुब्धः' लोभाभिभूतोयदिगृह्णाति तदा लघुकोमासः आगतोऽपियदिगुरूणांनप्रयच्छतितदाचतुर्गुरवः, सूत्रादेशाद्वाऽनवस्थाप्यो भवति॥गतं ध्यामनाद्वारम् । अथ प्रस्थापनाद्वारमाह[भा.५०७२] उक्कोस सनिजोगो, पडिग्गहो अंतरा गहण लुद्धो । लहुगा अंदेते गुरुगा, अणवठ्ठप्पो व आदेसा॥ वृ-केनाप्याचार्येण कस्यापि संयतस्य हस्तेअपराचार्यस्य ढौकनहेतोः प्रतिग्रहःप्रेषितः, सच 'उत्कृष्टः' उत्कृष्टोपधिरूपो यद्वा वृत्त-समचतुरस्र-वर्णाढ्यतादिगुणोपेतः, तथा सह निर्योगेनपात्रकबन्धादिना यः स सनिर्योगः। एवंविधस्य प्रतिग्रहस्य अन्तरा' अपान्तराल एवासौ लुब्धः 'ग्रहणं' स्वीकरणं करोति तत्र चतुर्लघु । तत्र गतस्तेषां सूरीणांतंप्रतिग्रहंन प्रयच्छतिचतुर्गुरवः, सूत्रांदेशेन वाऽनवस्थाप्यो ऽसौ द्रष्टव्यः॥गतं प्रस्थापनाद्वारम्, अथ शैक्षद्वारमाह[भा.५०७३] पव्वावणिज्ज बाहिं, ठवेत्तु भिक्खस्स अतिगते संते। . . सेहस्स आसिआवण, अभिधारेंते व पावयणी॥ वृ-कोऽपि साधुः ‘प्रव्राजनीय' सशिखाकं शैक्षं गृहीत्वा प्रस्थितः, तं च भिक्षाकाले क्वापि ग्रामे बहि स्थापयित्वा भिक्षार्थम् अतिगतः-प्रविष्टः, प्रविष्टे च सति तस्मिन् अपरः साधुस्तं शैक्षं दृष्ट्वा विप्रतार्य च तस्य “आसियावणं" अपहरणं करोति । साधुविरहितो वा एकाकी कमपि साधुमभिधारयन्-मनसि कुर्वन् शैक्षो स्वयमेवाऽऽत्मनो दिक्परिच्छेदं कुरुत इति सङ्ग्रहगाथासमासार्थः ॥अथैनामेव विवृणोति[भा.५०७४]. सनातिगतो अद्धाणितो व वंदनग पुच्छ सेहो मि। सो कत्थ मज्झ कज्जे, छात-पिवासस्स वा अडति ॥ वृ-संज्ञाभूमिगत आदिशब्दाभक्तादिपरिष्ठापनिकाय निर्गतः कोऽपिसाधुः शैक्षं दृष्टवान्, अथवा 'आध्वनिकः' पथिकोऽसौ साधुस्ततः पथि गच्छन् शैक्षं दृष्टवान् । तेन च वन्दनके कृते सति साधुः पृच्छति-कोऽसि त्वम् ? कुत आगतः ? क्व वा प्रस्थितः ? । शैक्षः प्राह- अमुकेन साधुना सार्द्ध प्रस्थितः प्रव्रजितुकामः शैक्षोऽसम्यहम् । साधुः पृच्छति-स साधुः सम्प्रति क्व गतः? शैक्षो भणति-स मम कार्ये बुभुक्षितस्य पिपासितस्य वा भक्त-पानार्थं पर्यटति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy