SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २५० बृहत्कल्प-छेदसूत्रम् -३-४/१३६ अथ यानि पदानि तेन साधुभिश्च परस्परं परिहर्तव्यानि तानि दर्शयति[भा.५५९८] आलावण पडिपुच्छण, परियटुट्ठाण वंदनग मते। पडिलेहण संघाडग, भत्तदान संभुंजणा चेव॥ वृ-'आलपन' सम्भाषणमनेन युष्माकं न कर्तव्यं युष्माभिरप्यस्य न विधेयम् । एवं सूत्राऽर्थयोः शरीरवार्ताया वा प्रतिप्रच्छनम्, पूर्वाधीतस्य श्रुतस्य परिवर्तनम्, कालग्रहणनिमित्तं "उट्ठाणं"तिउत्थापनम्, रात्री सुप्तोत्थितैर्वन्दनककरणम्, खेल-कायिका-संज्ञामात्रकाणांसमर्पणम्, उपकरणस्य प्रत्युपेक्षणं भिक्षा-विचारादौ गच्छतां सङ्घाटकेन भवनम्, भक्तस्य वापानकस्य वा दानम्, एकमण्डल्यां वा सम्-एकीभूय भोजनंन कर्तव्यम्॥अथ कुर्वन्तितत इदं प्रायश्चित्तम्[भा.५५९९] संघाडगाओ जावउ, लहुओ मासो दसण्ह उपयाणं । ... लहुगा य भत्तदाणे, संभुंजण होतऽणुग्घाता॥ वृ-एतेषामालपनादीनांदशानांपदानांमध्यादालपनादारभ्ययावत्सङ्घाटकपदंतावद् अष्टानां पदानांकरणे गच्छसाधूनां प्रत्येकंमासलघु।अथ भक्तदानं कुर्वन्ति ततश्चतुर्लघु । एकमण्डल्यां सम्भुञ्जते ततस्तेषामेव चत्वारोऽनुद्धाता मासाः ॥परिहारकस्य इदं प्रायश्चित्तम्[भा.५६००] अट्ठण्हंतु पदाणं, गुरुओ परिहारियस्स मासो उ। भत्तपदाने संभुंजणे य चउरो अनुग्धाया।। वृ.पारिहारिकस्याष्टानां पदानां सङ्घाटकान्तानां करणे मासगुरु । भक्तप्रदानं सम्भोजनं वा कुर्वतश्चत्वारो मासा अनुद्धाताः । इमे च दोषाः[भा.५६०१] कुव्वंताणेयाणि उ, आणादि विराधना दुवेण्हं पि। देवय पमत्त छलणा, अधिगरणादी य उदितम्मि॥ वृ-'एतानि' आलपनादीनि कुर्वतामाज्ञादयोदोषाः,विराधनाच द्वयोरपि पारिहारिकगच्छसाधुवर्गयोर्भवति।प्रमत्तस्य च देवतयाछलनम्।अन्येन वासाधुना भणितः-'किमित्यालपनादीनि करोषि ?' एवं 'उदिते' भणिते सति अधिकरणादयो दोषा भवन्ति॥ अथ “कप्पइ० एगगिहंसि" इत्यादि सूत्रं व्याख्यानयति[भा.५६०२] विउलं व भत्त-पानं, दणं साहुवज्जणंचेव । . नाऊण तस्स भावं, संघाडं देति आयरिया॥ वृ-सङ्खड्यामुत्सवे वा विपुलं भक्त-पानं साधुभिरानीतं दृष्ट्वा तद्विषय ईषदभिलाषो भवेत्, 'साधुवर्जनांच' 'साधुभिः खदुश्चरितैः परित्यक्तोऽहम्' इत्येवं मनसि चिन्तयेत् । एवं ज्ञात्वा तदीयं भावमाचार्या सङ्घाटकं ददति ॥ अथेदमेव भावपदं व्याचष्टे[भा.५६०३] भावो देहावत्था, तप्पडिबद्धो व ईसि भावो से। अप्पातित हयतण्हो, वहति सुहं सेसपछित्तं ।। वृ-भावो नाम 'देहावस्था देहस्य दुर्बलता 'तप्रतिबद्धो वा' विपुलभक्त-पानविषय ईषद् 'भावः' अभिलाषः तस्य सजातः, ततश्च यथाभिलषिताहारेणाप्यायितोहततृष्णश्च सन् सुखेनैव शेषं प्रायश्चित्तं वहतीति मत्वा सङ्घाटको दीयते ॥ अमुमेवार्थमन्याचार्यपरिपाट्या किञ्चिद् विशेषयुक्तमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy