SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ उद्देशकः३, मूलं-९७, [भा. ४५२९] एष विशेषः साधूनां गृहस्थानां चेति । किञ्च[भा.४५३०] कुणइ वयं धनहेउं, धनस्स धनितो उ आगमं नाउं। इय संजमस्स वि वतो, तस्सेवऽट्ठा न दोसाय ।। वृ- यथा धनिको वाणिज्यं कुर्वन् ‘आगमं' लाभं ज्ञात्वा ‘धनहेतोः' द्रव्योपार्जनार्थं शुल्ककर्मकरवृत्ति-भाटकादिप्रदानेन धनस्य व्ययं करोति, “इय" एवं पुलाकादेर्मूलगुणप्रतिसेवनां कुर्वाणस्ययः कोऽपि संयमस्य व्ययः सः 'तस्यैव' संयमस्यार्थाय विधीयमानो नदोषाय सञ्जायते, ततः पुष्टालम्बनसहितो मूलगुणप्रतिसेव्यपि शुद्ध इति स्थितम् ।। अथापुष्टालम्बनो निरालम्बनो वा प्रतिसेवते ततः संसारोपनिपातमासादयति, तथा चात्र दृष्टान्तमाह[भा.४५३१] तुच्छमवलंबमानो, पडति निरालंबणो य दुग्गम्मि। सालंब-निरालंबे, अह दिटुंतो निसेवंते॥ वृ-इहालम्बनंद्रव्य-भावभेदाद्विधा । तत्र गर्तादौ पतद्भिर्यद्रव्यमालम्ब्यतेतद्रव्यालम्बनम्। तच्च द्विधा-पुष्टमपुष्टं च । अपुष्टं-दुर्बलं कुश-वल्ककादि, पुष्टं-बलिष्ठं तथाविधकठोरवल्लयादि । एवं भावालम्बनमपि पुष्टा-ऽपुष्टभेदाद्विधा । पुष्टंतीर्थाव्यवच्छित्ति-ग्रन्थाध्ययनादि, अपुष्टं शठतया स्वमतिमात्रोप्रेक्षितमालम्बनमात्रम्। ततश्च द्रव्यालम्बनं 'तुच्छम्' अपुष्टमवलम्बमानो निरालम्बनो वा यथा 'दुर्गे' गर्तादौ पतति, यस्तुपुष्टालम्बनमवलम्बते ससुखेनैवात्मां गर्तादौ पतन्तं धारयति, एवं साधोरपि मूलगुणाद्यपराधान् निषेवमाणस्य सालम्ब-निरालम्बविषयः ‘अथ' अयं दृष्टान्तो मन्तव्यः ।किमुक्तं भवति?-योनिरालम्बनोऽपुष्टालम्बनोवा प्रतिसेवतेस आत्मानं संसारगर्तायां पतन्तंन सन्धारयितुं शक्नोति, यस्तुपुष्टालम्बनः सतदवष्टम्भादेव संसारगर्तासुखेनैवातिलश्यति। यत एवमतः पुष्टालम्बनवर्जितः कृतिकर्मणि वर्जनीय इति ॥ अथ श्रेणिस्थानस्थिता अपि ये कृतिकर्मणि नियमेन भजनया वा न व्यवह्रियन्ते तान् प्रतिपादयति[भा.४५३२] सेढीठाणे सीमा, कज्जे चत्तारि बाहिरा होति। सेढीठाणे दुयभेययाए चत्तारि भइयव्वा ॥ कृ श्रेणिस्थानं सीमास्थानमित्यननन्तरम्, तत्र वर्तमानाअपि चत्वारोजनाः' प्रत्येकबुद्धादयो वक्ष्यमाणाः कार्ये बाह्या भवन्ति । इह कार्यं द्विधा-वन्दनकार्य कार्यकार्यं च । तत्र वन्दनकार्य द्विधा-अभ्युत्थानं कृतिकर्मच। कार्यकार्यं कुलकार्यादिभेदादनेकविधम्, कार्यम्-अवश्यकर्त्तव्यरूपं यत् कार्यं तत् कार्यकार्यमिति व्युत्पत्तेः । एतद् द्विविधमपि प्रत्येकबुद्धादयो न कुर्वन्तीति भावः। तथा श्रेणिस्थाने वर्तमानाअपि गच्छप्रतिबद्धयथालन्दिकादयश्चत्वारो जनाः "दुयभेदयाए"त्ति द्विकभेदम् अनन्तरोक्तकार्यद्वयिवधानमङ्गीकृत्य भक्तव्याः, तत्र व्यवह्रियन्ते वा न वेति भावः । इदमेव स्फुटतरमाह[भा.४५३३] पत्तेयबुद्ध जिनकप्पिया य सुद्धपरिहारऽहालंदे । एए चउरो दुगभेदयाए कज्जेसु बाहिरगा॥ वृ-प्रत्येकबुद्धा जिनकल्पिकाः शुद्धपरिहारिणोअप्रतिबद्धयथालन्दिकाश्च, एते चत्वारोजना द्विकभेदान्तर्गतेषुकृतिकर्म-कुलकार्यादिषुकार्येषुबाह्या भवन्ति, नतद्विषयंव्यवहारपथमवतरन्तीति भावः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy