SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ उद्देशक : : ४, मूलं- १११, [भा. ४९५३ ] ११९ भक्तप्रत्याख्यानं तां करिष्यामीति यः परिणतस्तस्य षड्गुरुकाः ॥ [भा. ४९५४] मासीदे पडिच्छा, गच्छो फिट्टेज थेर संघेच्छं । गुरु वेयावचं, काहं तिय सेवतो लहुओ ॥ वृ- 'मा प्रतीच्छकाः सीदेयुः' इति बुध्या यः सेवते तस्य षड्लघुकाः । यस्तु 'मां विना गच्छः स्फिटेत्' इत्यालम्बते तस्य चतुर्गुरु । 'स्थविरान् सङ्ग्रहीष्यामि' इति कृत्वा सेवमानस्य चतुर्लघु । 'गुरूणां वैयावृत्यं करिष्ये' इति हेतोः सेवमानस्य लघुमासः ।। उक्ता प्रायश्चित्तस्य हानिः । अथ वृद्धिमाह [भा. ४९५५] लहुओ उ होति मासो, दुब्भिक्खऽविसज्जणे य साहूणं । नेहानुरागत्तो, खुड्डो चिय नेच्छए गंतुं ॥ [भा. ४९५६ ] कालेनेसनसोधिं, पयहति परितावितो दिगिंछाए । अलभते चिय मरणं, असमाही तित्थवोच्छेदो ॥ वृ- 'इह दुर्भिक्षं भविष्यति' इति मत्वा सूरिभिरनागतमेव गच्छं गृहीत्वा निर्गन्तव्यम् । अथ स्वयं जङ्घाबलपरिक्षीणास्ततः साधवो विसर्जनीयाः । अथ न विसर्जयन्ति तत आचार्यस्यासामाचारी निष्पन्नो लघुको मासो भवति आज्ञादयश्च दोषाः । एते चापरे तत्र दोषा भवन्ति - स गच्छो दुर्भिक्षे भक्त - पानमलभमानः “दिगिंछाए "त्ति बुभुक्षया परितापितः सन् 'कालेन' कालक्रमेण एषणाशुद्धिमपि प्रजहाति, मरणमपि चासमाधिना भक्तमलभमानस्य भवेत्, तीर्थव्यवच्छेदश्च भवति, अतो विसर्जनीयः सर्वोऽपि गच्छः । तत्र च विसर्जिते किं भवति ? इति अत आह"नेहानुराग" इत्यादि पूर्वगाथायाः पश्चार्द्धम् । स्नेहानुरागरक्तः कश्चित् क्षुल्लको नेच्छति गन्तुं परमनिच्छन्नपि प्रेषितः । ततोऽसौ गुरुस्नेहानुरागपरवशो देशस्कन्धात् पलायित्वा प्रतिनिवृत्तः । सूरिभिरभिहितम् - दुष्ठु त्वया कृतं यदेवं भूयः प्रत्यागतः । आचार्याश्च स्वयं केषुचिन्निश्रागृहेषु यां भिक्षां लभन्ते तस्याः संविभागं क्षुल्लकस्य प्रयच्छन्ति । ततः क्षुल्लकश्चिन्तयति अहो ! मया गुरवोऽपि क्लेशिताः । ततः स पृथग् भिक्षां हिण्डितः । तत्रैका प्रोषितपतिका क्षुल्लकमुपसर्गयन्ती भणतियदि मया सार्धं तिष्ठसि ततो यथेष्टं ते भक्तं पूरयिष्यामीति ॥ एवं च [भा. ४९५७] भिक्खं पिय परिहायति, भोगेहिं निमंतणा य साहुस्स । गिण्हति एक्कंतरियं, लहुगा गुरुगा चउम्मासा ॥ वृ- भैक्षमपि दुर्भिक्षानुभावेन परिहीयते भोगैश्च निमन्त्रणा तस्य साधोः समजनि ततः स चिन्तयति-यद्येनां प्रतिसेवितुं नेच्छामि ततो भक्ताभावदसमाधिमरणेन म्रियै, अतः साम्प्रतं तावत् प्रतिसेवे, पश्चाद् दीर्घं कालं संयमं पालयिष्यामि सूत्रार्थी च ग्रहीष्यामि एतत्प्रत्ययं च प्रायश्चित्तं चरिष्यामि; एवं चिन्तयित्वा यतनां करोति । कथम् ? इत्याह - "गिण्हइ" इत्यादि, एकान्तरितं भक्तं गृह्णाति प्रतिसेवते च । तत्र प्रथमदिवसे प्रतिसेवमानस्य चत्वारो लघुमासाः । द्वितीये दिनेऽभक्तार्थेन स्थित्वा तृतीये दिने प्रतिसेवमानस्य चत्वारो गुरुमासाः ॥ [भा. ४९५८] पडिसेवंतस्स तहिं, छम्मासा छेदो होति मूलं च । अणवटुप्पो पारंचिओ य पुच्छा य तिविहम्मि ॥ वृ- एवमेकान्तरितं भक्तं गृह्णतस्तां च 'तत्र' ताशे दुर्भिक्षे प्रतिसेवमानस्य पञ्चम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy