________________
उद्देशक : ३, मूलं- ९७, [ भा. ४५१४ ]
२७
५-६ । एतेन वृद्धिद्वारप्ररूपणाऽपि कृता ७ । सम्प्रति अल्पवहुत्वद्वारं प्ररूप्यते तत्र सर्वस्तोकान्यनन्तगुणवृद्धानि स्थानानि, कण्डकमात्रत्वात् तेषाम् । तेभ्योऽसङ्घयेयगुणवृद्धानि स्थानानि असङ्घयेयगुणानि, गुणकारश्चेह कण्डकप्रमाणो ज्ञातव्यः, एकैकस्यानन्तगुणवृद्धस्य स्थानस्याधस्तात् प्रत्योकमसङ्घयेयगुणवृद्धानि स्थानानि कण्डकमात्राणि प्राप्यन्त इति कृत्वा ; अनन्तगुणवृद्धस्थानकण्डकस्य चोपरि कण्डकमात्राण्यसङ्घयेयगुणवृद्धानि प्राप्यन्ते, न त्वनन्तगुणवृद्धं स्थानम्, तेनोपरिष्टादेकस्य कण्डकस्याधिकस्य प्रक्षेपः । तेभ्योऽप्यसङ्कयेयगुणवृद्धेभ्यः स्थानेभ्यः सङ्घयेयगुणवृद्धानि स्थानानि असङ्घयेयगुणानि, तेभ्योऽपि सङ्घयेयभागाधिकानि स्थानान्यसङ्घयेयगुणानि, तेभ्योऽपि असङ्खयेयभागाधिकानि स्थानान्यसङ्घयेयगुणानि, तेभ्योऽप्यनन्तभागवृद्धानि स्थानानि असङ्घयेयगुणानि । गुणकारश्च सर्वत्रापि कण्डकमुपरि चैककण्डकप्रक्षेपः । प्ररूपितमल्पबहुत्वद्वारम् ८ । जीवपदप्रतिबद्धानां त्वालाप-गणनादीनां द्वाराणां प्ररूपणा सम्प्रदायाभावाद् न क्रियते ९ ॥ अथ प्रस्तुतयोजनां कुर्वन्नाहसेढीठाणठियाणं, किइकम्मं बाहिरे न कायव्वं । पासत्थादी चउरो, तत्थ वि आणादिणो दोसा ।।
[ भा. ४५१५]
वृ- अनन्तरोक्तायाः श्रेणेः सम्बन्धिषु संयमस्थानेषु स्थितानां साधूनां कृतिकर्म कर्त्तव्यम्, ये तु श्रेणेर्बाह्यास्तेषां न कर्त्तव्यम् । के पुनस्ते ? इत्याह- पार्श्वस्थादयश्चत्वारः । तत्र पार्श्वस्थाSवसन्न- कुशील- संसक्त-यथाच्छन्दाः पञ्चाप्येको भेदः, काथिक-प्राश्निक-मामाक-सम्प्रसारका द्वितीयः, अन्यतीर्थिकास्तृतीयः, गृहस्थाश्चतुर्थः एते चत्वारोऽपि श्रेणिबाह्या मन्तव्याः । 'तत्रापि' एतेषां कृतिकर्मकरणेऽपि न केवलमभ्युत्थाने इत्यपिशब्दार्थः, आज्ञादयो दोषाः प्रायश्चित्तं च प्राग् यथाऽभ्युत्थाने पार्श्वस्था ऽन्यतीर्थिकादिविषयं वर्णितं तथैव वक्तव्यम् । शिष्यः पृच्छति[ भा. ४५१६] लिंगेन निग्गतो जो, पागडलिंगं धरेइ जो समणो । किध होइ निग्गतो त्ति य, दिट्ठतो सक्करकुडेहिं ॥
वृ- 'लिङ्गेन' 'रजोहरणादिना यो मुक्तः स संयमश्रेण्या निर्गतः प्रतीयते, यस्तु श्रमणः प्रकट मेव लिङ्गं धारयति स कथं ‘निर्गतः' श्रेणिबाह्यो भवति ?, श्रमणलिङ्गस्योपलभ्यमानत्वाद् न भवतीति भावः । अत्र सूरिराह-दृष्टान्तः शर्कराकुटाभ्यामत्र क्रियते- जहा कस्सइ रन्नो दो घडया सक्कराभरिया । ते अन्नया मुद्दं दाऊण दोण्हं पुरिसाणं समप्पिया भणिता य, जहा-सारक्खह, जया मग्गज तया दिजाह ।। ततः किमभूत् ? इत्याह
[भा. ४५१७]
दाउ हिट्ठा छारं, सव्वत्तो कंटियाहि वेढित्ता । सकवाडमनाबाधे, पालेति तिसंझमिक्खंतो ।।
वृ-तयोरेकः पुरुषस्तं राज्ञा समर्पितं घट गहीत्वा तस्याधः क्षारं दत्त्वा यथा कीटिका नागच्छेयुरिति भावः, ततः सर्वतः कण्टिकाभिस्तं वेष्टयित्वा 'सकपाटे' कपाटपिधानयुक्तेऽनाबाधे प्रदेशे स्थापयित्वा त्रिसन्ध्यमीक्षमाणः सम्यक् पालयति ॥ द्वितीयः पुनः किं कृतवान् ? इत्याहमुद्द अविद्दवंतीहिं कीडियाहिं स चालनी चेव । जञ्जरितो कालेणं, पमायकुडए निवे दंडो ।
[भा. ४५१८]
वृ- द्वितीयः पुरुषस्तं घटं कीटिकानगरस्यादूरे स्थापयित्वा मध्यंमध्येनावलोकते, ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org