________________
३४६
बृहत्कल्प-छेदसूत्रम् - ३-६/१९६
अन्नद्दाइत निण्हवे, लहुगा गुरुगा बहुतराणं ॥
वृ- कोऽपि साधुर्दिवा प्रचलायते स चान्येन साधुना भणितः किमेवं दिवा प्रचलायसे ? ; स प्रत्याह-न प्रचलाये; एवं प्रथमवारं निडुवानस्य मासलघु । ततो भूयोऽप्यसौ प्रचलायितुं प्रवृत्तस्तेन साधुना भणितः - मा प्रचलायिष्ठाः स प्रत्याह-न प्रचलाये; एवं द्वितीयवारं निह्नवे मासगुरु । ततस्तथैव प्रचलायितुं प्रवृत्तस्तेन च साधुनाऽन्यस्य साधोदर्शितः, यथा - एष प्रचलायते परं न मन्यते; ततस्तेनान्येन साधुना भणितोऽपि यदि निछुते तदा चतुर्लघु। अथ तेन साधुना 'बहुतराणां' द्वि-त्रादीनां साधूनां दर्शितस्तैश्च भणितोऽपि यदि निह्नुते तदा चतुर्गुरु ॥
[भा. ६०६९ ] निण्हवणे निण्हवणे, पच्छित्तं वड्डए य जा सपयं । लहु-गुरुमासो सुमो, लहुगादी बायरो होति ।।
वृ- एवं निह्नवने निह्नवने प्रायश्चित्तं वर्द्धते यावत् 'स्वपदं' पाराञ्चिकम्। तद्यथा-पञ्चमं वारं निहुवानस्य षड्लघु, षष्ठं वारं षड्गुरु, सप्तमं छेदः, अष्टमं वारं मूलम्, नवममनवस्थाप्यम्, दशमं वारं निह्रुवानस्य पाराञ्चिकम् । अत्र च प्रचलादिषु सर्वेष्वपि द्वारेषु यत्र यत्र लघुमासो गुरुमासो वा भवति तत्र तत्र सूक्ष्मो मृषावादः, यत्र तु चतुर्लघुकादिकं स बादरो मृषावादो भवति । गतं प्रचलाद्वारम् । अथार्द्रद्वारमाह
[भा. ६०७०] किं नीसि वासमाणे, न नीमि ननु वासबिंदवो एए। भुंजंति नीह मरुगा, कहिं ति ननु सव्वगेहेसु ॥
वृ- कोऽपि साधुर्वर्षे पतति प्रस्थितः, स चापरेण भणितः किं 'वासमाणे' वर्षति निर्गच्छसि ? स प्राह- नाहं वासन्ते निर्गच्छामि; एवं भणित्वा तथैव प्रस्थितः । तत इतरेण साधुना भणितः कथं 'न निर्गच्छामि' इति भणित्वा निर्गच्छसि ? ; स प्राह- 'वासु शब्दे" इति धातुपाठात् 'वासति' शब्दायमाने यो गच्छति स वासति निर्गच्छति इत्यभिधीयते, अत्र तु न कश्चिद् वासति किन्तु वर्षबिन्दव एते तेषु गच्छामि । एवं छलवादेन प्रत्युत्तरं ददानस्य तथैव प्रथमवारादिषु मासलघुकादिकं प्रायश्चित्तम् । अथ मरुकद्वारम्-तत्र कोऽपि साधुः कारणे विनिर्गत उपाश्रयमागम्य साधून् भणतिनिर्गच्छत साधवः ! यतो भुञ्जते मरुकाः; एवमुक्ते ते साधव उद्ग्राहितभाजना भणन्ति - "कहिं ति" त्तिक्क ते मरुका भुञ्जते ? ; इतरः प्राह- ननु सर्वेऽप्यात्मीयगृहेषु । एवं छलेनोत्तरं प्रयच्छति ।
अथ प्रत्याख्यानद्वारमाह
[भा. ६०७१] भुंजसु पञ्चक्खातं, महं ति तक्खण पभुंजिओ पुट्ठो । किं व न मे पंचविहा, पच्चक्खाया अविरई उ ॥
वृ- कोऽपि साधुः केनापि साधुना भोजनवेलायां भणितः - 'भुङ्क्ष्व ' समुद्दिश; स प्राह-प्रत्याख्यातं मया इति; एवमुक्त्वा मण्डल्यां तत्क्षणादेव 'प्रभुक्तः ' भोक्तुं प्रवृत्तः । ततो द्वितीयेन साधुना पृष्टः- आर्य ! त्वयेत्थं भणितं मया प्रत्याख्यातम्'; स प्राह- किं वा मया प्राणातिपातादिका पञ्चविधाऽविरतिर्न प्रत्याख्याता येन प्रत्याख्यानं न घटते ? || अथ गमनद्वारमाह
[भा. ६०७२] वच्चसि नाहं वच्चे, तक्खण वच्चंति पुच्छिओ भणइ ।
सिद्धतं न विजाणसि, ननु गम्मइ गम्ममाणं तु ॥
वृ- केनापि साधुना चैत्यवन्दनादिप्रयोजने व्रजा कोऽपि साधुरुक्तः किं त्वमपि व्रजसि ?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org