________________
नववाह
बृहत्कल्प-छेदसूत्रम् -३-३/९७ कृतिकर्मकरणे वर्जनीयः ।शिष्यः प्राह-नन्वेवमर्थादापन्नम्-आलम्बनसहित उत्तरगुणप्रतिसेव्यपि वन्दनीयः । सूरिराह-न केवलमुत्तरगुणप्रतिसेवी मूलगुणप्रतिसेव्यप्यालम्बनसहितः पूज्यः॥
कथम् ? इति चेद् उच्यते[भा.४५२५] हिट्ठाणठितो वी, पावयणि-गणट्ठया उ अधरे उ।
कडजोगिजं निसेवइ, आदिनिगंठो व्व सो पुज्जो॥ कृ'अधस्तनस्थानेषु जघन्यसंयमस्थानेषुस्थितोऽपि, मूलगुणप्रतिसेव्यपीतिभावः, 'कृतयोगी' गीतार्थ प्रावचनिकस्य-आचार्यस्य गणस्य च-गच्छस्यअनुग्रहार्थम् “अधरे" आत्यन्तिके कारणे समुपस्थिते यद् निषेवते तत्रासौ संयमश्रेण्यामेव वर्तते इति कृत्वा पूज्यः । क इव ? इत्याह'आदिनिर्ग्रन्थ इव' इह पुलाक-बकुश-कुशील-निर्ग्रन्थ-स्नातकाख्याः पञ्च निर्ग्रन्थाः, तेषामादिभूतः पुलाकः तद्वत्; तस्य ह्येताद्दशी लब्धिर्यया चक्रवर्तिस्कन्धावारमपि अभिवादनादौ कुलादिकार्ये स्तभ्नीयाद् वा विनाशयेद् वा, न च प्रायश्चित्तमाप्नुयात् ।।तथा चाह[भा.४५२६] कुणमाणो विय कडणं, कतकरणो नेव दोसममेति ।
अप्पेण बहुं इच्छइ, विसुद्धआलंबणो समणो॥ वृ-“कडणं" कटकमदं कुर्वाणोऽपि 'कृतकरणः' पुलाको नैव स्वल्पमपि दोषम् ‘अभ्येति' प्राप्नोति । कुतः ? इत्याह-यतोऽसौ श्रमणो विशुद्धालम्बनः सन् अल्पेन संयमव्ययेन बहुं संयमलाभमिच्छति॥अमुमेवार्थं समर्थयन्नाह[भा.४५२७] संजमहेउं अजतत्तणं पिन हु दोसकारगं बिति।
पायण वोच्छेयं वा, समाहिकारोवणादीणं॥ वृ-प्रावचनिकादेः प्राणव्यपरोपणाद्युपद्रवरक्षणेन यः संयमस्तद्धतोः-तन्निमित्तं पुलाकादेरयतत्वमपि 'नहि' नैव दोषकारकं ब्रुवते । यथा 'समाधिकारः' वैद्यो व्रणादीनां यत् तथाविधौषधप्रलेपनेन पाचनं यच्च शस्त्रादिना विच्छेदनं यद्वा व्यवच्छेदं' लङ्घनं कारयति तत् तदानीं पीडाकरमपि परिणामसुन्दरमिति कृत्वा न सदोषम् एवमिदमपीति ॥
अथ परस्याभिप्रायमाशङ्कमान आह[भा.४५२८] तत्थ भवे जति एवं, अन्नं अन्नेण रक्खए भिक्खू ।
अस्संजया वि एवं, अन्नं अन्नेण रक्खंति॥ वृ-'तत्र' इत्यनन्तरोक्तेऽर्थेऽभिहिते सतिभवेत् परस्याभिप्राय इति वाक्यशेषः-यद्येवं 'भिक्षु' पुलाकादि अन्यम्' आचार्यादिकम् ‘अन्येन' स्कन्धावारादिना कृत्वा रक्षति, एकस्यविनाशेनापरं पालयतीतिभावः, ततएवम् ‘असंयताः' गृहस्थाअप्यन्यमन्येन रक्षन्त्येव, अतोनकश्चिदसंयतानां संयतानां च प्रतिविशेषः॥एवं परेणोक्ते सूरिराह[भा.४५२९] नहु ते संजमहेउं, पालिंति असंजता अजतभावे ।
अच्छित्ति-संजमट्ठा, पालिंति जती जतिजनं तु॥ वृ- 'नहि' नैव 'ते' असंयताः ‘अयतभावव्यवस्थितान्' गृहस्थान् संयमहेतोः पालयन्ति, किन्तु स्वात्मनो जीविकादिनिमित्तम् । ये तु यतयस्ते या तीर्थस्याव्यवच्छत्तिर्यश्च तेषां रक्ष्यमाणानामात्मनश्चान्योऽन्योपकारद्वारेण संयमस्तदर्थयतिजनं पालयन्ति।तुशब्दोविशेषणार्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org