________________
उद्देशक : ४, मूलं-११२, [भा. ५०६५]
१४१ 'सपरिग्रहः' परिगृहीतः स्याद् ‘इतरो वा' अपरिगृहीतः । पुनरेकैकस्त्रिविधः- जघन्यो मध्यम उत्कृष्टश्च ॥अथ “सेहे मूलं" इत्यादि पश्चार्द्धं व्याख्याति[भा.५०६६] अंतो बहिं निवेसण, वाडग गामुजाण सीमऽतिकते।
मास चउ छच्च लहुगुरु, छेदो मूलं तह दुगंच॥ वृ- 'अन्तः' प्रतिश्रयाभ्यन्तरे साधर्मिकाणामुपधिमदृष्टं शैक्षः स्तेनयति मासलघु, वसतेर्बहिरटेष्टमेवस्तेनयतिमासगुरु ।निवेशनस्यान्तसिगुरु, बहिश्चतुर्लघु।वाटकस्यान्तश्चतुर्लघु, बहिश्चतुर्गुरु ।ग्रामस्यान्तश्चतुर्गुरु, बहि षड्लघु। उद्यानस्यान्तःषड्लघु, बहिषड्गुरु।सीमाया अन्तः षड्गुरु, अतिक्रान्तायां तु तस्यां बहिश्छेदः । “मूलं तह दुगं च"त्ति मूलं तथा 'द्विकंच' अनवस्थाप्य-पाराञ्चिकयुगम् ॥ एतदेव भावयति[भा.५०६७] . एवं ता अद्दिष्टे; दिढे पढमं पदं परिहवेत्ता ।
तेचेव असेहे वी, अदिट्ठ दिढे पुनो एक्कं ॥ वृ-एवं तावदष्टे स्तैन्ये क्रियमाणे शैक्षसय प्रायश्चित्तमुक्तम् । दृष्टे तु 'प्रथम' मासलघुलक्षणं पदं परिहाप्य' परिहत्यमासगुरुकादारब्धमूलं यावद्वक्तव्यम्।अशैक्षः-उपाध्यायस्तस्याप्यदृष्टे 'तान्येव' मासगुरुकादीनि मूलान्तानिप्रायश्चित्तस्थानानि भवन्ति, दृष्टे पुनः एक मासगुरुलक्षणं पदंहसति, चतुर्लघुकादारब्धमनवस्थाप्ये निष्ठांयातीत्यर्थः।आचार्यस्याप्यघटेऽनवस्थाप्यान्तमेव, घटेतुचतुर्गुरुकादारब्धंपाराञ्चकेतिष्ठति॥गतं साधर्मिकोपधिस्तैन्यद्वारम्।अथव्यापारणाद्वारमाह[भा.५०६८] वावारिय आनेहा, बाहिं घेत्तूण उवहि गिण्हंति ।
लहुगो अदिति लहुगा, अणवठ्ठप्पो व आदेसा॥ वृ-'व्यापारिता नाम गुरुभिप्रेषिताः, यथा-"आनेह"त्तिउपधिमुत्पाद्याऽऽनयत।तेचैवमुक्ता अनेकविधमुपधिं गृहिभ्यः ‘गृहीत्वा' उत्पाद्य 'बहिरेव' आचार्यसमीपमप्राप्ता उपधिं गृह्णन्ति, 'इदंतवइदं मम' इति विभज्यस्वयमेव स्वीकुर्वन्तीत्यर्थः; एवंगृह्णतांमासलघु।आगताआचार्यस्य न ददति चतुर्लघवः, प्रस्तुतसूत्रादेशाद्वा स स्वच्छन्दवस्त्रग्राहकः साधुवर्गोऽनवस्थाप्यो भवति॥ . गतं व्यापारणाद्वारम्।अथध्यामनाद्वारम्-सा चध्यामना द्विविधा-सती असतीच। तत्रासतीं तावदाह[भा.५०६९] दट्ठनिमंतण लुद्धोऽनापुच्छा तत्थ गंतु नं भणति।
झामिय उवधी अह तेहि पेसितो गहित नातोय ॥ वृ-आचार्या केनापि दानश्राद्धादिना विरूपरूपैर्वस्त्रैर्निमन्त्रिताः, तैश्च तानि प्रतिषिद्धानि । एकश्च साधुस्तां निमन्त्रणां श्रुत्वा तानि च सुन्दराणि वस्त्राणि दृष्टवा 'लुब्धः' लोभं गतः । तत आचार्यमनापृच्छय “णं" इति तं श्रावक तत्र गत्वा भणति-अस्माकमुपधि 'ध्यामितः' दग्धः ततोऽहं तैराचार्यैर्युष्माकं सकाशे वस्त्रार्थं प्रेषितः; एवमुक्ते दत्तस्तेनोपधि । स च गृहीत्वा गतः, अन्ये च साधव आगताः । श्राद्धेन भणितम्-युष्माकमुपधिदग्ध इति कृत्वा यो भवद्भि साधुः प्रेषितस्तस्य नूतनोपधिर्दत्तो वर्तते, यदि न पर्याप्तं ततो भूयोऽपि ददामीति । साधवो ब्रुवतेनास्माकमुपदिर्दग्धो न वा वयं कमपि प्रेषयामः । एवं स लोभाभिभूतः साधुस्तेन श्रावकेण ज्ञातः, यता-गुरूणां पृच्छामन्तरेणायं गृहीतवान् । ततश्च किं भवति? इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org