SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २५४ बृहत्कल्प-छेदसूत्रम् -३-४/१३७ उद्दिट्ठाओगणियाओवंजियाओ अंतामासस्सदुक्खुत्तोवा तिक्खुत्तो वा उत्तरित्तएवासंतरित्तए वा । तंजहा-गंगा जउणा सरऊ कोसिया मही॥ वृ-अस्य सम्बन्धमाह- . [भा.५६१८] अदाणमेव पगतं, तत्य थले पुव्ववन्निया मेरा। जति होज्ज तत्य तोयं, तत्थ उसुत्तंइमं होति॥ वृ-अनन्तरसूत्रे “छिनावाएसुपंथेसु" इति वचनाद् ‘अध्वा' मार्ग एव तावत्प्रकृतः। तत्रच स्थले गच्छतां 'पूर्ववर्णिता' प्रथमोद्देशके अध्वसूत्रे भणिता मर्यादा अवधारणीया। यत्र तुमार्गे तोयं भवति तद्विषयविधिप्रतिपादकमिदं सूत्रं भवति ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या'नो कल्पन्ते' नयुज्यन्ते, सूत्रे एकवचननिर्देशःप्राकृतत्वात्, निर्ग्रन्थानांवा निर्ग्रन्थीनांवा 'इमाः' प्रत्यक्षासन्नाः पञ्च 'महार्णवाः' बहूदकतया महार्णवकल्पा महासमुद्रगामिन्यो वा 'महानद्यः' गरुनिम्नगाः 'उद्दिष्टाः' सामान्येनाभिहिता यथा महानद्य इति, गणिता यथा पञ्चेति, व्यञ्जिताः' व्यक्तीकृता यथा गङ्गेत्यादि, 'अन्तर' मध्ये मासस्य द्विकृत्वो वा त्रिकृत्वो वा उत्तरीतुंवा बाहुजङ्घादिना सन्तरीतुंवा नावादिना । तद्यथा-गङ्गा १ यमुना २ सरयूः३कोशिका४मही ५। एष सूत्रार्थः ॥अष भाष्यकारः कानिचिद् विषमपदानि विवृणोति[भा.५६१९] इमाउ ति सुत्तउत्ता, उद्दिट्ट नदीउ गणिय पंचेव । गंगादि वंजिताओ, बहुओदग महन्नवातो तू॥ ..." वृ-इमा इति प्रत्यक्षवाचिना सर्वनाम्ना सूत्रोक्ता उच्यन्ते। उद्दिष्टा नद्य इति । गणिताः पञ्चेति। व्यञ्जिता गङ्गादिभिः पदैर्व्यक्तीकृताः । यास्तुबहूदकास्ता महार्णवा उच्यन्ते॥ कृता विषमपदव्याख्या भाष्यकृता ।अथ नियुक्तिविस्तरः[भा.५६२०] पंचण्हं गहणेणं,सेसा वि उसूइया महासलिला । तत्य पुरा विहरिंसुय, न यतातो कयाइ सुक्खंति॥ वृ-'पञ्चानां गङ्गादीनां ग्रहणेन शेषा अपियाः महासलिलाः' बहूदका अविच्छेदवाहिन्यस्ताः सूचिता मन्तव्याः। स्याद् बुद्धिः किमर्थं गङ्गादीनां ग्रहणम् ? इत्याह-“तत्थ" इत्यादि, येषु विषयेषु गङ्गादयः पञ्च महानद्यो वहन्ति तेषु पुरा साधवो विहृतवन्तो न च ताः कदाचनापि शुष्यन्ति अतस्तासां ग्रहणम्॥ [भा.५६२१] पंच परूवेतूणं नावासंतारिमे उजंजत्थ। उत्तरणम्मि विलहुगा, तत्थ वि आणाइणो दोसा॥ वृ-पञ्चापिमहानदीःप्ररूप्य या याशी यत्र विषये तांतथा वर्णयित्वा प्रस्तुतमभिधातव्यम् । तच्चेदम्-नौसन्तारिमं यत्रोदकं तत्र यत् षट्कायविराधनामात्मविराधनां वा प्राप्नोति तन्निष्पन्नं प्रायश्चित्तम् । यत्रापि जलादिनोत्तरणं भवति तत्रापि चतुर्लघुकाः, अपिशब्दात् सन्तरणेऽपि चतुर्लघु । 'तत्रापि' उत्तरणे आज्ञादयो दोषाः, किं पुनः सन्तरमे? इत्यपिशब्दार्थः॥ तत्र सन्तरणे तावदोषानाह[भा.५६२२] अनुकंपा पडिनीया, व होज बहवो उपचवाया ऊ। एतेसि नाणत्तं, वोच्छामि अहानुपुबीए॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy