________________
१९६
बृहत्कल्प-छेदसूत्रम् - ३-४/१२३
वसुं वोमे घेत्तुं दिंति व से संथरे व उज्झति । भावेंता विड्डिमतो, दलंति जा भावितोऽनेसिं ॥
[भा. ५३३६ ]
वृ- 'अवमे' दुर्भिक्षे यावन्तिकादिकमनेषणीयं 'विष्वक्' पृथग् गृहीत्वा शैक्षस्यार्थायाऽऽनीतं तस्यैव प्रयच्छन्ति, संस्तरन्तोवा उज्झन्ति । योवा ऋद्धिमत्प्रव्रजितस्तं 'भावयन्तः' मैक्ष- भोजनभावनां ग्राहयन्तो यावद् भावितो न भवति तावद् येन वा तेन वा दोषेणानेषणीयं प्रायोग्यं लब्ध्वा ददति । यद्येवं ऋद्धिमत्प्रव्रजितं नानुवर्तयन्ति ततश्चतुर्गुरुकम् ॥ कुतः ? इति चेद् उच्यते[भा. ५३३७] तित्थविवड्डी य पभावना य ओभावणा कुलिंगीणं । एमादी तत्थ गुणा, अकुव्वतो भारिया चतुरो ॥
वृ- ऋद्धिमति प्रव्रजिते तीर्थविवृद्धिर्भवति, 'यदीध्शा अप्येतेषां सकाशे प्रव्रजन्ति ततो वयं द्रमकप्रायाः किमेवं गृहवासमधिवसामः ?' इति बुध्धा भूयांसः प्रव्रजन्तीति भावः । प्रभावना च प्रवचनस्य भवति कुलिङ्गिनां चापभ्राजना भवति, तेषां मध्ये ईद्दशामृद्धिमतामभावात् । एवमादयः 'तत्र' राजादिप्रव्रजिते यतो गुणा भवन्ति अतस्तस्यानुवर्तनामकुर्वतश्चत्वारो भारिका मासाः प्रायश्चित्तम् ॥ अथ द्वितीयपदमाह
[भा. ५३३८]
अद्धाणाऽसिवे ओमे, रायहुट्टे असंथरेंता उ । सयमवि य भुंजमाणा, विसुद्धभावा अपच्छित्ता ॥
वृ- अध्वा ऽशिवाऽवम- राजद्विष्टेषु असंस्तरन्तः स्वयमप्यनेषणीयं विशुद्धभावा भुञ्जाना अप्रायश्चित्ता मन्तव्याः ॥
मू. (१२४) जे कडे कप्पट्ठियाणं कप्पइ से अकप्पट्ठियाणं, नो से कप्पइ कप्पट्ठियाणं । जे कडे अकप्पट्ठियाणं नो से कप्पइ कप्पट्ठियाणं कप्पइ से अकप्पट्ठियाणं । कप्पे ठिया कप्पट्ठिया, अकप्पे ठिया अकष्पट्ठिया ||
वृ- अस्य सम्बन्धमाह[भा. ५३३९]
सुत्तेनेव उ जोगो, मिस्सियभावस्स पन्नवणहेउं ।
अक्खेव निन्नओवा, जम्हा तु ठिओ अकप्पम्मि ।।
वृ-सूत्रेणैव 'योगः' सम्बन्धः क्रियते- 'मिश्रितभावस्य' 'किमर्थमिदमशुद्धं मम दीयते ? 'इत्येवं कलुषितपरिणामस्य शैक्षस्य प्रज्ञापनाहेतोरिदं सूत्रमारभ्यते । यद्वा 'कथं शैक्षस्यानेषणीयं कल्पते?' इत्येवं केनापि 'आक्षेपे' पूर्वपक्षे कृते 'निर्णयः' निर्वचनमनेन क्रियते । कथम् ? इत्याह-यस्माद् असौ शैक्षः 'अकल्पे' सामायिकसंयमलक्षणे स्थितः ततः कल्पते तस्यानेषणीयमिति ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या- 'यद्' अशनादिकं 'कृतं' विहितं कल्पस्थितानामर्थाय कल्पते तद् अकल्पस्थितानाम्, नो तत् कल्पते कल्पस्थितानाम् । इहाचेलक्यादी दशविधे कल्पे ये स्थितास्ते कल्पस्थिता उच्यन्ते, पञ्चर्यामधर्मप्रतिपत्तार इत्यर्थः । ततः पञ्चयामिकानुद्दिश्य कृतं चातुर्यामिकानां कल्पत इत्युक्तं भवति । तथा यद् 'अकल्पस्थितानां' चातुर्यामिकानामर्थाय कृतं नो तत् कल्पते 'कल्पस्थितानां पञ्चयामिकानां किन्तु कल्पते तद् 'अकल्पस्थितानां चतुर्यामिकानाम् । अत्रैव व्युत्पत्तिमाह- 'कल्पे' आचेलक्यादौ दशविधे स्थिताः कल्पस्थिताः । 'अकल्पे' अस्थितकल्परूपे स्थिता अकल्पस्थिताः । एष सूत्रार्थः ॥ अथ निर्युक्तिविस्तरः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org