________________
उद्देशक : ३, मूलं - १०६, [भा. ४७६८ ]
निर्युक्तिगाथासमासार्थः ।। अथैनामेव विवरीषुः कुटुम्बिध्ष्टान्तमाह
[भा. ४७६९ ] निम्मवणं पासाए, संखडि जक्ख सुमिणे य कंटीय । अन्नं वा वावारं न कुणति अव्वावडं तेनं ॥
वृ- एगेणं कुटुंबिएणं सुंदरं घरं कारियं । समत्ते तम्मि संखडिं काउं 'कल्ले पविसामि त्ति चिंतेइ । नवरं वाणमंतरेणं रत्तिं भन्नति - जि पविसिहिसि तो ते कुलं उच्छाएमि । तेन कंटियाहिं फलहिऊण मुक्कं, वावारं च से न करेइ । अन्नया साहूहिं आगएहिं सो कुडुम्बी अनुनविओ । तेन भन्नइ - देवयाए परिग्गहियं ततो भे अवाओ भविस्सइ । साहूहिं भणितो - अनुजाणसुतुमं, लभिस्सामो वयं देवयाए । तओ तेन अनुन्नाए तेहिं काउस्सग्गेण जक्खो आकंपिओ भणइ उवरिल्लभूमियं मोत्तुं बीसत्था अच्छह । ते ट्ठिया । तेसु गतेसु जे अन्ने साहुणो इंति ते तत्थेव ठायंति, सच्चेव उग्गहस्स पुव्वाणुन्नवणा ।।
अथ गाथाक्षरार्थः-कुटुम्बिना प्रासादस्य निर्मापणं कृतम् । ततः सङ्घडि कर्त्तुमारब्धा । यक्षेण च स्वप्ने निवेदितं-यदि प्रासादं प्रवेक्ष्यसि ततः सकुटुम्बं भवन्तं व्यपरोपयिष्यामीति । तेन कण्टिकाभिः परिक्षिप्तं तद्गृहम्, अन्यमपिच व्यापारं तत्र न करोति, तेनाव्यापृतमुच्यते ।। अव्याकृते दृष्टान्तमाह[भा. ४७७०] इड्डित्तणे आसि घरं महल्लं, कालेण तं खीणधनं च जायं । ते उम्मरीयस्स भया कुडीए, दाउं ठिया पासि घरं जईणं ॥
८१
वृ- एगेणं इड्डिमंतेनं वाणिएणं रायगिहे नयरे सजालमालाचोप्पालं पक्विट्टगाहिं गिहं कारियं । सो यतम्मि निम्मविए पंचत्तीहूओ । पुत्ता से फेल्ला जाया, क्षीणविभवा इत्यर्थः । तत्थ य उंबरीओ करो घिप्पइ । ते तं दाउं अचयंता एगपासे कुडियं काउं ठिया । तं च तेहिं संजयाण दिन्नं ॥ अथाक्षरगमनिका-‘ऋद्धिमत्त्वे' महर्द्धिकतायां कस्यापि वणिजो गृहं 'महल्लं' महाजनाकुलमासीत् । कालेन तत् क्षीणधनं चशब्दादल्पमानुषं च सञ्जातम् । ते च तदीयाः पुत्राः 'उम्बरीयस्य' 'प्रत्युदुम्बरं रूपको दातव्यः' इत्येवंलक्षणस्य करस्य भयादेकस्मिन् पार्श्वे कुटीं कृत्वा मौलं च गृहं यतीनां दत्त्वा कुटीरके स्वयं स्थिताः, एतदव्याकृतमुच्यते ॥ अथ पूर्वानुज्ञापनापदं व्याख्याति[भा. ४७७१] पुव्वट्ठियऽणुन्नवियं, ठायंतऽन्ने वि तत्थ ते य गता ।
एवं सुन्नमसुन्ने, सोच्व य उग्गहो होइ ।।
वृ- अव्यापृतेऽव्याकृते वा पूर्वं साधवोऽनुज्ञाप्य स्थिताः, तेषां मासकल्पे वर्षावासे वा पूर्णे शून्यीभूते 'तत्र' प्रतिश्रयेऽ पूर्णे वा कल्पेऽशून्य एवोपाश्रयेऽन्ये साधवस्तिष्ठन्ति, 'तेच' पूर्वसाधवः कल्पं समाप्यान्यत्र गताः; एवं शून्ये अशून्ये वा तत्र तिष्ठतां तेषां स एवावग्रहो भवति, न पुनर्भूयोऽनुज्ञापयन्ति । अपरपरिगृहीतं व्याचष्टे
[भा.४७७२] अपरपरिग्गहितं पुन, अपरे अपरे जती जइ उवेंति ।
अव्वोकडं पितं चिय, दोन्नि वि अत्था अपरसद्दे ॥
वृ- पुनः शब्दो विशेषणार्थ, स चैतद्विशिनष्टि-अपरपरिगृहीतं नाम येन साधूनां तद् दत्तं स एव स्वामी नान्य इति तावदपरपरिगृहीतस्यैकोऽर्थ प्रागुक्तः; यद्वा यदि अपरेऽपरे यतयस्तत्रोपयन्ति तदपरपरिगृहीतम् । अव्याकृतमपि तदेव मन्तव्यम्, सर्वेषामपि साधूनां साधारणमिति कृत्वा ।
2016
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org