SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २४ - बृहत्कल्प-छेदसूत्रम् -३-३/९७ चारित्रे स्थितस्तस्येति ।। ननु फलसाधकत्वाद् निश्चयस्यैव प्रामाण्यं न व्यवहारस्य इत्याह[भा.४५०७] ववहारो वि हुबलवं, जंछउमत्थं पि वंदई अरिहा। जा होइ अनाभित्रो, जाणतो धम्मयं एयं ॥ वृ-व्यवहारोऽपि, आस्तांनिश्चयइत्यपिशब्दार्थ, 'हुः' निश्चितंबलवान्, यद्यस्मात्छद्मस्थमपि स्वगुरुपभृतिकं वन्दते 'अरहाः' केवली। कियन्तं कालम् ? इत्याह-यावदसौ अनाभिन्नोऽस्ति' केवलितयाअनभिज्ञातोभवति तावद् एतां व्यवहारनयबलवत्त्वलक्षणांधर्मतांजानन्छद्मस्थमपि वन्दते इति ॥ कथं पुनरसौ केवलितया ज्ञायते? इत्याह[मा.४५०८] केवलिना वा कहिए, अवंदमानो व केवलिं अन्नं । वागरणपुव्वकहिए, देवयपूयासु व मुणंति ।। - वृ-अन्येन केनापि केवलिना कथिते' 'अयं केवली जातः' इत्याख्याते सति, अवन्दमानोवा केवलिमनमन्यं केवलितयाज्ञायते । व्याकरणपूर्वं वा-अतिशयिज्ञानगम्यार्थकथनपुरःसरंतेनैव केवलिना स्वयमेव कथिते सति, 'दैवतपूजासु वा' यथासन्निहितदेवैः क्रियमाणां महिमां दृष्ट्वा गुरुप्रभृतयस्तं केवलिनं विदन्ति ॥अथ श्रेणिप्ररूपणामाह[भा.४५०९] अवभागपलिच्छेया, ठाणंतर कंडए यछट्ठाणा। हिट्ठा पज्जवसाणे, वुद्धी अप्पाबडं जीवा ॥ वृ- अविभागपरिच्छेदप्ररूपणा स्थानान्तरप्ररूपणा कण्डकप्ररूपणा षट्स्थानप्ररूपणा अधःप्ररूपणा पर्यवसानप्ररूपणा वृद्धिप्ररूपणा अल्पबहुत्वप्ररूपणा जीवप्ररूपणा चेति॥ [भा.४५१०] आलाव गणण विरहियमविरहियं फासणापरूवणया। - गणणपय सेढिअवहार भाग अप्पाबहुं समया॥ वृ-जीवप्ररूपणायां चामूनि प्रतिद्वाराणि, तद्यथा-आलापप्ररूपणा श्रेण्यपहारप्ररूपणा भागप्ररूपणा अल्पबहुत्वप्ररूपणा श्रमण(समय) प्ररूपणा चेति द्वारगाथाद्वयम् ॥ तत्राविभागपरिच्छेदपररूपणांतावत् करोति[भा.४५११] अविभागपलिच्छेदं, चरित्तपज्जव-पएस-परमाणू । परमाणुस्स परूवण, चउव्विहा भावओऽनंता ।। वृ-इह संयमस्थानं केवलिप्रज्ञाच्छेदनकेन छिद्यमानं निरंशतया यदा विभागं न यच्छति तदाऽसावन्तिमोअंशो अविभागपरिच्छेद उच्यते, सचारित्रपर्यायश्चारित्रप्रदेशश्चारित्रपरमाणु भण्यते। परमाणोश्च सामान्यतश्चतुर्विधाप्ररूपणा द्रव्य-क्षेत्र-काल भावभेदात्। द्रव्यत एकोऽणुकः, क्षेत्रत आकाशप्रदेशः,कालतःसमयः, भावतस्त्वेकगुणकालकादि।अत एववाचारित्राविभागपरिच्छेदाः, तेच 'अनन्ताः' अनन्तानन्तकप्रमाणाः । तथा चाह[भा.४५१२] ते कित्तिया पएसा, सव्वागासस्स मग्गणा होइ। तेजत्तिया पएसा, अविभाग तओ अनंतगुणा। वृ-'ते' चारित्रस्य प्रदेशाः "कियन्तः' किंप्रमाणा इति चिन्तायां निर्वचनमाह-सर्वस्य-लोकाऽलोकगतस्याकाशस्य मार्गणा भवति । यावन्तः किल 'ते' सर्वाकाशस्य प्रदेशाः 'ततः' तेभ्यः सर्वाकाशप्रदेशेभ्यश्चारित्रस्य अविभागपरिच्छेदा अनन्तगुणाः सर्वजघन्येऽपि संयमस्थाने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy