________________
८२
बृहत्कल्प-छेदसूत्रम् - ३-३/१०६
तदेवं द्वावप्यर्थावपरशब्दे भवतः, एकः न परोऽपरस्तेन परिगृहीतमपरपरिगृहीतम्, द्वितीयःअपरैः साधुभिः परिगृहीतमपरपरिगृहीतमिति । अमरपरिगृहीतं तु वृक्षो वृक्षस्याधस्ताद्वा गृहं मन्तव्यम्, तत्र गृहे यदि पूर्वं साधवोऽनुज्ञाप्य स्थितास्तदा शेषाणां स एवावग्रहो भवति । अथ वृक्षविषयं विधिमाह[भा. ४७७३]
भूयाइपरिग्गहिते, दुमम्मि तमणुन्नवित्तु सज्झायं । एगेन अनुन्नविएष सो चेव य उग्गहो सेसे ॥
वृ- भूतादिना - व्यन्तरेण परिगृहीतो यो द्रुमस्तत्र स्वाध्यार्थं कदाचिद् मन्तव्यं भवति, तं च व्यन्तरमनुज्ञाप्य स्वाध्यायं करोति । एवमेकेनापि तस्मिन्ननुज्ञापिते शेषाणां साधूनां स एवावग्रहो भवति ।। अथासौ वृक्षः परपरिगृहीतोऽप्यस्ति ततः
[भा. ४७७४] सामी अनुन्नविज्जइ, दुमस्स जस्सोग्गहो व्व असहीणे । कूरसुरपरिग्गहिते, दुमम्मि काणिट्ठगाण गमो ॥
वृ- यस्तस्य द्रुमस्यस्वामी सोऽनुज्ञाप्यते । अथासी न स्वाधीनस्ततो अस्वाधीने तस्मिन 'वस्वायमवग्रहः सोऽनुजानीताम्' इति वक्तव्यम् । अथासौ द्रुमः क्रूरसुरपरिगृहीतस्ततो येपामगारिणां सस्कस्तेषामागन्तुमसौ न ददाति तत्र काणेष्टकागृहगमो मन्तव्यः, तं सुरं कायोत्सर्गेणाकम्प्य स्वाध्यायादि कुर्वन्तीति भावः ॥ तत्र चायं विधिः
[भा. ४७७५ ] नेच्छंतेन व अन्ने, ईसालुसुरेण जं अनुन्नायं । तत्थ वि सो चेव गमो, सगारिपिंडम्मि मग्गणता ॥
वृ- ईष्यालुसुरेण 'अन्यान्' गृहिणोऽनिच्छता 'यद्' वृक्षमूलादिकं साधूनामनुज्ञातं तत्रापि ' स एव गमः' पूर्वानुज्ञापनावस्थानलक्षणो विज्ञेयः । नवरं तत्र स्थितानां सागारिकपिण्डस्य मार्गणा कर्त्तव्या ॥ तामेवाह
[भा. ४७७६ ] जक्खो च्चिय होइ तरो, बलिमादीगिण्हणे भवे दोसा । सुविणे ओयरिए वा, संखडिकारावणमभिक्खं ॥
वृ- येन यक्षेण स द्रुमः परिगृहीतः स एव तत्र स्थितानां 'तरः' शय्यातरो भवति । ततो यत् तस्य बलिकूरादि निवेद्यते स शय्यातरपिण्ड इति कृत्वा तस्य ग्रहणे 'दोषाः' आज्ञाभङ्गादयो भवन्ति । यद्वा यक्षो वृक्षस्वामिनः स्वप्ने रात्रावतीर्ण कथयेत्-मामुद्दिश्य भूयोभूयः प्रकरणं विधेयं ततोऽहं न किमपि भणिष्यामि । एवमभीक्ष्णसङ्घडिकारापणे यत् तत्र भक्तं पानकं वा स शय्यातरपिण्ड इति कृत्वा परिहियते ॥
मू. (१०७) से वत्थूसु वावडेसु वोडेसु परपरिग्गहिएसु भिक्खुभावस्स अट्ठाएं दोघं पि उग्गहे अनुन्नवेयव्वे सिया अहालंदमवि उग्गहे ॥
[भा. ४७७७] सागारिगी उग्गहमग्गणेयं, स केच्चिरं वाकड मो कहं वा । इदान उग्गहमग्गणा उ, केणं विदिन्नो स कया कहं वा ।।
वृ- 'सागारिकी' सागारिकसत्का तावदियमवग्रहमार्गणा प्रकृता । 'सच' सागारिकावग्रहः कियन्तं कालं कथं वा भवति ? इत्येतत् पूर्वसूत्रे 'व्याकृतं' व्याख्यातम्, “मो” इति पादपूरणे, इदानीं तु राजावग्रहस्य उपलक्षणत्वाद् देवेन्द्रावग्रहस्य च मार्गणा क्रियते, यथा-केन कदा कथं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org