________________
उद्देशक : ३, मूलं-९७, [भा. ४५२२]
२९ उत्तरगुणपडिसेवाए अवराहसंचओभवइ, तेन संजजलंपवहमाणं निरुज्झइ, तओचारित्तारामो सुक्कइ।।सर्षपशकट-मण्डपदृष्टान्तो यथा-शकटेमण्डपेवा काप्येकःसर्षपःप्रक्षिप्तः सतत्र मातः, अन्यः प्रक्षिप्तः सोऽपि मातः, एवं प्रक्षिप्यमाणैः सर्षपैभविष्यति ससर्षपो यस्तं शकटं मण्डपंवा भनक्ति । एवं चारित्रेऽप्यशुद्धाहारग्रहणादिरेकोऽपराधः प्रक्षिप्तः स तत्रावस्थितिं कृतवान्, द्वितीयः प्रक्षिप्तः सोऽपि मातः, एवं प्रक्षिप्यमाणै-सर्षपैर्भविष्यति स सर्षपो यस्तं शकटं मण्डपं वा भनक्ति । एवं चारित्रेऽप्युद्धाहारग्रहणादिरेकोऽपराधः प्रक्षिप्तः स तत्रावस्थितिं कृतवान्, द्वितीयः प्रक्षिप्तः सोऽप्यवस्थितः, एवमपरापरैरुत्तरयुणापराधैः प्रक्षिप्यमाणैर्भविष्यति स उत्तरगुणापराधो येन चारित्रं सर्वथा भङ्गमुपगच्छति॥
अथ वस्त्रदृष्टान्तो भाव्यते-वस्त्रे क्वचिदेकस्तैलबिन्दुः कथमपि लग्नः स न शोधितः, एवमन्यान्यस्तैलबिन्दुभिर्लगद्भिरप्यशोध्यमानैः सर्वमपि तद् वस्त्र मलिनीभूतम् । एवं चारित्रवस्त्रमप्यपरापरैरुत्तरगुणापराधैरुपलिप्यमानमचिरादेव मलिनीभवतीति ।। तदेवमुत्तरगुणप्रतिसेवी कालेन चारित्रात् परिभ्रश्यतीतिस्थितम् । अथ कृतिकर्मविषयं विशेषं बिभणिषुराह"अंतो भयणा" इत्यादि पूर्वार्धम् । यः संयमश्रेणेः 'अन्तः' मध्ये स्थितस्तस्य कृतिकर्मकरणे भजना, सा चाग्रे दर्शयिष्यते। यस्तुश्रेणेबहिर्निगतस्तस्य कृतिकर्मन कर्त्तव्यम्। तथाच मरुकःब्राह्मणस्तस्य दृष्टान्तोऽत्र भवति ।। तमेव दर्शयति[भा.४५२३] पक्कणकुले वसंतो, सउणीपारो वि गरहिओ होइ।।
इय गरहिया सुविहिया, मज्झि वसंता कुसीलाणं । वृ-पक्कणकुलं-मातङ्गगृहंतत्र वसन् 'शकुनीपारगोऽपि' द्विजोगर्हितो भवति । शकुनीशब्देन चतुर्दश विद्यास्थानानि गृह्यन्ते, तानि चामूनि
___अङ्गानि वेदाश्चत्वारो, मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्र च, स्थानान्याहुश्चतुर्दश॥ तत्राङ्गानिषट्-शिक्षा व्याकरणंकल्पः छन्दो निरुक्तिज्योतिषमिति। "इय" एवं सुविहिताः' साधवः ‘कुशीलानां' पार्श्वस्थादीनां मध्ये वसन्तो गर्हिता भवन्ति, अतो न तेषु वस्तव्यं न वा कृतिकर्मादि विधेयम् ॥ ननु च ‘पार्श्वस्थादीनां कृतिकर्म न कर्तव्यम्' इति भवद्भिरभिहितम् तत्र पार्श्वस्थादीनां लक्षणं कचिदग्रपिण्डभोजित्वादि स्वल्पदोषरूपं क्वचित्तु स्त्रीसेवादि महादोषरूपमावश्यकादिशास्त्रप्वभिधीयतेतदत्र वयंतत्त्वं नजानीमहे कस्य कर्तव्यं कृतिकर्म? कस्य वान? इत्याशङ्कावकाशमवलोक्य विषयविभागमुपदर्शयति[भा.४५२४] संकिन्नवराहपदे, अनानुतावी अहोइ अवरद्धे ।
. उत्तरगुणपडिसेवी, आलंबनवजिओ वजो।। वृ-इह यो मूलगुणप्रतिसेवी सनियमादचारित्रीति कृत्वा स्फुटमेवावन्दनीय इति न तद्विचारणा; परं य उत्तरगुणविषयैर्बहुभिरपराधपदैः सङ्कीर्णः-शबलीकृतचारित्रः, अपरं च 'अपराद्ध' अशुद्धाहारग्रहणादावपराधे कृतेऽपि अननुतापी' 'हा! दुष्ठुकृतम्' इत्यादि पश्चात्तापं न करोति, निशङ्को निर्दयश्च प्रवर्तत इत्यर्थः । एवंविध उत्तरगुणप्रतिसेवी यदि आलम्बनेन- ज्ञान-दर्शनचारित्ररूपविशुद्धकारणेन वर्जितः, कारणमन्तरेण प्रतिसेवत इति वः, तदाऽसौ ‘वर्व्यः'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org