________________
उद्देश : ४, मूलं- १३६,
[ भा. ५६०४ ]
[भा. ५६०४]
देहस्स तु दोबल्लं, भावो ईसिं व तप्पडीबंधो । अगलाए सोहिकरणेण वा वि पावं पहीणं से |
२५१
वृ- देहस्य दौर्बल्यम् ईषद्वा मनोज्ञाहारविषयप्रतिबन्धः, एष भाव उच्ये । यद्वा अग्लान्या शोधिकरणेन पापं तस्य प्रक्षीणप्रायम् एवंविधं भावमाचार्या जानीयुः ॥ कतं पुनरेतद् जानन्ति ? इति उच्यते
[ भा. ५६०५ ] आगंतु एयरो वा, भावं अतिसेसिओ से जाणिज्जा । ऊहि व से भावं, जाणित्ता अनतिसेसी वि ।।
वृ- आगन्तुकः 'इतरो वा' वास्तव्यः 'अतिशयी' नवपूर्वधरादिरवधिज्ञानादियुक्तो वा स एवंविधं भावं "से" तस्य जानीयात् । अथवा अनतिशयज्ञान्यपि बाह्यैराकारादिभिर्हेतुमिस्तस्य भावं जानीयात् ॥ ततः
[ भा. ५६०६ ] सक्कमहादी दिवसो, पनीयभत्ता व संखडी विपुला । ध्रुवलंभिग एगघरं, तं सागकुलं असागं वा ।।
वृ- शक्रमहादेर्दिवसो यदा सञ्जातस्तदा तं क्वापि श्राद्धगृहे नयन्ति, प्रणीतभक्ता वा काचिद् विपुला सङ्घडिस्तत्र वा विसर्जयन्ति । तच्च 'ध्रुवलम्मिकम्' अवश्यसम्भावनीयलाभमेकमेव गृहं विद्यते । इदं च श्रावकगृहमश्रावकगृहं वा भवेत् उभयत्रापि गुरवः स्वयं प्रथमतो गच्छन्ति, तंच पिहारिकं - आर्य ! समागन्तव्यममुकगृहे पात्रकमुद्ग्राह्य त्वयेति । ततस्तत्र प्राप्तस्य विपुलमवगाहिमादिकं भक्तं दापयन्ति । अथासौ तत्र गन्तुं न शक्नोति ततो भाजनानि गृहीत्वा स्वयमानीय गुरवो ददति । एतावता “कप्पइ आयरि-उवज्झाएणं तद्दिवसं एगगिहंसि पिंडवायं दवावित्तए" इति सूत्रं व्याख्यातं मन्तव्यम् । अथ "तेन परं नो से कप्पइ" इत्यादि सूत्रं व्याख्याति - [भा. ५६०७ ] भत्तं वा पानं वा, न दिंति परिहारियस्स न करेंति । कारणे उट्ठवणादी, चोयग गोणीय दिट्टंतो ॥
वृ- भक्तं वा पानकं वा ततः परं परिहारिकस्य निष्कारणेन प्रयच्छन्ति, न वा किमप्यालपनार्दिकं कुर्वन्ति । 'कारणे तु' यदा उत्थानादिकं कर्तुं क्षीणदेहतया न शक्नोति तत उत्थापनादिकं कारयन्ति । अत्र नोदकः प्राह- किं प्रायश्चित्तं राजदण्ड इवावशेन वोढव्यं येनेध्शीमवस्थां प्राप्तस्यापि भक्तपानमानीय न दीयते ? । सूरिराह-गोटान्तोऽत्र क्रियते यथा नवप्रावृषि या गौरुत्थातुं न शक्नोति तां गोप उत्थापयति अटवीं च चारिचरणार्थं नयति, या तु गन्तुं न शक्नोति तस्या गृहे आनीय प्रयच्छति । एवं पारिहारिकोऽपि यत् कर्तुं शक्नोति तत् कार्यते, यत् पुनरुत्थानादिकं कर्तुं न शक्नोति तद् अनुपारिहारिकः करोति ॥
कथं पुनरसौ करोति ? इत्याह
[भा. ५६०८]
उद्वेज निसीएज्जा, भिक्खं हिंडेज भंडगं पेहे । कुवियपियबंधवस्स व, करेइ इयरो वि तुसिणीओ ॥
वृ-स परिहारिकस्तपसा क्लान्तो ब्रवीति- उत्तिष्ठेयं निषीदेयं भिक्षां हिण्डेयं भाण्डकं प्रत्युपेक्षेयम्; एवमुक्तेऽनुपारिहारिक उत्थापनादिकं सर्वमपि करोति । कथम् ? इत्याह-यथा प्रियबान्धवस्य कुपितः कश्चिद् बन्धुर्यत् करणीयं तत् तूष्णीकः करोति, एवम् 'इतरोऽपि' अनुपारिहारिकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org