SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३४४ भूयोऽप्यटन्तस्तथैव यतनां कुर्वन्ति ॥ बृहत्कल्प-छेदसूत्रम् - ३-५/१९५ श्रीमच्चूर्णिवचांसि तन्तव इह ज्ञेयास्तथा सद्गुरोराम्नायो नलकस्तुरी बुधजनोपास्त्युद्भवा चातुरी । इत्येतैर्वितान साधकतमैः श्रीपञ्चमोद्देशके, जाड्यापोहपटीयसीमहमिमामच्छिद्रटीकापटीम् ॥ उद्देशकः-५ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता बृहत्कल्पसूत्रे पञ्चमोद्देशकस्य (भद्रबाहुस्वामि रचिता नियुक्ति युक्तंः) संघदासगणि विरचितं भाष्यं एवं मलयगिरि क्षेमकीर्ति आचार्याभ्यां विरचिता टीका परिसमाप्ता । उद्देशकः-६ वृ- व्याख्यातः पञ्चमोद्देशकः, सम्प्रति षष्ठ आरभ्यते, तस्येदमादिसूत्रम्मू. (१९६) नो कप्पइ निग्गंथाण वा निग्गंधीण वा इमाई छ अवयणाई वइत्तए । तं जहाअलियवयणे हीलियवयणे खिंसियवयणे फरुसवयणे गारत्थियवयणे विओसवियं वा पुनो उदीरित्तए । वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह [ भा. ६०६०] कारणे गंधपुलागं, पाउं पलविज मा हु सक्खीवा । इइ पंचम - छट्ठाणं, थेरा संबंधमिच्छंति ॥ वृ- कारणे कदाचिदार्यिका गन्धपुलाकं पीत्वा सक्षीबा सती मा अलिकादिवचनानि प्रलपेत्, अत इदं सूत्रमारभ्यते । ‘इति' एवं पञ्चम- षष्ठोद्देशकयोः सम्बधं ' स्थविरा:' श्रीभद्रबाहुस्वामिन इच्छन्ति ॥ अथ प्रकारान्तरेण सम्बन्धमाह [भा. ६०६१] दुचरिमसुत्ते वृत्तं, वादं परिहारिओ करेमाणो । बुद्धी परिभूय परे, सिद्धंतावेत संबंधो ॥ पञ्चमोद्देशके द्विचरिमसूत्रे इदमुक्तम्- 'परिहारिकः' प्रवचनवैयावृत्यमवलम्बमानो वादं कुर्वन् 'परस्य' वादिनो बुद्धिं 'परिभूय' पराजित्य 'सिद्धान्तापेतं' सूत्रोत्तीर्णमपि ब्रूयात्, परमिमानि षडप्यवचनानि मुक्त्वा । एष प्रकारान्तरेण सम्बन्धः । अथवा [भा. ६०६२] दिव्वेहि छंदिओ हं, भोगेहिं निच्छिया मए ते य । इति गारवेण अलियं, वइज्ज आईय संबंधो ॥ Jain Education International वृ- पञ्चमोद्देशकस्यादिसूत्रं उक्तम्- "देवः स्त्रीरूपं कृत्वा साधुं भोगैर्निमन्त्रयेत्,” स च तान् भुक्त्वा गुरुसकाशमागत आलोचयेत् - दिव्यैर्भोगैः 'छन्दितः' निमन्त्रितोऽहं परं मया ते भोगा नेप्सिताः 'इति' एवं गौरवेण कश्चिदलीकं वदेत् । अत इदं षष्ठोद्देशकस्यादिसूत्रमारभ्यते । एष उद्देशकद्वयस्याप्यादिसूत्रयोः परस्परं सम्बन्धः ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या - "नो कप्पइ"त्ति वचनव्यत्ययाद् नो कल्पन्ते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'इमानि' प्रत्यक्षासन्नानि 'षड्' इति षटसङ्ख्याकानि 'अवचनानि' नञः कुत्सार्थत्वाद् अप्रशस्तानि वचनानि 'वदितुं' भाषितुम् । For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy