________________
२७२
बृहत्कल्प-छेदसूत्रम् -३-५/१४६ [भा.५७०१] उप्पन्ने उवसग्गे, दिब्बे माणुस्सए तिरिक्खे य।
हंदि ! असारं नाउं, मानुस्सं जीवलोगं च ॥ वृ-दिव्य-मानुष्य-तैरश्चान् उपसर्गान् उत्पन्नान् सम्यगधिसहिष्याम इत्युपस्कारः । कुतः? इत्याह-‘हन्दि' इति हेतूपदर्शने, वयं मानुष्यं जीवलोकं चासारमेव जानीमस्ततस्दद् ज्ञात्वा कथमुपसर्यान्न सहिष्यामः?॥ [भा.५७०२] ते निग्गया गुरुकुला, अन्नं गामं कमेण संपत्ता।
काऊण विद्दरिसणं, इत्थीसवेणुवस्सग्गो॥ वृ-एवमुक्त्वा 'ते' साधवः स्वच्छन्देन गुरुकुलाद् निर्गताः क्रमेणान्यं ग्रामं सम्प्राप्ताः, तत्र चैकस्यां देवकुलिकायां स्थिताः । तेथां मध्ये यो मुख्यः स प्रतिश्रयपालः स्थितः, शेषा भिक्षार्थ प्रविष्टाः । ततःकयाचिदेवतया 'विदर्शनं' विशेषेण दर्शनीयं रूपंकृत्वा स्त्रीरूपेणोपसर्ग कृतः।
इदमेव सुव्यक्तमाह[भा.५७०३] पंता वनं छलिज्जा, नाणादिगुणा व होंतु सिं गच्छे।
ननियत्तिहिंतऽछलिया, भद्देयर भोग वीमंसा ॥ वृ-सम्यग्दृष्टिरेका देवता चिन्तयति-एते तावद् अनुपदेशेन प्रस्थिताः अतो माऽमून् प्रान्ता देवता छलयेद्, ज्ञानादयो वा गुणाः “सिं" अमीषां गच्छे वसतां भवन्तु इति कृत्वा केनाप्युपसर्गेणाच्छलिताः सन्तोन निवर्तिष्ते इतिबुध्या भद्रिका समागच्छति । इतरा तु प्रान्ता भोगार्थिनी 'विमर्श वा परीक्षां कर्तुकामा छलयेत् ।। कतंपुनः स्त्रीरूपेणोपसर्गयेत् ? इत्याह[भा:५७०४]भिक्ख गय सत्थ चेडी, गुज्झक्खिणी अम्ह साविया कहणं।
विहवारूवविउव्वण, किइकम्माऽऽलोयणा इणमो॥ कृ-सादेवताभिक्षांगतेषूसाधुषुसार्थं विकुळतांदेवकुलिकांपरिक्षिप्यावासिता।ततश्चेटिकारूपं विकुळ प्रतिश्रयमागत्य साधुं वन्दित्वा भणति-'गोज्झक्खिणी' स्वामिनी मदीया श्राविका, सा नजानाति अत्र साधून स्थितान्, ततोऽहं स्वामिन्याः कथयामि येन सा युष्मान्वन्दितुमायाति। ततः सा निर्गत्य विधवारूपं विकुळ चेटिकाचक्रवालपरिवृता प्रतिश्रयमागत्य ‘कृतिकर्म वन्दनं कृत्वा पर्युपास्ते ततः साधुना भणिता-कुतः श्राविका समायाता? । ततः सा इमामालोचनां ददाति॥ [भा.५७०५] पाडलिपुत्ते जम्मं, साएतगसेट्ठिपुत्तभज्जत्तं।
पइमरण चेइवंदनछोम्मेण गुरू विसज्जणया॥ [भा.५७०६] पव्वजाए असत्ता, उज्जेनि भोगकंखिया जामि ।
तत्थ किर बहू साधू, अवि होज्ज परीसहजिय त्था॥ __-पाटलिपुत्रेनगरेममजन्मसमजनि, साकेतवास्तव्यस्य श्रेष्टिपुत्रस्य च भार्यात्वम, पतिमरणे , च सञ्जाते चैत्यवन्दनच्छद्मना ‘गुरुभ्यः' श्वशुरादिभ्य आत्मनो विसर्जनं कृत्वा सम्प्रति प्रव्रज्यायामशक्ता सती उज्जयिन्यां भोगानां काङ्क्षिका गच्छामि । 'तत्र' उज्जयिन्यां किल इति श्रूयते-बहवः साधवः परीषहपराजिताः सन्ति, 'थ' इति निपातः पादपूरणे, अमुनाऽभिप्रायेण निर्गताऽहम्, साम्प्रतंतुयुष्मासु एष्टेषु मदीयं मनो नाग्रतो गन्तुंददाति ।। ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org