SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २७० बृहत्कल्प-छेदसूत्रम् -३-५/१४६ समागतानामन्यसाधूनामालोचयतां यदि परावर्त्यते तत आलोचनाव्याघातः । तथा गच्छे वसतो बहवः प्रतिपृच्छानिमत्तमागच्छन्ति तेषां प्रत्युत्तरदाने व्याघातः । तं च बहुश्रुतं तत्र स्थितं श्रुत्वा वादिनः समागच्छन्ति ततस्तेऽपि निग्रहीतव्याः, अन्यथा प्रवचनोपघातः । तथा "महानि"त्ति 'महाजने महति गणेबहवः प्राघूर्णकाः समागच्छन्ति तेषां विश्रामणयापर्युपासनया च व्याघातः। तथा बहवो महति गणे ग्लानास्तदर्थमौषधादिकमानेतव्यम् । दुर्लभं वा तत्र क्षेत्रे भैक्षं तदर्थं चिरमटनीयम् । एवंविधो व्याघातो गच्छे भवतीति सङ्ग्रहगाथासमासार्थः।। साम्प्रतं विस्तरार्थ-मभिधित्सुर्धर्मकथाद्वारं सुगममित्यनाध्त्य महर्द्धिकद्वारं व्याख्याति-तत्र योराजा राजामात्योऽपरोवामहर्द्धिकोधर्मश्रवणायागच्छति तस्यावश्यं विशेषेणचधर्मकथनीयः । परः प्राह-किं कारणं महर्द्धिकस्य विशेषतो धर्मकथा क्रियते ? ननु भगवद्भिरित्थमुक्तम्"जहा पुनस्स कत्थई तहा तुच्छस्स कत्थई" अत्रोच्यते[भा.५६९२] कामंजहेव कत्थति, पुन्ने तह चेव कत्थई तुच्छे । वाउलणाय न गिण्हइ, तम्मि य रुढे बहू दोसा ।। वृ- 'कामम्' अनुमतमिदं यथैव 'पूर्णस्य' महर्द्धिकस्य धर्म कथ्यते तथैव 'तुच्छस्य' अल्पर्धिकस्यापि कथ्यते, परं स महर्द्धिको व्याकुलनातो यथातथा धर्म कथ्यमानं सम्यग् 'न गृह्णाति' न प्रतिपद्यते रोषं च गच्छति, 'तस्मिंश्च' राजेश्वर-तलवरादिके रुष्टे 'बहवः' निर्विषयाज्ञापनादयो दोषाः, अतोऽवश्यं विशेषेण वातस्यधर्मकथनीयः; एवं सूत्रार्थस्मरणव्याघातः। अथवा गुरवोमहर्द्धिकायधर्मकथयन्तितदानीमपितूष्णीकैभवितव्यम्,माभूत् कोलाहलतस्तस्य सम्यग्धर्माप्रतिपत्तिरिति कृत्वा ॥आवश्यिकी-नषेधिकीपदे चशब्दसूचितं चार्थं व्याचष्टे[भा.५६९३]आवासिगा-ऽऽसज्ज-दुपहियादी, विसीयते चेव सवीरिओ वि। विओसणे वा वि असंखडाणं, आलोयणं वा वि चिरेण देती॥ वृ-आवश्यकीकरणे उपलक्षणत्वाद् नैषेधिकीकरणे आसज्जकरणे दुःप्रत्युपेक्षित-दुःप्रमाणनादिकरणेच 'सवीर्योऽपि' समर्थोऽपियःप्रमादबहुलतया विधीदतिससम्यगनिरीक्ष्यशिक्षणीयः। असङ्कडानिचसाधूनामुत्पधेरन्तेषां व्युपशमने भूयसी वेला लगति।प्रतिक्रमणेवाप्रभूतसाधुसमूहः क्रमेणालोचयन् चिरेणालोचनां ददाति॥ [भा.५६९४] मेरं ठवंति थेरा, सीदंते आवि साहति पवत्ती। थिरकरण सड्डहेउं, तवोकिलंते य पुच्छंति॥ .. वृ- 'स्थविराः' आचार्या यावद् 'मर्यादां' सामाचारी स्थापयन्ति तावत् चिरीभवति । यो वा कोऽपि सामाचार्यां सीदति तस्य प्रवृत्तिर्यावद् आचार्याणां निवेद्यते तावत् स्वाध्यायपरिमन्थः । अभिनवश्राद्धस्य वा स्थिरीकरणार्थं धर्म कथनीयः । ये च तपस्विनो विकृष्टतपसा क्लान्तास्ते 'सुखतपः समस्ति भवताम् ?' इति भूयोभूयः प्रष्टव्याः॥ . - [भा.५६९५] आवासिगा निसीहिगमकरेंते असारणे तमावजे । परलोइगंचन कयं, सहायगत्तं उवेहाए॥ वृ-अत्रावश्यिकी-नैषेधिक्यादिसामाचारीमकुर्वतामाचार्यसारणांनकरोतिततोयत्तदकरणे प्रायश्चित्तं तद् उपेक्षमाण आचार्य आपद्यते । उपेक्षायां च पारलौकिकं सहायत्वं तेषामाचार्येण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy