________________
उद्देश : ३, मूलं - १०७, [भा. ४७७७ ].
८३
वाऽसौ 'वितीर्ण' अनुज्ञातः ? इति । अनेन सम्बन्धेनायातस्यास्य व्याख्या- "से" तस्य निर्ग्रन्थस्य 'वास्तुषु' गृहेषु 'व्यापृतेषु' व्यापारयुक्तेषु वहमानकेष्वित्यर्थ 'व्याकृतेषु' दायादादिभिर्विभक्तेषु 'परपरिगृहीतेषु' अन्यवंशीयैरधिष्ठितेषु 'भिक्षुभावस्यार्थाय' भिक्षुभावो नाम ज्ञान-दर्शन- चारित्राणि तृतीयव्रतादिकं वा, तत्रैव भिक्षुशब्दस्य परमार्थत्वेन रूढत्वात्, स भिक्षुभावः परिपूर्णो भूयादित्येवमर्थं ये साधवः पश्चादागच्छन्ति तैर्द्वितीयमपि वारमवग्रहोऽनुज्ञापयितव्यः स्याद् 'यथालन्दमपि' जघन्यलन्दमात्रमपि कालमवग्रहे तत्रावस्थान इति सूत्रार्थ ॥ अथ भाष्यविस्तरः
[भा. ४७७८ ] अणवट्ठिया तहिं होंति उग्गहा रायमादिणो चउरो । पासाणमिव लेहा, जा तित्थं ताव सक्कस्स ।।
वृ- इह देवेन्द्रावग्रहादयः पञ्चावग्रहाः, 'तत्र' तेषां पञ्चानां मध्ये 'राजादयः' राजगृहपतिसागारिक-साधर्मिकसम्बन्धिनश्चत्वारोऽवग्रहा अनवस्थिता भवन्ति, भूयोभूयः परावर्तन्त इत्यर्थः । शक्रस्य पुनरवग्रहः पाषाण इव रेखा यावत् तीर्थं तावदेकवारमनुज्ञापितः सन्नुनुवर्त्तते । अथ यदुक्तम् “इदानि राउग्गहमग्गणा उ, केणं विदिनो स कया कहंव" त्ति तदेतन्निर्वाहयितुमाह[भा. ४७७९] सोऊण भरहराया, सव्विड्डी आगतो जिनसगासं । वंदिय नमंसिया नं, भत्तेण निमंतणं कुणइ ॥
वृ- अष्टापदे समवसृतं श्रीऋषभस्वामिनं श्रुत्वा भरतराजः साधूनामर्थाय पञ्च शकटशतानि भक्त - पनभृतानि गहीत्वा सर्वर्धया जिनसकाशमागतः । ततो भगवन्तं 'वन्दित्वा' स्तुत्वा 'नमस्कृत्य' शरसा प्रणम्य भक्तेन साधूनां निमन्त्रणं करोति ॥ भगवानाह -
[भा. ४७८०]
पीलाकरं वताणं, एवं अम्हं न कप्पए घेत्तुं ।
अणवज्जं निरुवहयं, भुंजंति य साहुणो भिक्खं ॥
वृ-अ
-आधाकर्मा-ऽभ्याहृत-राजपिण्डदोषदुष्टतया व्रतानां पीडाकरमेतदस्माकम्, अतोन कल्पते ग्रहीतुम् । यतः 'अनवद्यां' प्राशुकां 'निरुपहताम्' एषणीयां साधवो भिक्षां भुञ्जते, नाप्राशुकामनेषणीयां वा ॥
[भा. ४७८१] तं वयणं सोऊणं, महता दुक्खेण अद्दितो भरहो । समणा अनुग्गहं मे, न करिंति अहो ! अहं चत्तो ॥
वृ- 'तद्' अनन्तरोक्तं वचनं श्रुत्वा भरतो महता मानसिकेन दुःखेनार्दितः सञ्जज्ञे । कथम् ? इत्याह- अमी श्रमणाः 'मे' ममानुग्रहं न कुर्वन्ति, अहो ! अहमेभिस्त्यक्त इति ॥ नाऊण तस्स भावं, देवेंदो तस्स जाणणट्ठाए ।
[भा. ४७८२ ]
वंदिय नमंसया नं, पंचविहं उग्गहं पुच्छे ||
वृ-ज्ञात्वा 'तस्य' भरतस्य 'भावं' विषादात्मकं तस्यैव चावग्रहस्वरूपज्ञापनार्थं भगवन्तं वन्दित्वा नमस्कृत्य च नमिति वाक्यालङ्गारे पञ्चविधमवग्रहं पृच्छति ॥ ततश्च
[भा. ४७८३] अट्ठावयम्मि सेले, आदिकरो केवली अमियनाणी ।
सक्करस य भरहस्स य, उग्गहपुच्छं परिकहेइ ॥
वृ- अष्टापदे शैले आदिकरः केवली अमितज्ञानी शक्रस्य च भरतस्य च पुरतोऽवग्रहपृच्छां परिकथयति ।। तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org