SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -३-३/९७ [भा.४५३४] गच्छम्मि नियमक्कजं, कजे चत्तारि होति भइयव्वा । गच्छपडिबद्ध आवन्न पडिम तह संजतीतो य॥ वृ- गच्छे नियमाद्-अवश्यन्तया कर्तव्यं यत् कार्य-कुल-गण-सङ्घविषयं तत्र कार्ये चत्वारो जना भक्तव्या भवन्ति-गच्छप्रतिबद्धयथालन्दिकाः “आवत्र" ति आपनपरिहारिकाः प्रतिमाप्रतिपन्नाः संयत्यश्चेति । यदा सङ्घः कुलादिकार्यं कर्तुं न शक्नोति तत एतेऽपि कुर्वन्तीति। वन्दनकाSतुगच्छप्रतिबद्धयथालन्दिका यस्याचार्यस्य पार्वे सूत्रार्थग्रहणं कुर्वते तस्यावमस्यापि कुर्वन्ति, शेषसाधूनां तु न कुर्वन्ति । आपन्नपरिहारिणां प्रतिमाप्रतिपन्नानां संयतीनां च कृतिकर्म क्रियते वा न वा, तेऽपि कुर्वन्ति वा न वेति ॥ इदमेव सविशेषमाह[भा.४५३५] अंतो वि होइ भयणा, ओमे आवन संजतीओ य। बाहिं पि होइ भयणा, अतिवालगवायगे सीसा॥ वृः ‘अन्तरपि' श्रेणेरभ्यन्तरतःस्थितानामपि वन्दनकंप्रतीत्य भजनाभवति। कथम् ? इत्याह"ओमि"त्ति योऽवमरालिकः स आलोचनादौ कार्ये क्न्धते, अन्यदा तु नेति । “आवनि"त्ति आपन्नपरिहारिको न वन्द्यते, स पुनराचार्यान् वन्दते । “संजईउ"त्ति संयत्योऽपि उत्सर्गतो न वन्द्यन्ते, अपवादपदे तुयदि बहुश्रुतामहत्तरा काचिदपूर्वश्रुतस्कन्धंधारयति ततस्तस्याः सकाशात् तत्र ग्रहीतव्ये उद्देश-समुद्देशादिषुसा फेटावन्दनकेन वन्दनीया।न केवलमन्तः किन्तु श्रेणेर्बहिरपि स्थितानां कृतिकर्मणि भजना मन्तव्या, कारणे तेषामपि कृतिकर्म विधेयमिति भावः । अथ न कुर्वन्ति ततो महान् दोषो भवति, यथा अजापालकवाचकमवन्दमाना अगीतार्था शिष्या दोषं प्राप्तवन्त इति वाक्यशेषः । अथवा “सीस"त्तिसंविग्नविहारा लिङ्गाद्वा परिच्युतं स्वगुरुंरहसि शीर्षेण प्रणम्य वक्तव्यम्-भगवन् ! युष्माभिः परित्यक्ताः सन्तः साम्प्रतमनाथा वयम्, अतः कुरुतोद्यमं भूयश्चरणकरणानुपालनायामिति ॥ अथ “ओमे आवत्र संजईओ"त्ति गाथावयवं विवृणोति[भा.४५३६] आलोयण-सुत्तट्ठा, खामण ओमे य संजतीसुंच। आवन्नो कज्जकज्जं, करेइ न य वंदती अगुरुं॥ वृ-आलोचनानिमित्तं सूत्रार्थग्रहणार्थं चावमस्यापि वन्दनकं दातव्यम् । क्षामणके तु सएव रत्नाधिकानां वन्दनकं दद्यात् । संयतीनामप्यालोचना-सूत्रार्थनिमित्तं कृतिकर्म कर्त्तव्यम् । यः पुनरापन्नपरिहारिकः सः 'कार्यकार्य' कुलकार्यादि करोति। “अगुरुं"ति गुरुं मुक्त्वा न कमपि साधुंवन्दते। उपलक्षणमिदम्, तेन नचासौ केनापि साधुना वन्द्यते।।अथअजापालकदृष्टान्तमाह[भा.४५३७] पेसविया पच्चंतं, गीतासति खित्तपेहग अगीया। पेहियखित्ता पुच्छंति वायगं कत्थ रन्ने ति॥ [भा.४५३८] ओसकते दटुं, संकच्छेती उ वातगो कुविओ। ___ पल्लिवति कहण रुंभण, गुरु आगम वंदणं सेहा ।। वृ-केनचिदाचार्येण गीतार्थाभावेऽगीतार्थासाधवः प्रत्यन्तपल्लयां क्षेत्रप्रत्युपेक्षकाःप्रेषिताः। तत्रच भ्रष्टव्रतएको वाचको राजकुले यत्कृतप्रमाणः परिवसति।तेच प्रत्युपेक्षितक्षेत्राःसाधवस्तं वाचकं लोकस्य समीपे पृच्छन्ति-कुत्रासौ तिष्ठति ? । लोकेनोक्तम्-अरण्ये । ततस्तेऽपि तत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy