________________
उद्देशक : ४, मूलं-१३६, [भा. ५६१३]
२५३ साधवो हिण्डन्तेऽर्द्ध पारिहारिकः । अथ साधूनामर्दै पर्यटतां न पूर्यते ततस्तैः सर्वस्मिन् ग्रामे पर्यटिते पारिहारिकः पश्चात् पर्यटति ।।
अथ पारिहारिको यथा कारणे गच्छसाधूनां वैयावृत्यं करोति तथाऽभिधीयते[भा.५६१४] बिइयपय कारणम्मि, गच्छे वाऽऽगाढे सो तुजयणाए।
. अनुपरिहारिओ कप्पद्वितो व आगाढ संविग्गो।। कृ-द्वितीयपदे 'कारणे' कुलादिकार्येपारिहारिकोऽपिसाधूनां वैयावृत्यं करोति, यथापाराञ्चिकः “अच्छउ महानुभागो, जहासुहंगणसयागरो संघो।" इत्यादि भणित्वावैयावृत्यं कृतवान्।तथा गच्छे वा आगाढं कारणं समजनि ततः सोऽपि यतनया' वक्ष्यमाणया भक्त-पानाहरणादिकं वैयावृत्यं करोति । 'अनुपरिहारिय" इत्यादि पश्चार्द्धम्-अथ गच्छसाधवः प्रज्ञप्तिमहाश्रुतादीनामन्यतरमागाढयोगप्रतिपन्ना उपाध्यायश्च ग्लानःकालगतो वा ततोऽनुपारिहारिकः कल्पस्थितो वा वाचनां गच्छस्य ददाति । अथ तावप्यशक्तौ ततः परिहारिकोऽपि वाचनां ददाति । स च तां ददानोऽपिसंविग्नएवमन्तव्यः । इहमाभूत् कस्यापिमति-पूर्वसूत्रेणप्रतिषिद्धं सूत्रार्थदानादिकमनेनानुज्ञातम्, एवंपूर्वापरविरुद्धमाचरन् असंविग्नोऽसावितितन्मतिव्यपोहार्थं संविग्नग्रहणम्।।
अथ गच्छस्यागाढकारणं व्याचष्टे[भा.५६१५] मयण च्छेव विसोमे, देति गणे सो तिरो व अतिरो वा।
तब्भाणेसु सएसुव, तस्स विजोगंजनो देति॥ वृ-मदनकोद्रवकूरेणगच्छः सर्वोऽपिग्लानःजातः,छेवकम्-अशिवंतेन वागृहीतः,प्रत्यनीकेन वा विषं दत्तम्, अवमौदर्ये वा न संस्तरति; तत एवमागाढे कारणे ‘सः' पारिहरिको भक्तपानमौषधानि वा 'तद्भाजनेषु' गच्छसत्केषु पात्रकेषु तेषामभावे स्वभाजनेषु वा गृहीत्वा तिरोहितमतिरोहितं वा 'गणे' गच्छस्य प्रयच्छति । तिरोहितं नाम-स आनीयानुपारिहारिकस्य ददाति सोऽपिगच्छस्यार्पयति, अथानुपारिहारिकोऽपिग्लानस्तदा कल्पस्थितस्य ददाति सोऽपि तथैव गच्छस्यार्पयति । कल्पस्थितस्यापि ग्लानत्वेऽतिरोहितं-स्वयमेव गच्छस्य ददाति । यच्च तेषां योग्यं जनो ददाति तत् तेषामर्थाय गृह्णाति, यत्तु तस्य योग्यं तद् आत्मनो गृह्णाति॥ [भा.५६१६] एवंता पंथम्मिं, जत्थ विय ठिया तहिं पि एमेव ।
बाहिं अडती डहरे, इयरे अद्धद्ध अडिते वा॥ वृ. एवं वत् पथि गच्छतामभिहितम् । यत्रापि च ग्रामादौ स्थितास्तत्राप्येवमेव मन्तव्यम् । मार्गेचयत्र गच्छो न प्राप्तस्तत्र डहरे ग्रामे पारिहारिकःप्राप्तोबहिर्गामे पर्यटति। "इतरे"त्तिअथ वेलातिक्रमो दूरे वा स ग्रामः ततस्तत्रैव मूलग्रामेऽढे पारिहारिकः पर्यटति अर्द्ध गच्छसाधवः, तेन वा अटिते गच्छः पर्यटति ॥ किंबहुना? पक्षद्वयस्याप्ययं परमार्थ उच्यते.. [भा.५६१७] कप्पट्ठिय परिहारी, अनुपरिहारी व भत्त-पानेनं ।
पंथे खेत्ते व दुवे, सो वि य गच्छस्स एमेव ॥ वृ-पथि वा क्षेत्रे वा द्वयोरपि वर्तमानो ग्लानत्वादी कारणे कल्पस्थितोऽनुपारिहारिको वा पारिहारिकस्य भक्त-पानेनोपग्रहं करोति । सोऽपिच पारिहारिको गच्छस्यैवमेवोपग्रहं करोति ।
मू. (१३७) नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमाओ पंच महन्त्रवाओ महानदीओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org