________________
उद्देश : ३, मूलं- ९७, [भा. ४५०१ ]
गुरवः, तत एव प्रतिक्रमणानन्तरं कियन्तमपि कालं तेषु पर्युपास्यमानेषु विश्रामणादिविधानेन विनयोऽपि 'न स्फेटितः' न हापितो भवति ॥ अथ के पुनस्ते ये आचार्यस्यापि रत्नाधिका भवन्ति ? इति उच्यते
[भा. ४५०२]
२३
अन्नेसिं गच्छाणं, उवसंपन्नाण वंदनं तहियं ।
बहुमान तस्स वयणं, ओमे वाऽऽलोयणा भणिया ।।
वृ- अन्येषां गच्छानां सम्बन्धिन आचार्या रत्नाधिकतराः सूत्रार्थनिमित्तं कमप्यवमरानिकमाचार्यमुपसम्पन्नास्तेषां मध्यमवन्दनकमवमरालिकेन दातव्यम् । सेषकालं तेऽपि रानिकाः 'तस्य' अवमरालिकस्य 'बहुमानं' 'पूज्योऽयमस्माकं गुणाधिकतया' इति लक्षणं 'वचनं च' आज्ञानिर्देशं कुर्वन्ति । अवमेऽपि च तत्रालोचना भणिता भगवद्मि । किमुक्तं भवति ? - तस्य पुरत आलोचनं प्रत्याख्यानं च वन्दनकं दत्त्वा विधेयमिति भगवतामुपदेशः ।।
अथ परः प्राह- कस्यपुनः कृतिकर्म कर्त्तव्यम् ? कस्य वा न ? इति उच्यते
[भा. ४५०३] सेढीठाणठियाणं, कितिकम्पं बाहिराण भयितव्वं ।
सुत्त - ऽत्थजाणएणं, कायव्वं आनुपुव्वीए ॥
वृ- संयमश्रेण्याः सम्बन्धीनि विशुद्धिप्रकर्षापकर्षकृतस्वरूपभेदरूपाणि यानि स्थानानि तेषु स्थितानां साधूनां कृतिकर्म कर्त्तव्यम् । ये तु संयमश्रेणिस्थानेभ्यो बाह्यास्तेषां 'भक्तव्यं' कर्त्तव्यं वा न वेति भावः । तत्र कारणे समुत्पन्ने 'सूत्रार्थजञेन' गीतार्थेन 'आनुपूर्व्या' "वायाइ नमोक्कारो” इत्यादिकया वक्ष्यमाणपरिपाट्या कर्त्तव्यम्, अन्यथा तु नेति पुरातनगाथासमासार्थः ॥
साम्प्रतमेनामेव विवरीषुराह
[भा. ४५०४] सेढीठाणठियाणं, कितिकम्मं सेढि इच्छिमो नाउं । तम्हा खलु सेढीए, कायव्व परूवणा इणमो ॥
वृ- संयमश्रेणिस्थानस्थितानां कृतिकर्म कर्त्तव्यमित्युक्ते कश्चिद् विनेयो ब्रूयात्-वयं तामेव श्रेणि प्रथमतो ज्ञातुमिच्छामः । सूरिराह-यत एवं भवतः श्रेणिविषया जिज्ञासा तस्मादस्माभिरपि कर्त्तव्या श्रेणेः प्ररूपणा 'इयं' वक्ष्यमाणलक्षणा ॥
अतस्तामेव चिकीर्षु प्रथमतः श्रेणिस्थितानां कृतिकर्मकरणे विधिमाह
[भा. ४५०५ ] पुव्वं चरित्तसेढीठियस्स पच्छाठिएण कायव्वं ।
सो पुन तुल्लचरित्तो हविज्ज ऊनो व अहिओ वा ।।
वृ- 'पूर्वं' प्रथमं यः सामायिकस्य छेदोपस्थापनीयस्य वा प्रतिपत्त्या चारित्रश्रेण्यां स्थितस्तस्य पश्चात्स्थितेन कृतिकर्म कर्त्तव्यम् । 'सपुनः' पूर्वस्थितस्तं पश्चात्स्थितमपेक्ष्य निश्चयतस्तुल्यचारित्रो न्यूनो वाऽधिको वा भवेत् ॥ यतः
[ भा. ४५०६ ] निच्छयओ दुन्नेयं, को भावे कम्मि वट्टई समणो ।
ववहारओ य कीरइ, जो पुव्वठिओ चरित्तम्मि ॥
वृ- 'निश्चयतः' तत्त्ववृत्त्या कः पूर्वस्थितः पश्चात्स्थितो वा श्रमणः कस्मिन् 'भावे' चारित्राध्यवसायरूपे मन्दे मध्ये तीव्र वा वर्त्तते इति दुर्ज्ञेयम्, तदपरिज्ञानाच्च कथं निश्चयनयाभिप्रायेण कृतिकर्म कर्त्तुं शक्यम् ? । 'व्यवहारतस्तु' व्यवहारनयमङ्गीकृत्य पुनः क्रियते कृतिकर्म यः पूर्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org