________________
२५२
बृहत्कल्प-छेदसूत्रम् -३-४/१३६ सर्वमपि तूष्णीकभावेन करोति ॥अथ भिक्षाहिण्डनादौ विधिमाह[भा.५६०९] नीनेति पवेसेति व, भिक्खगए उग्गहं तउग्गहियं ।
रक्खतिय रीयमाणं, उक्खिवइ करेय पेहाए। वृ-भिक्षां गतस्य पारिहारिकस्य अवग्रहं प्रतिग्रहं तेन-पारिहारिकेण गृहीतमनुपारिहारिकः पात्रबन्धानिष्काशयति तत्रवाप्रवेशयति, रीयमाणंच पर्यटन्तंश्वान-गवाद्युपद्रवात्प्रपतनादेर्वा रक्षति, भाण्डप्रत्युपेक्षणायामशक्तस्य करौं' हस्तावनुपरिहारिक उत्क्षिपतियेन स्वयमेवप्रत्युपेक्षते। आह-यदि नामाशक्तस्तर्हि कस्मादसौ भिक्षाहिण्डनादिकं विधाप्यते? इत्याह. [भा.५६१०] एवं तु असढभावो, विरियायारोय होति अनुचित्रो।
भयजननं सेसाण य, तवोय सप्पुरिसचरियं च ॥ कृ-“एवं' यथाशक्ति कुर्वतस्तस्याशठभावो भवति,वीर्याचारश्चानुचीर्णोभवति, शेषाणामपि' साधूनां भयजननं कृतं भवति, तपः सम्यगनुपालितं भवति, सत्पुरुषचरितं च कृतं भवति ॥ अथ “छिन्नवाएसुपंथेसु" इत्यादि सूतरं व्याचष्टे[मा.५६११] छिन्नावात किलंते, ठवणा खेत्तस्स पालणा दोण्हं ।
असहुस्स भत्तदानं, कारणेपंथे व पत्तेवा ॥ वृ-छिन्नापातेऽध्वनिगच्छन् परिहारिको यदिबुभुक्षया तृषा चक्लान्तो ग्रामंप्राप्तुं न शक्नोति ततोऽनुपारिहारिको भक्त-पानं गृहीत्वा तस्यान्तरग्रामेददाति।अथवासभगवान्अनिगृहितबलवीर्यो बहिमिभिक्षांपर्यटि, तत्र हिण्डित्वा तपःक्लान्तो यदा नशक्नोत्यागन्तुंतत आगन्तुमसमर्थे तस्मिन् क्षेत्रस्य स्थापना कर्तव्या, मूलग्राम एव स हिण्डते न बहिर्भिक्षाचर्यां गच्छतीत्यर्थः । "पालणा दोण्हं"ति 'द्वयोरपि' पारिहारिका-ऽनुपारिहारिकयोः पालना कर्तव्या । कथम् ? इत्याह-"असहुस्स भत्तदानं कारणे" त्ति यदि स पारिहारिकः स्वग्रामेऽपि हिण्डितुं न शक्नोति ततोऽनुपारिहारिको हिण्डित्वा तस्य प्रयच्छति अनुपारिहारिकस्तु मण्डलीतः समुद्दिशति; अथानुपारिहारिकोऽपि ग्लानत्वेनासहिष्णुर्भिक्षां गन्तुं न शक्नोति तत एवंविधे कारणे द्वयोरपि गच्छसत्काः साधवः प्रयच्छन्ति; एवं द्वावपि पालिती-अनुकम्पिती भवतः। एवं स्थानस्थितानां यतना भणिता । सम्प्रति पूर्णेमासे वर्षावासे वा ग्रामानुग्रामं विहरतां "पंथेवपत्तेव"त्ति पथिवा ग्रामे प्राप्तानां वा यतनाऽभिधीयते॥ [मा.५६१२] उवयंतिडहरगाम, पत्ता परिहारिए अपाते।
तस्सऽट्ठा तं गाम, ठविंति अन्नेसु हिंडंति ॥ वृ-पथि व्रजन्तो डहरं-लघुतरं ग्रामं प्राप्ताः परिहारिकश्चाद्यापि न प्राप्नोति ततस्तस्या) तं ग्रामं स्थापयन्ति । स्वयं तु गच्छसाधवोऽन्येषु ग्रामेषुभिक्षां हिण्डन्ते॥ [भा.५६१३] वेलइवाते दूरम्मिय गामे तस्स ठाविउमद्धं ।
अद्धं अडंति सो विय, अद्धमडे तेहि अडिते वा॥ वृ.अथ यावत् ते गच्छन्ति तावदन्यग्रामेषु वेलाया अतिपातो भवति दूरे वा स ग्रामस्ततः 'तस्यैव' मूलग्रामस्यार्द्ध परिहारिकस्यार्थाय स्थापयित्वा द्वितीयमद्धं स्वयमटन्ति । एवं तावत् पथि वर्तमाने पारिहारिके भणितम्।यत्र तु साधवः पारिहारिकश्चसमकमेव प्राप्तात्राप्य॰ ग्रामे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org