________________
उद्देशक: ५, मूलं- १४६, [ भा. ५६९५ ]
कृतं न भवति । तदकरणाच्च नासौ तत्त्वतस्तेषां गुरु । तथा चोक्तम्अशासितारं च गुरुं मन्दस्नेहं च बान्धवम् । अदातारं च भर्तारं, जनस्थाने निवेशयेत् ॥
"आलोए" त्ति पदं व्याख्याति
२७१
[ भा. ५६९६ ] सम्मोहो मा दोण्हवि, वियडिज्जंतम्मि तेन न पढंति । पडिपुच्छे पलिमंथो, असंखडं नेव वच्छल्लं ॥
वृ-ये भिक्षाचर्यां गतास्ते आगत्य यावद् आलोचयन्ति तावत् पूर्वागतानां परिवर्तनव्याघातः । अथालोचयतामपि परिवर्तयन्तितत आचार्या आलोच्यमानं नावधारयन्ति । आलोचकोऽपि सम्यग् हस्तं मात्रकं व्यापारं वा तेन व्याक्षेपेण न स्मरति । एवं 'द्वयेषामपि सम्मोहो मा भूत्' इति कृत्वा 'विकट्यमाने' आलोच्यमाने यन्न पठन्ति एष व्याघातः । “पडिपुच्छ" त्ति द्वारं व्याख्यायतेतस्यान्तिके ये सूत्रार्थप्रतिपृच्छां कुर्वते तेषां प्रत्युत्तरं ददतः स्वाध्यायपरिमन्थः । अथ प्रत्युत्तरं न ददाति ततस्ते रुष्येयुः - 'स्तब्धस्त्वम्, कस्तवान्तिके प्रश्नयिष्यति ?' इत्यादिच जल्पन्ति; ततोऽसङ्घडं भवति । न च प्रतिवचनमप्रयच्छता साधर्मिकवात्सल्यं कृतं भवति ॥
अथ वादि- प्रागुणक-महाजन-ग्लान-दुर्लभभैक्षद्वाराणि व्याचष्टे
[भा. ५६९७ ] चिंतेइ वादसत्थे, वादिं पडियरति देति पडिवायं । महइ गणे पाहुणगा, वीसामण पज्जुवासणया ।।
.वृ-वादिनमागच्छन्तं श्रुत्वा वादशास्त्राणि चिन्तयति । तं च वादितं यावत् प्रतिचरतिप्रतिवादं च यावत् तस्य प्रयच्छति तावद् व्यागातः । तथा महति गणे प्राघुणका आगच्छेयुः तेषां विश्रामणा पर्युपासना च कर्तव्या ॥
[भा. ५६९८ ] आलोयणा सुणिज्जति, जाव य दिज्जइ गिलाण - बालाणं । हिंडंति चिरं अन्ने, पाओगुभयस्स वा अट्ठा ॥
वृ- आलोचना च यावत् तेषां श्रूयते, यावच्च ग्लान वालानां दीयते, तथा प्राघुणकादीनां प्रायोग्यस्य उभयस्य भक्तस्य पानकस्य चार्थाय चिरमेके पर्यटन्ति, 'अन्ये च' निवृत्ता अपि तानागच्छतो यावत् प्रतीक्षन्ते ॥
[ भा. ५६९९ ]
पाउग्गोसह उव्वत्तणादि अतरंति जं च वेज्जस्स ।
किमहिज्जउ खलुभिक्खे, केसवितो भिक्ख- हिंडीहिं ॥
वृ- 'अतरतः' ग्लानस्य प्रायोग्यौषधादिकं यावद् आनयन्ति, उद्वर्तनादिकं वातरय कुर्वन्ति, वैद्यस्य वा 'यद्' मञ्जनादिकं परिकर्म कुर्वन्ति तावद् व्याघातः । खलुक्षेत्रे वा स्वल्पया भिक्षया बाह्यया च हिण्डया चिरं क्लेशितः सन् किमधीताम् ? न किञ्चिदित्यर्थः ॥
[भा. ५७०० ] ते गंतुमना बाहिं, आपुच्छंती तहिं तु आयरियं ।
भणिया भणति भंते!, न ताव पज्जत्तगा तुब्भे ॥
वृ- एतैः कारणैः 'तत्र' गच्छे व्याघातं मत्वा 'ते' गृहीतसूत्रार्था साधवो बहिर्गन्तुमनस आचार्यमापृच्छन्ति । तत आचार्येण वारिता दिव्य मानुष्य-तैरश्चोपसर्गसहने विहारे च न तावद् अद्यापि यूयं पर्याप्ताः । एवं भणितास्ते भणन्ति भदन्त ! युषमच्चरणप्रसादेनेध्शा भविष्यामः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org