SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १२२ बृहत्कल्प-छेदसूत्रम् -३-४/१११ [भा.४९६८] एत्थं पुन अधिकारो, अनुघाता जेसुजेसु ठाणेसु । उच्चारियसरिसाइं, सेसाई विकोवणट्ठाए। वृ-'अत्र पुनः' प्रस्तुतसूत्रे हस्तकर्म-मैथुन-रात्रिभक्तविषयैः स्थानः ‘अधिकारः प्रयोजनम्। कैः? इत्याह-येषुयेषु स्थानेषु 'अनुद्धातानि' गुरुकाणि प्रायश्चित्तानि भणितानि तैरेवाधिकारः। 'शेषाणि' लघुप्रायश्चित्तसहितानि स्थानानि पुनरुच्चारितार्थसहशानि शिष्याणां विकोपनार्थमुक्तानि॥ मू. (११२) तओ पारंचिया पन्नत्ता, तंजहा-दुट्टे पारंचिए, पमत्ते पारंचिए, अन्नमन्नं करेमाणे पारंचिए॥ वृ-अस्य सम्बन्धमाह[भा.४९६९] वुत्ता तवारिहा खलु, सोधी छेदारिहा अधइदानि । देसे सव्वे छेदो, सब्बे तिविहो तुमूलादी। वृ-तपोर्हा शोधिः खलु पूर्वसूत्रे प्रोक्ता, अथेदानीं छेदार्हाऽभिधीयते । स च च्छेदो द्विधादेशतःसर्वतश्चादेशच्छेदः पञ्चरात्रिन्दिवादिकः षण्मासान्तः।सर्वच्छेदः 'मूलादि' मूला-ऽनवस्थाप्यपाराञ्चिकभेदात् त्रिविधः । अत्र सर्वच्छेदः पाराञ्चिकलक्षणोऽधिक्रियते । आह यद्येवं तर्हि[भा.४९७०] छेओन होइ कम्हा, जति एवं तत्थ कारणं सुणसु। अनुघाता आरुवणा, कसिणा कसिणेस संबंधो॥ वृ-छेद एव सूत्रेऽपि कस्मान भवति ?, “ततो छेदारिहा पन्नत्ता, तं जहा-दुढे छेदारिहे" इत्यादिसूत्रं किमर्थं न पठितम् ? इति भावः । सूरिराह-यद्येवं भवदीया बुद्धिस्ततोऽत्र कारणं शृणु-या किलादिसूत्रेऽनन्तरोक्तेऽनुद्धाताख्याऽऽरोपणा भणिता सा कृत्स्ना' गुरुकेत्यर्थः, इयमपि पाराञ्चिकाख्याऽऽरोपणा कृत्स्नैव, अतः तृत्स्नाया आरोपणाया अनन्तरं कृत्स्नैवारोपणाऽभिधीयते। एषसम्बन्धः ॥अनेन सम्बन्धेनायतस्यास्यव्याख्या-त्रयःपाराञ्चिकाःप्रज्ञप्ताः। तद्यथा-दुष्टः पाराञ्चिकः, प्रमत्तः पाराञ्चिकः, 'अन्योन्यं परस्परं मुख-पायुप्रयोगतः प्रतिसेवनां कुर्वाणः पाराश्चिक इति सूत्रसमासार्थः॥अथ विस्तरार्थं भाष्यकृद् बिभणिषुराह[भा.४९७१] अंचु गति-पूयणम्मि य, पारं पुनऽनुत्तरं बुधा बिंति। सोधीय पारमंचइ, न यावि तदपूतियं होति।। वृ. “अञ्च गति-पूजनयोः" इति वचनाद् अञ्चुर्धातुर्गतौ पूजने चात्र गृह्यते । तत्र गत्यर्थो यथा-पारं-तीरंगच्छति येन प्रायश्चित्तेनासेवितेन तत्पाराञ्चिकम्।अथ पारं किमुच्यते? इत्याह'पारंपुनः' संसारसमुद्रस्यतीरभूतम् ‘अनुत्तरं निर्वाणं 'बुधाः' तीर्थकृदादयो ब्रुवते,अनेनासेवितेन साधुर्मोक्षं गच्छतीति भावः । तद् यस्यापद्यते सोऽप्युपचारात् पाराश्चिक उच्यते । यद्वा शोधेः 'पारं' पर्यन्तमञ्चति यत् तत् पाराञ्चिकम्, अपश्चिमं प्रायश्चित्तमित्यर्थः । पूजार्थो यथा-'न चापि' नैव तत्' प्रायश्चित्तपारगमनमपूजितं किन्तु पूजितमेव, ततो येन तपसा पारंप्रापितेन अञ्चयतेश्रीश्रमणसङ्केन पूज्यते तत् पाराञ्चिकंपाराञ्चितं वाऽभिधीयते। तद्योगात् साधुरपि पाराञ्चिकः। अथ तमेव भेदतः प्ररूपयति [भा.४९७२] आसायण पडिसेवी, दुविहो पारंचितोसमासेणं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy