SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -३-३/९७ पञ्चवद्यात्मकानि संयमस्थानानि मूलादारभ्य तथैव वक्तव्यानि, यत् पुनरनन्तगुणवृद्धिस्थानं तन्न, प्राप्यते, षट्स्थानस्य परिसमाप्तत्वात् । इत्थम्भूतान्यसङ्घयेयानि कण्डकानि समुदितानि षट्स्थानकं भवति । तस्माच्च प्रथमषटस्थानकादूर्द्धमुक्तक्रमेणैव द्वितीयं षटस्थानकमुत्तिष्ठति, एवमेव च तृतीयम्, एवं षटस्थानकान्यपि तावद् वाच्यानि यावदसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति । उक्तं च २६ छट्ठाणगअवसाणे, अन्नं छट्ठाणयं पुनो अन्नं । एवमसंखा लोगा, छट्टाणाणं मुणेयव्वा ॥ इत्थम्भूतानि चासङ्घयेयलोकाकाशप्रदेशप्रमाणानि षटस्थानकानि संयमश्रेणिरुच्यते । तथा चोक्तम्- छट्ठाणा उ असंखा, संजमसेठी मुणेयव्वा ॥ तदेवं कृता अविभागपरिच्छेद-स्थानान्तरकण्डक - षटस्थानकानां प्ररूपणा ४ । साम्प्रतमधःस्थानप्ररूपणा क्रियते प्रथमादसङ्घयेयभागवृद्धात् स्थानादधः कियन्ति संयमस्थानान्यनन्तभावृद्धानि ? उच्यते- कण्डकमान्नाणि । तथा प्रथमात् सङ्घयेयभागवृद्धात् स्थानादधः कियन्ति असङ्घयेयभागवृद्धानि स्थानानि ? उच्यते - कण्डकमात्राणि । एवमुत्तरोत्तरस्थानादधोऽध आनन्तर्येण तावद् मार्गणा कर्त्तव्या यावत् प्रथमादनन्तगुणवृद्धानि स्थानानि ? उच्यते- कण्डकवर्ग कण्डकं च । तथा प्रथमात् सङ्ख्येयगुणवृद्धात् स्थानादधः कियन्ति असमयेयगुणवृद्धात् स्थानानि ? उच्यते- कण्डकवर्ग कण्डकंच । तथा प्रथमादनन्तगुणवृद्धात् स्थानादधः कियन्ति सङ्घयेयगुणवृद्धानि स्थानानि ? उच्यते-कण्डकवर्ग कण्डकं च। एवमुक्तप्रकारेण यान्तरिता त्र्यन्तरिता चतुरन्तरिता च मार्गणा स्वधिया परिभावनीया । अथ पर्यवसानद्वारम् तत्रानन्तगुणवृद्धकण्डकादुपरिपञ्चवृध्यात्मकानि सर्वाणि स्थानानि गत्वा पुनरनन्तगुणवृद्धं स्थानं न प्राप्यते, षट्स्थानस्य परिसमाप्तत्वात् । ततस्तदेव सर्वान्तिमं स्थानं षट्स्थानकस्य पर्यवसानम् ॥ अथ भाष्यकारः प्रकारान्तरेणाधः पर्यवसानद्वारयोर्युगपत् प्ररूपणामाह [भा. ४५१३] एयं चरित्तसेढिं, पडिवज्जइ हिट्ठ कोइ उवरिं वा । जो हिट्ठा पडिवज्जइ, सिज्झइ नियमा जहा भरहो ॥ वृ- एतां चारित्रश्रेणि कश्चिद् जीवः 'अधस्ताद्' जघन्यसंयमस्थानेषु प्रतिपद्यते, कश्चित् पुनः 'उपरि' उपरितनेषु पर्यन्तवर्तिषु, उपलक्षणत्वाद् मध्यमेषु वा संयमस्थानेषु प्रतिपद्यते । तत्र योऽधस्तनेषु संयमस्थानेषु चारित्रश्रेणिं प्रतिपद्यते स नियमात् तेनैव भवग्रहणेन सिध्यति, यथा भरतश्चक्रवर्ती ॥ [ भा. ४५१४] मज्झे वा उवरिं वा, नियमा गमनं तु हिट्ठिमं ठाणं । अंतोमुहुत्त वुड्डी, हानी वि तहेव नायव्वा ।। वृ- यः पुनः 'मध्ये वा' मध्यमेषु 'उपरि वा' उपरितनेषु संयमस्थानेषु चारित्रश्रेणि प्रतिपद्यते तस्यन नियमाद् 'अधस्तनं' सर्वजघन्यं संयमस्थानं यावद् गमनं भवति, ततोऽसौ तेनान्येन वा भवग्रहणेन सर्वाणि संयमस्थानानि स्पृष्ट्वा सिध्यति । या पुनरधस्तनसंयमस्थानेभ्य उपरितनसंयमस्थानारोहणलक्षणा वृद्धिः साऽन्तर्मुहूर्तमात्रं भवति । या चोपरितनसंयमस्थानेभ्योऽधस्तनसंयमस्थानेष्ववरोहणरूपा हानि साऽपि तथैव' अन्तर्मुहूर्तमात्रैव ज्ञातव्या For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy