________________
३४५
उद्देशकः ६, मूलं-१९६, [भा. ६०६२] तद्यथा-अलीकवचनम्, हीलितवचनम्, खिंसितवचनम्, परुषवचनम्, अगारस्थिताः-गृहिणस्तेषां वचनम्, 'व्यवशमितं वा' उपशमितमधिकरणं 'पनर' भूयोऽप्युदीरयितुंन कल्पत इति प्रक्रमः, अनेन व्यवशमितस्यपुनरुदीरणवचनं नाम षष्ठमवचनमुक्तमिति सूत्रसङ्क्षपार्थः॥
अथ भाष्यकारो विस्तरार्थमभिधित्सुराह[भा.६०६३] छच्चेव अवत्तव्वा, अलिगे हीला य खिंस फरुसे य ।
गारत्थ विओसविए, तेसिंच परूवणा इणमो॥ - वृ-षडेव वचनानि अवक्तव्यानि' साधूनांवक्तुमयोग्यानि।तद्यथा-अलीकवचनंहीलितवचनं खिंसितवचनं परुषवचनं गृहस्थवचनं व्यवशमितोदीरणवचनम् । तेषांच' षण्णामपि यथाक्रममियं प्ररूपणा । तामेव प्ररूपणां चिकीर्षुरलीकवचनविषयां द्वारगाथामाह[भा.६०६४] वत्ता वयणिज्जो या, जेसु य ठाणेसु जा विसोही य ।
जेय भणओ अवाया, सप्पडिपक्खा उ नेयव्वा ॥ वृ-यः 'वक्ता' अलीकवचनभाषकः, यश्च ‘वचनीयः' अलीकवचनं यमुद्दिश्य भण्यते, येषु चस्थानेष्वलीकं सम्भवति, याशी च तत्र 'शोधिः' प्रायश्चित्तम्, ये चालीकं भणतः 'अपायाः' दोषास्ते “सप्रतिपक्षाः' सापवादा अत्र भणनीयतया ज्ञातव्या इति द्वारगाथासमासार्थ ॥
साम्प्रतमेनामेव विवृणोति[भा.६०६५] आयरिए अभिसेगे, भिक्खुम्मि य थेरए य खुड्डेय ।
गुरुगा लहुगा गुरु लहु, भिन्ने पडिलोम बिइएणं ॥ वृ-इहाचार्यादिर्वक्ता वचनीयोऽपिस एवैकतरस्तत इदमुच्यते-आचार्यआचार्यमलीकंभणति चतुर्गुरु, अभिषेक भणति चतुर्लघु, भिक्षु भणति मासगुरु, स्थविरं भणति मासलघु, क्षुल्लकं भणति भिन्नमासः । “पिडिलोम बिइएणं" ति द्वितीयेनाऽऽदेशेनैतदेव प्रायश्चित्तं प्रतिलोमं वक्तव्यम् । तद्यथा-आचार्यआचारयमलीकं भणति भिन्नमासः, अभिषेक भणति मासलघु, एवं यावत् क्षुल्लकं भणतश्चतुर्गुरु । एवमभिषेकादीनामप्लीकं भणतां स्वस्थाने परस्थाने च प्रायश्चित्तमिदमेव मन्तव्यम्।अभिलापश्चेत्थं कर्तव्यः-अभिषेक आचार्यमलीकं भणति चतुर्गुरु, अभिषेकंभणति चतुर्लघुइत्यादि । तच्चालीकवचनं येषु स्थानेषु सम्भवति तानि सप्रायश्चित्तानि दर्शयितुकामो द्वारगाथाद्वयमाह[भा.६०६६] पयला उल्ले मरुए, पच्चक्खाणे य गमन परियाए।
समुद्देस संखडीओ, खुड्डुग परिहारिय मुहीओ। कृप्रचलापदमापदंमरुकपदंप्रत्याख्यानपदंगमनपदंपर्यायपदंसमुद्देशपदंसङ्खडीपदंक्षुल्लकपदं पारिहारिकपदं “मुहीउ"त्ति पदैकदेशे पदसमुदायोपचाराद् घोटकमुखीपदम् ॥ [भा.६०६७] अवस्सगमनं दिसासुं, एगकुले चेव एगदव्वे य ।
पडियाखित्ता गमणं, पडियाखित्ता य भुंजणयं॥ वृ-अवश्यङ्गमनपदं दिग्विषयपदं एककुलगमनपदं एकद्रव्यग्रहणपदं प्रत्याख्याय गमनपदं प्रत्याख्याय भोजनपदं चेति द्वारगाथाद्वयसमासार्थः ॥अथैतदेव प्रतिद्वारं विवृणोति
[भा.६०६८] पयलासि किं दिवा न पयलामि लहु दुच्चनिण्हवे गुरुगो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org