SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १२० बृहत्कल्प-छेदसूत्रम् -३-४/१११ सप्तमयोर्दिनयोर्यथाक्रमं षण्मासा लघवो गुरवश्च भवन्ति, ततो नवमे दिने च्छेदः, तत एकादशे मूलम्, तदनन्तरंत्रयोदशे दिवसेऽनवस्थाप्यम्, ततः पञ्चदशे दिवसेप्रतिसेवमानस्य पाराञ्चिकम्। अथ निरन्तरं प्रतिसेवते तदा द्वितीयदिवस एव मूलम् । एषा वृद्धिरभिहिता । "पुच्छा य तिविहम्मि"तिशिष्यः पृच्छति-त्रिविधे' दिव्य-मानुष्य-तैरश्चलक्षणेमैथुनेकथमभिलाष उत्पद्यते?॥ सूरिराह[भा.४९५९] वसहीए दोसेणं, दटुं सरिउंव पुवभुत्ताई। तेगिच्छ सद्दमादी, असज्जणा तीसुवी जतणा॥ वृ-'वसतेर्दोषेण स्त्री-पशु-पण्डकसंसक्तिलक्षणेन, यद्वा स्त्रयम् आलिङ्गनादिकंवा दृष्टवा, गृहस्थकाले वा यानि स्त्रीभिसार्धं भुक्तानिवाहसितानिवाललितानि वा तानि स्मृत्वा मैथुनभाव उत्पद्यते । एवमुत्पन्ने किं कर्त्तव्यम् ? इत्याह-"तेगिच्छ" इत्यादि, चिकित्सा कर्तव्या, सा च निर्विकृतिकप्रभृतिका । तामतिक्रान्तस्यशब्दादिकावा यतना कर्तव्या।किमुक्तं भवति?- यत्र स्थाने स्त्रीशब्दरहस्यशब्दंवा शृणोतितत्र स्थविरसहितःस्थाप्यते, आदिशब्दाद् यत्रालिङ्गनादिकं पश्यति तत्रापि स्थाप्यते । “असज्जण"त्ति तस्यांशब्दश्रवणादिरूपायां चिकित्सायां सजन-सङ्गो गृद्धिरित यावत् सा तेन न कर्तव्या । एवं त्रिष्वपि' दिव्यादिषु मैथुनेषु यतना मन्तव्या॥ इदमेव सविशेषमाह[भा.४९६०] बिइयपदे तेगिंछं, निव्वीतियमादिगं अतिकते। सनिमित्तऽनिमित्तो पुन, उदयाऽऽहारे सरीरे य॥ वृ-द्वितीयपदे निर्विकृतिका-ऽवमौदरिका-निर्बलाहारोर्ध्वस्थाना-ऽऽचाम्ला-ऽभक्तार्थ-षष्ठाऽष्टमादिरूपां चिकित्सामतिक्रान्तस्य शब्दादिकाऽनन्तरोक्ता यतना भवति । एषा च सनिमित्तेऽनिमित्ते वा मैथुनाभिलाषे भवति । तत्र सनिमित्तो वसतिदोषादिनिमित्तसमुत्थः, अनिमित्तः पुनः कर्मोदयेन १ आहारतः २ शरीरपरिवृद्धितश्च ३ य उत्पद्यते । सर्वमेतद् यथा निशीथे प्रथमोद्देशके भणितं तथैव द्रष्टव्यम् ॥गतं मैथुनम् । अथ रात्रिभोजनमाह[भा.४९६१] रातो य भोयणम्मिं, चउरो मासा हवंतऽनुग्घाया। . आणादिणो य दोसा, आवजण संकणा जाव। वृ-रात्रौ भोजने क्रियमाणे चत्वारोमासाः ‘अनुद्धाताः' गुरवो भवन्ति आज्ञादयश्च दोषाः।ये चप्राणातिपातादिविषया आपत्ति-शङ्कादोषाः परिग्रहस्यापत्तिं शङ्कां च यावत् प्रथमोद्देशके "नो कप्पइ राओ वा वियाले वा असनं वा ४" इत्यादौ रात्रिभक्तसूत्रे इहैवाभिहितास्ते सर्वेऽपि द्रष्टव्याः ॥अथ द्वितीयपदमाह[भा.४९६२] निरुवद्दवं च खेमंच, होहिति रन्नो य कीरतू संती। अद्धाणनिग्गतादी, देवी पूयाय अज्झियगं॥ वृ-उपद्रवो नाम-अशिवं गलरोगादिकंवा, तस्याभावो निरुपद्रवम् । क्षेमं' परचक्राद्युपप्लवाभावः । ततः 'निरुपद्रवं च क्षेमं च मदीये देशे भविष्यति' इति परिभाव्य राजा शान्ति कर्तुकामस्तपखिनो रात्रौ भोजयेत् । यद्वा राजपुत्रो वा नागरा वा ‘राज्ञः शान्ति क्रियताम्' इति कृत्वा ये रात्रौ न भुञ्जते सुतपखिनश्च ते रात्रौ भोजनीयाः, एष तस्या विद्याया उपचार इति www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy