SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २५ उद्देश : ३, मूलं- ९७, [भा. ४५१२] कोया ( गाधीनगर) पि ३८२००९ प्रतिपत्तव्याः । एषा अविभागपरिच्छेदप्ररूपणा १ । सर्वजघन्यात् संयमस्थानाद् यद् द्वितीयं संयमस्थानं तत् तस्मादनन्तभागवृद्धम् । किमुक्तं भवति ? - प्रथमसंयमस्थानगतनिर्विभागभागपेक्षया द्वितीये संयमस्थाने निर्विभागा भागा अनन्ततमेन भागेनाधिका भवन्तीति । एषा स्थानान्तरप्ररूपणा २ । तस्मादपि यदनन्तरं तृतीयं तत् ततोऽनन्तभागवृद्धम्, एवं पूर्वस्मादुत्तरोत्तराणि अनन्ततमेन भागेन वृद्धानि निरन्तरं संयमस्थानानि तावद् वक्तव्यानि यावद्गुलमात्र क्षेत्रासङ्घयेयभागगतप्रदेशराशिप्रमाणानि भवन्ति । एतावन्ति च समुदितानि स्थानानि कण्डकमित्युच्यते । एषा कण्डकप्ररूपणा ३ । अस्माच्च कण्डकात् परतो यदन्यदनन्तरं संयमस्थानं भवति तत् पूर्वस्मादसङ्घयेयभागाधिकम् । एतदुक्तं भवति - पाश्चात्यकण्डकसत्कचरमसंयमस्थानगतनिर्विभागभागापेक्षया कण्डकानन्तरे संयमस्थाने निर्विभागा भागा असङ्घयेयतमेन भागेनाधिकाः प्राप्यन्ते । ततः पराणि पुनरपि कण्डकमात्राणि संयमस्थानानि यथोत्तरमनन्तभागवृद्धानि भवन्ति, ततः पुनरेकमसङ्घयेयभागाधिकं संयमस्थानम् भूयोऽपि ततः पराणि कण्डकमात्राणि संयमस्थानानि यथोत्तरमनन्तभागवृद्धानि भवन्ति, ततः पुनरप्येकमसङ्घयेयभागाधिकं संयमस्थानम्ः एवमनन्तभागाधिकैः कण्डकप्रमाणैः संयमस्थानैर्व्यवहितानि असङ्घयेयभागाधिकानि संयमस्थानानि तावद् वक्तव्यानि यावत् तान्यपि कण्डकप्रमाणानि भवन्ति । ततश्चरमादसङ्घयेयभागाधिकसंयमस्थानात् पराणि यथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि संयमस्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि तेनैव क्रमेणाभिधाय पुनरप्येकं सङ्घयेयभागाधिकं संयमस्थानं वक्तव्य, इदं द्वितीयं सङ्ख्येयभागाधिकं संयमस्थानम्; अनेनैव क्रमेण तृतीयम्, यावत् सङ्घयेयभागाधिकानि संयमस्थानानि कण्डकमात्राणि भवन्ति तावद् वाच्यम् । तत उक्तक्रमेण भूयोऽपि सङ्घयेयभागाधिकसंयमस्थानप्रसङ्गे सङ्घयेयगुणाधिकमेकं संयमस्थानं वक्तव्यम्, ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि वक्तव्यानि ततः पुनरप्येकं सङ्घयेयगुणाधिकं संयमस्थानं वक्तव्यम्; ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि ततः पुनरप्येकं सङ्घयेयगुणाधिकं संयमस्थानम्; अमून्यप्येवं सङ्घयेयगुणाधिकानि संयमस्थानानि तावद् वक्तव्यानि यावत् कण्डकमात्राणि भवन्ति । तत उक्तक्रमेण पुनरपि सङ्घयेयगुणाधिकसंयमस्थानप्रसङ्गेऽसङ्घयेयगुणाधिकं संयमस्थानं वक्तव्यम्, ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति तेनैव क्रमेण भूयोऽपि वक्तव्यानि ततः पुनरप्येकमसङ्घयेयगुणाधिकं संयमस्थानं वक्तव्यम्; ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि, ततः पुनरप्येकमसङ्घयेयगुणाधिकं संयमस्थानं वक्तव्यम्: अमूनि चैवमसङ्घयेयगुणाधिकसंयमस्थानानि तावद् वक्तव्यानि यावत् कण्डकप्रमाणानि भवन्ति । ततः पूर्वपरिपाट्या पुनरप्यसङ्घयेयगुणाधिकसंयमस्थानप्रसङ्गे अनन्तगुणाधिकं संयमस्थानं वक्तव्यम्, ततो भूयोऽपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति तथैव क्रमेण भूयोऽपि वक्तव्यानि, ततः पुनरप्येकमनन्तगुणाधिकं संयमस्थानं वक्तव्यम्; ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि ततः पुनरप्येकमनन्तगुणाधिकं संयमस्थानं वक्तव्यम्; एवमनन्तगुणाधिकानि तावद् वक्तव्यानि यावत् कण्डकमात्राणि भवन्ति । ततो भूयोऽपि तेषामुपरि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy