________________
उद्देशकः ६, मूलं-१९६, [भा. ६०७१]
३४७ आगच्छसि इत्यर्थः; स प्राह-नाहं व्रजामि; एवमुक्त्वा तत्क्षणादेव व्रजितुं प्रवृत्तः; ततस्तेन पूर्वप्रस्थितसाधुना भणितः-कथं 'न व्रजामि' इति भणित्वा व्रजसि ?; स भणति-सिद्धान्तं न विजानीषे त्वम्, 'ननु' इत्याक्षेपे, भो मुग्ध ! गम्यमानमेव गम्यते नागम्यमानम्, यस्मिंश्च समये त्वयाऽहं पृष्टस्तस्मिन्नाहं गच्छामीति ॥अथ पर्यायद्वारमाह[भा.६०७२] दस एयस्स य मज्झ य, पुच्छिय परियाग बेइ उछलेण ।
मम नव पवंदियम्मिं, भणाइ बे पंचगा दस उ ।। वृ-कोऽपि साधुरात्मद्वितीयः केनापि साधुना वनितुकामेन पृष्टः कतिवर्षाणि भवतांपर्यायः? इति । स एवंपृष्टो भणति-एस्य साधोर्मम च दश वर्षाणि पर्याय इति । एवं छलेन तेनोक्ते स प्रच्छकसाधुः “मम नव वर्षाणि पर्यायः' इत्युक्त्वा प्रवन्दितः' वन्दितुं लग्नस्तत इतरश्छलवादी भणति-उपविशत भगवन्तः ! यूयमेव वन्दनीया इति । 'कथं पुनरहं वन्दनीयः?' इति तेनोक्ते छलवादी भणति-मम पञ्च वर्षाणि पर्यायः, एतस्यापि साधोः पञ्च, एवं द्वे पञ्चके मीलिते दश भवन्ति, अतो यूयमावयोरुभयोरपि वन्दनीया इति भणति ॥अथ समुद्देशद्वारमाह[भा.६०७४] वट्टइ उ समुद्देसो, किं अच्छह कत्थ एस गगनम्मि ।
वटुंति संखडीओ, घरेसु ननु आउखंडणया॥ -कोऽपिसाधुःकायिकादिभूमौ निर्गतआदित्यं राहुणाग्रस्यमानंदृष्टवा साधून स्वस्थानासीनान् भणति-आर्या ! समुद्देशो वर्तते, किमेवमुपविष्टास्तिष्ठथ ?; ततस्ते साधवः ‘नायमलीकं ब्रूते' इति कृत्वा गृहीतभाजना उत्थिताः पृच्छन्ति-कुत्रासौ समुद्देशोभवति?;सप्राह-नन्वेष गगनमार्गे सूर्यस्य राहुणा समुद्देशः प्रत्यक्षमेव द्दश्यते । अथ सङ्खडीद्वारम्-कोऽपि साधुः प्रथममालिकापानकादिविनिर्गतः प्रत्यातो भणति-प्रचुराः सङ्घड्यो वर्तन्ते, किमेवं तिष्ठथ ?; ततस्ते साधवो गन्तुकामाः पृच्छन्ति-कुत्र ताः सङ्घड्यः ?; स छलवादी भणति- ननु स्वेषु स्वेषु गृहेषु सङ्घड्यो वर्तन्त एव; साधवो भणन्ति-कथं ता अप्रसिद्धाः सङ्घड्य उच्यन्ते ?; छलवादी भणति-“ननु आउखंडणय"त्ति ननु' इत्याक्षेपे, पृथिव्यादिजीवानामायूंषिगृहेगृहेरन्धनादिभिरारम्भैः सङ्खण्डयन्ते ते कथं न सङ्खड्यो भवन्ति ? ॥अथ क्षुल्लकद्वारमाह[भा.६०७५]खुडुग ! जननी ते मता, परुनो जियइ ति अन्न भणितम्मि ।
माइत्ता सव्वजिया, भविंसु तेनेस ते माता। वृ-कोऽपि साधुरुपाश्रयसमीपे मृतां शुनी दृष्टवा क्षुल्लकं कमपि भणति-क्षुल्लक ! जननी तव मृता; ततः स क्षुल्लकः 'प्ररुदितः' रोदितुं लग्नः, तमेवं रुदन्तं दृष्टवा स साधुराह-मा रुदिहि, जीवति तेजननी; एवमुक्ते क्षुल्लकोऽपरेचसाधवोभणन्ति-कथंपूर्वं मृतेत्युक्त्वा सम्प्रतिजीवतीति भणसि?; स प्राह-एषा शुनी मृता सा तव माता भवति । क्षुल्लको ब्रूते-कथमेषा मम माता ?; मृषावादिसाधुराह-सर्वेऽपि जीवा अतीते काले तव मातृत्वेन बभूवुः । तथा च प्रज्ञप्तिसूत्रम्एगमेगस्सणंभंते ! जीवस्स सव्वजिया माइत्ताए पिइत्ताए भाइत्ताए भज्जत्ताए पुत्तत्ताए धूयत्ताए भूतपुव्वा? हंता गोयमा! एगमेगस्सजावभूतपुव्वा । तेनैव कारणेनैषाशुनी त्वदीया माता इति। अथ पारिहारिकद्वारमाह[भा.६०७६] ओसन्ने दद्रूणं, दिट्ठा परिहारिग त्ति लहु कहणे ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org