________________
२८
बृहत्कल्प-छेदसूत्रम् -३-३/९७ शर्करागन्धाघ्राणतः समायाताभि कीटिकाभिर्मुद्रामविद्रवन्तीभिः ‘सः' घटोऽधस्तात् कालेन जर्जरितः कृतः, शर्करा सर्वाऽपिभक्षिता ।अन्यदाराज्ञा तौपुरुषौघटंयाचितौ, ततो द्वाभ्यामप्यानीय दर्शितयोर्घटयोः “पमायकुडए"त्ति येन कुटरक्षणे प्रमादः कृतस्तस्य नृपेण दण्डः कृतः । उपलक्षणमिदम्, तेन यस्तं सम्यक् पालितवान् तस्य विपुला पूजा विदधे । एष दृष्टान्तः, अयमर्थोपनयः-राजस्थानीया गुरवः, पुरुषस्थानीयाः साधवः, शर्करास्थानीयंचारित्रम्, घटस्थानीय आत्मा, मुद्रास्थानीयं रजोहरणम्, कीटिकास्थानीयान्यपराधपदानि, दण्डस्थानीयादुर्गतिप्राप्ति, पूजास्थानीया स्वर्गादिसुखपरम्पराप्राप्ति ॥ तथा चामुमेवोपनयं लेशतो भाष्यकारोऽप्याह[भा.४५१९] निवसरिसो आयरितो, लिंग मुद्दा उ सक्करा चरणं ।
पुरिसा य होति साहू, चरित्तदोसा मुयिंगाओ॥ वृ-गतार्था । नवरं 'मुयिङ्गाः' कीटिकाः । यथा तस्य प्रमत्तपुरुषस्य मुद्रासद्भावेऽप्यधःप्रविशन्तीभिः कीटिकाभिर्घटं विभज्य शर्करा विनाशिता, एवं साधोरपि प्रमादिनो रजोहरणमुद्रासद्भावेऽप्यपराधपदैरात्मनि जर्जरिते शर्करातुल्यं चारित्रं कालेन वा सद्यो वा विनाशभाविशति ॥तत्र कालेन यथा विनश्यति तथा दर्शयति[भा.४५२०] एसणदोसे सीयइ, अनानुतावी न चेव वियडेइ।
नेव य करेइ सोधिं, न त विरमति कालतो भस्से ।। वृ-एषणादोषेषु सीदति, तद्दोषदुष्टंभक्त-पानंगृह्णातीत्यर्थः । एवं कुर्वनपिपश्चात्तापंकरिष्यति इत्याह-'अननुतापि' पुरःकर्मादिदोषदुष्टाहारग्रहणाद् अनु-पश्चात् तप्तुं-'हा ! दुष्ठु कृतं मया' इत्यादिमानसिकतापंधर्तुंशीलमस्येत्यनुतापी, नतथा अननुतापी। कथमेतद् ज्ञायते? इत्याह'न.चैव विकटयति' गुरूणां पुरतः स्वदोषं न प्रकाशयति, विकटयति वा परं तस्य 'शोधिं' प्रायश्चित्तं गुरुप्रदत्तं नैव करोति, 'नच' नैव अशुद्धहारग्रहणाद् विरमति । एवं कुर्वन् 'कालतः' कियताऽपि कालेन चारित्रात् परिभ्रश्येत् । यस्तु मूलगुणान् विराधयति स सद्यः परिभ्रश्यति ॥
अमुमेवार्थं सविशेषमाह[भा.४५२१] मूलगुण उत्तरगुणे, मूलगुणेहिं तु पागडो होइ ।
उत्तरगुणपडिसेवी, संचयऽवोच्छेदतो भस्से॥ वृ-इह प्रतिसेवको द्विधा-मूलगुणप्रतिसेवक उत्तरगुणप्रतिसेवकश्च।तत्रमूलगुणप्रतिसेवायां वर्तमानः प्रकट एव प्रतीयते यथा चारित्रात् परिभ्रश्यति । उत्तरगुणप्रतिसेवी तु सञ्चयेनबह्वपराधमीलकेन योऽशुद्धाहारग्रहणादेरव्यवच्छेदः-परिणामस्यानुपरमस्ततः 'भ्रश्येत् चारित्रात् परिभ्रंशमाप्नुयात् ॥अत्रैवार्थे दृष्टान्तमाह[भा.४५२२] अंतो भयणा बाहिं, तु निग्गते तत्थ मरुगदिटुंतो।
संकर सरिसव सगडे, मंडव वत्थेण दिटुंतो॥ वृ-इह सम्बन्धानुलोम्यतः प्रथममुत्तरार्धं व्याख्यायते-सङ्करः-तृणादिकचवरःतदृष्टान्तोयथाआरामो सारणीए पाइज्जइ । ताए वहंतीए एगंतणं सयंलग्गंतंन अवणीयं, अनं लग्गं तं पिन अवनीयं, एवं वहूहिं लग्गंतेहिं तत्थ तेन आश्रयेण चिक्खल्लधूलीए संचओ जाओ। तेनं संचयेणं तं पानियं रुद्धं अन्नओ गंतुं पयर्ट, ताहे सो आरामो सुक्को । एवमभिक्खणमभिक्खणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org