________________
उद्देशक: ५, मूलं- १९५, [भा. ६०५५ ]
[भा. ६०५५] हिजो अह सक्खीवा, आसि ण्हं संखवाइभज्जा वा । भग्गा व नाए सुविही, दुद्दिट्ठ कुलम्मि गरहा य ।।
वृ- 'ह्यः' कल्ये अन्यस्मिन् दिने, 'अथ' इति उपदर्शने, इयं 'सक्षीबा' मद्यमदयुक्ता आसीत् । "हं" इति वाक्यालङ्कारे । एवं गन्धपुलाकं भुक्तवतीं संयतीं जना उपहसन्ति । वायुकायशब्दं च श्रुत्वा ब्रवीरन्- अहो ! इयं शङ्खवादकस्य भार्या पूर्वमासीत्, यद्वा भग्नाऽनया इत्थं वायुकायेनाश्रान्तं पूरयन्त्या “सुविही” अङ्गणमण्डपिका एवं प्रपञ्चयेयुः । “दुद्दिट्ठ कुलम्मि गरिहा य” त्ति दुर्द्दष्टधर्माणो अमी, कुलगृहं चैताभिरात्मीयं मलिनीकृतम्, एवं गर्हा भवति । ततश्च प्रतिगमनादयो दोषाः ॥
३४३
यत एवमतः
[भा. ६०५६ ] जहिं एरिसो आहारो, तहिं गमने पुव्ववन्निया दोसा । गहणं च अनाभोए, ओमे तहकारणेण गया ॥
वृ-यत्र विषये 'ईशः ' पुलाक आहारो लभ्यते तत्र निर्ग्रन्थीभिर्नैव गन्तव्यम् । यदि गच्छन्ति तदा त एव पूर्ववर्णिता दोषाः अथावमा ऽशिवादिभि कारणैर्गता भवेयुः, तत्र चानाभोगेन पुलाकभक्तस्य ग्रहणं भवेत् ।। ततः किम् ? इत्याह
[ भा. ६०५७]
गहियमनाभोएणं, वाइग वज्रं तु सेस वा भुंजे । मिच्छुप्पियं तु भुत्तुं जा गंधो ता न हिंडंती ॥
वृ- यदि अनाभोगेन पुलाकं गृहीतं भवति तदा "वाइगं" विकटं तद् वर्जयित्वा शेषं 'वा' विभाषया भुञ्जीरन् । किमुक्तं भवति ? -यदि तदपर्याप्तमन्यच्च भक्त लभ्यते तदा न भुञ्जते किन्तु तत् परिष्ठाप्यान्यद् भक्तं गृह्णन्ति; अथ पर्याप्तं तदा भुञ्जते, भुक्त्वा च तेनैव भक्तान पर्युषयन्ति; विकटं तु सर्वथैव न भोक्तव्यम् । भिक्षुप्रियं नाम पलाण्डु त पुनर्भुक्त्वा यावत् तदीयो गन्ध आगच्छति तावद् न हिण्डन्ते ॥
[भा. ६०५८ ]
कारणगमने वि तहिं, पुव्वं घेत्तूण पच्छ तं चेव । हिण्डन पिल्लण बिइए, ओमे तह पाहुणट्ठा वा ।।
वृ- अवमादिकारणैर्गतानामपि मद्य - पलाण्डु - लशुनान्येकान्तेन प्रतिषिद्धानि । अथ पूर्वमनाभोगादिना गृहीत् ततस्तद् गृहीत्वा पश्चात् तदेव भुक्त्वा तेनैव भक्तार्थेन तद्दिवसमासते न भूयो भिक्षाटन्ते । द्वितीयपदे द्वितीयमपि वारं भिक्षार्थं प्रविशेत् । 'अवमं' दुर्भिक्षं तत्र पर्याप्तं लभ्यते प्राघुणिका वा संयत्यः समायातास्ततो भूयोऽपि भिक्षाहिण्डनं कुर्वाणानामियं यतना"पिल्लण "त्ति धान्यपुलाके आहारिते यदि वायुकाय आगच्छेत् तत्रैकं पुनः पार्श्व प्रेर्य वायुकायं निसृजन्ति । उपलक्षणमिदम्, तेन यदा संज्ञासम्भवस्तदा यदि अन्यासां संयतीनामासन्ना वसतिस्तदा तत्र गन्तव्यम् । तदभावे भावितायाः श्राद्धिकायाः पुरोहडादौ व्युत्सर्जनीयम्
[भा. ६०५९ ] एसेव गमो नियमा, तिविह पुलागम्मि होइ समणाणं ।
नवरं पुन नाणत्तं, होइ गिलाणस्स वइयाए ।
वृ- एष एव 'गमः' प्रकारो नियमात् त्रिविधेऽपि पुलाके श्रमणानामपि भवति । न वरं पुनरत्र नानात्वम्-ग्लानस्य दुग्धादिकमाने तुं व्रजिकायां साधवो गच्छेयुः, तत्र च गताः संस्तरन्त आत्मयोग्यं रसपुकं न गृह्णन्ति, अथ न संस्तरन्ति ततः क्षीरादिकं भुक्त्वा न भूयो भिक्षामरन्ति । कारणे तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org