SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३४२ बृहत्कल्प-छेदसूत्रम् -३-५/१९५ निस्सारं व पवयणं, दटुं तस्सेविणि बिंति ।। वृ-इह पुलाकमसारमुच्यते, तत आहारितानि सन्ति वल्लादीनि यतोऽसाराणि ततः पुलाकानि भण्यन्ते। संयमाद्वा' संयममङ्गीकृत्ययतःक्षीरादीनिनिसारांसाध्वीं कुर्वन्तिततस्तान्यपिपुलाकानि। प्रवचनं वा निसारं यतः 'तत्सेविनी' तेषां-विकटादीनां सेवनशीलां संयती दृष्ट्वा जना ब्रुवते ततस्तानि पुलाकानि उच्यन्ते ॥ एषु दोषानाह[भा.६०५१] आणाइणो य दोसा, विराधना मज्जगंध मय खिंसा। निरोहेण व गेलनं, पडिगमणाईणि लज्जाए। वृ-एषां त्रयाणामपि पुलाकानां ग्रहणे आज्ञादयो दोषाः, विराधना च संयमा-ऽऽत्मविषया भवति । तथा गन्धपुलाके पीते सति मद्यगन्धमाघ्राय मदविह्वलां वा तां दृष्टवा लोकः खिसां कुर्यात् । धान्यपुलाके पुनराहारिते वायुकायः प्रभूतो निर्गच्छति, ततो यदि भिक्षार्थं प्रविष्टा तस्य निरोधं करोति तदा ग्लानत्वं भवेत्, अथ वायुकायं करोति तत उड्डाहो भवेत्, उड्डाहिता च लज्जयाप्रतिगमनादीनि कुर्यात्। एवरसपुलाकेऽपिक्षीरादौपीतेभिक्षांप्रविष्टा यदि संज्ञामागच्छन्ती निरुणद्धि ततो ग्लानत्वम्, अथन निरुणद्धि ततो व्युत्सृजन्ती केनापि दृष्टा लज्जयाप्रतिगमनादीनि कुर्यात् ।। किञ्च[भा.६०५२] वसहीए वि गरहिया, किमु इत्थी बहुजणम्मि सक्खीवा । लाहुक्कं पिल्लणया, लज्जानासो पसंगोय॥ वृ-'स्त्र' निर्ग्रन्थी सक्षीबा' मद्यमदयुक्तावसतावपिवसन्तीगर्हिता किंपुनर्बहुजने पर्यटन्ती? तथाहि-तां मदविह्वलां आपतन्तीं प्रपतन्ती आलमालानि च प्रलपन्तीं ६ष्ट्वा लोकः प्रवचनस्य “लाहुक्कं" लाघवं कुर्यात्-अहो! मत्तवालपाखण्डमिदमित्यादि । मदेन चाचेतना सञ्जाता सती प्रार्थनीया सा भवति । तत उद्भ्रामकादयस्तस्याः ‘प्रेरणां' प्रतिसेवनां कुर्यु। मदवशेन च यदपि तदपि प्रलपन्त्या लज्जानाशो भवेत् । ततश्च प्रतिसेवनादावपि प्रसङ्गः स्यात् ।। [भा.६०५३] घुन्नइ गई सदिट्ठी, जहा य रत्ता सि लोयण-कवोला। अरहइ एस पुताई, निसेवई सज्झए गेहे ॥ वृ-तां तथामदभावितां दृष्टवा लोको ब्रूयात्-यथाऽसा गति ‘सघष्टि' दृष्टियुक्ता घूर्णते, यथा चास्या लोचन-कपोला रक्ता दृश्यन्ते तथा नूनमहत्येषा 'पुताकी देशीवचनत्वाद् उद्भ्रामिका ईशी विडम्बनामनुभवितुम्या सध्वजगेहानि' कल्पपालगृहाणि निषेवते॥त्रिविधेऽपिपुलाके यथायोगममी दोषाः[भा.६०५४] छक्कायाण विराधन, वाउभय-निसग्गओ अवत्रो य। उज्झावणमुझंती, सइ असइ दवम्मि उड्डाहो ॥ वृ-मदविह्वलाषन्नामपि कायानां विराधनां कुर्यात् ।धान्यपुलाकेन क्षीरेण वाभुक्तेन वायुकाय उभयं च-संज्ञा-कायिकीरूपं समागच्छेत्, ततो भिक्षां हिण्डमाना यदि तेषां निसर्गं करोति ततः प्रवचनस्यावर्मोभवेत्, परावग्रहे वाव्युत्सृष्टंपुरीषादिकमवग्रहस्वामिनस्तस्याः पाउिज्झापयन्ति स्वयमेव वा ते गृहस्था उज्झन्ति। “सइ असइ दवम्मि उड्डाहु"त्ति अस्ति द्रवं परं कलुषंस्तोकं वा नास्ति वा मूलत एव द्रवं तत उभयथाऽपि प्रवचनस्योड्डाहो भवेत्॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy