________________
उद्देश : ४, मूलं- 999, [भा. ४९६२ ]
परिभावयन्ति, ते च साधवोऽध्वनिर्गतादयस्तत्र सम्प्राप्तास्ततो वक्ष्यमाणो विधिर्विघातव्यः । यद्वा राज्ञः कस्यापि देवी वानमन्तरपूजां कृत्वा तपस्विनां रात्रिभोजनलक्षणम् “अज्झियकं” उपयाचितं मन्येत ।। कुतः ? इति चेद् उच्यते
[भा.४९६३ ] अवधीरिया व पतिणा, सवत्तिनीए व पुत्तमाताए । गेलत्रेण व पुट्ठा, वुग्गहउप्पादसमणे वा ॥
वृ- ‘पतिना' भर्त्रा ‘अवधीरिता' अपमानिता सा देवी, यद्वा या तस्याः सपत्नी सा पुत्रमाता तया न सुष्ठु बहुमान्यते, ग्लानत्वेन वा सा गाढतरं स्पृष्टा, विग्रहो वा तस्याः केनामि सार्धमुत्पन्नस्ततो विग्रहोत्पादस्य शमनार्थं वानमन्तरपूजा कर्तव्या, स च वानमन्तरो रात्रौ साधुषु भोजितेषु परितोषमुद्वहति ।। ततः
-
[भा. ४९६४ ]
१२१
एक्क्कं अतिउं, निमंतणा भोयणेन विपुलेणं । भोत्तुं अनिच्छमाणे, मरणं च तहिं ववसितस्स ।।
वृ- एकैकं साधुं बलाभियोगेन राजभवने 'अतिनीय' प्रवेश्य रात्रौ विपुलेन भोजनेन निमन्त्रणा कृता, अभिहिताश्च साधवः यदि सम्प्रति न भोक्ष्यध्वे ततो वयं व्यपरोपयिष्यामः । एवमुक्ते तेषामेकस्य साधोस्तदानीं भोक्तुमनिच्छतो मरणं च तत्र व्यवसितस्य शिरश्छिन्नम्, द्वितीयो हर्षादुल्लसितः, तृतीयो भीत इत्यादि यथा मैथुने तथा मन्तव्यम् ॥ अत्र प्रायश्चित्तमाह[ भा. ४९६५ ] सुदुल्लसिते भीए, पच्चक्खाणे पडिच्छ गच्छ थेर विदू । मूलं छेदो छम्मास चउरो मासा गुरुग लहुओ ॥
वृ- गतार्था । अत्र यतनामाह[ भा. ४९६६ ]
तत्थेव भोक्खामो, अनिच्छे भुंजामो अंधकारम्मि । कोणादी पक्खेवो, पोट्टल भाणे व जति नीता ॥
- रात्रौ भोज्यमानैः साधुभिरभिधातव्यम्-भाजनेषु गृहीत्वा ततः 'तत्रैव' स्वप्रतिश्रये भोक्ष्यामहे, न वर्तते गृहस्थानां पुरतो भोक्तुम्; एवमुक्त्वा ततोऽल्पसागारिकं नीत्वा परिष्ठापयन्ति । अथान्यत्र नेतुं न प्रयच्छन्ति भणन्ति च - अस्माकं पुरतो भोक्तव्यम्; ततो वक्तव्यम्-प्रदीपमपनयत, अन्धकारे भोजनं कुर्मः, ततस्तेषामपश्यतां कोणेषु आदिशब्दाद् अपरत्र वा एकान्ते कवलान् प्रक्षिपन्ति । अथवा वस्त्रेण पोट्टलकं बद्धा तत्र प्रक्षिपन्ति, भाजनेषु वा प्रक्षिपन्ति यदि निजकानि अलाबूनि भवन्ति ॥ अथ प्रदीपं नापनयन्ति तत इदं वक्तव्यम्
[भा. ४९६७ ] गेलने व पुट्ठा, बाहाSS रुची व अंगुली वा वि । भुंजंता वि य असढा, सालंबाऽमुच्छिता सुद्धा ॥
वृ- यदि ते दुर्बलास्ततो भणन्ति ग्लानत्वेन स्पृष्टा वयम् एतच्चास्माकमपथ्यम्, यदि समुद्दिशामस्ततो म्रियामहे, तस्मान्मा ऋषिहत्यां कुरुत । अथवा भणितव्यम् अस्माभिर्गलकं यावद् भुक्तम्, बाहाडं च-प्रभूतं भुक्तानां कुतो रुचिरुपजायते ? । यद्येवं न प्रत्यर्पयन्ति ततो मातृस्थानेनाङ्गुलीं वदने प्रक्षिप्य वमनमुत्पादयन्ति । यदि तथापि न प्रतियन्ति ततः स्तोकं तन्मध्यादास्वादयन्ति । अथ तथापि न विसर्जयन्ति तत एवं सालम्बनाः 'अशठाः' राग-द्वेषरहिता अमूर्च्छिताः स्तोकं भुञ्जाना अपि शुद्धाः ।। उपसंहरन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org