________________
बृहत्कल्प-छेदसूत्रम् -३-३/९७ वृ-प्रतिक्रमणे' प्रतिक्रमणसूत्रे 'तीरते' पारं प्रापिते सति वन्दनंं भवति यावद् द्विचरमः साधुः, साधू अवशिष्यमाण यावत् सर्वेषामपि वन्दनं कृत्वा क्षामणकं कर्त्तव्यमिति भावः । एष विधि पूर्वं चतुर्दशपूर्वधर- दशपूर्वधरादिकाले आसीत्, सम्प्रति पुनः पूर्वाचार्यैराचीर्णमिदम्-त्रयाणां साधूनां वन्दनकं कर्त्तव्यम्, तत्रैकस्य गुरोर्द्वयोश्च शेषसाध्वोः पर्यायज्येष्ठयोर्देवसिके उपलक्षणत्वाद् रात्रिके चावश्यकेऽयं विधिरवगन्तव्यः । पाक्षिके तुपञ्च साधवो वन्दित्वा क्षमयितव्याः, चतुमासिए संवत्सरे य सत्त अवस्सं ति ॥ आह-किमत्र कारणं मौलं विधिमुल्लङ्घय पूर्वसूरय इत्थमभिनवां सामाचारी स्थापयन्ति ? इति उच्यते
[ भा. ४४९८ ] धिइ- संघयणादीनं, मेराहानिं च जाणिउं थेरा । सेह-अगीतट्ठा वि य, ठवणा आइन्नकप्पस्स ॥
वृ- धृतिः - मानसावष्टम्भरूपा संहननं वज्रऋषभनाराचादि तयोः आदिशब्दाद् द्रव्यक्षेत्रकालादीनां च या परिहानिर्या च मर्यादायाः - सिद्धान्ताभिहितनिरपवादसामाचारीरूपाया हानिस्तां ज्ञात्वा पूर्वसूरय ऐदंयुगीनसाधुजनोचितस्याचीर्णकल्पस्य स्थापनां कुर्वन्ति । किमर्थम् ? इत्याह-शैक्षाणामगीतार्थानां चानुग्रहार्थम् मा भूदमीषां बहुतरसाधून वन्दित्वा क्षमयतां विशिष्टधृतिसहननादिबलाभावात् परिभग्नानां विपरिणाम इति ॥ अथाचीर्णस्यैव लक्षणमाहअसढेन समाइन्नं, जं कत्थइ कारणे असावज्जं । न निवारियमन्नेहि य, बहुमनुमयमेतमाइन्नं ॥
[भा. ४४९९]
वृ- 'अशठेन' राग-द्वेषरहितेन कालिकाचार्यादिवत् प्रमाणस्थेन सता 'समाचीर्णम्' आचरितं यद् भाद्रपदशुद्धचतुर्थीपर्युषणापर्ववत् 'कुत्रचिद्' द्रव्य-क्षेत्र कालादी 'कारणे' पुष्टालम्बने 'असावद्य' प्रकृत्या मूलोत्तरगुणाराधनाया अबाधकम्, 'न च' नैव निवारितम् 'अन्यैः' तथाविधैरेव तत्कालवर्तिभिर्गीतार्थे, अपि तु बहु यथा भवति एवमनुमतमेतदाचीर्णमुच्यते ॥ अथ ये आचार्यस्यापि पर्यायज्येष्ठास्तैः किमाचार्यस्य वन्दनकं कर्त्तव्यम् ? उतन ? इति अत्रोच्यते
२२
[भा. ४५०० ] वियडण पञ्चक्खाणे, सुए य रादीनिगा वि हु करिंति । मज्झिल्ले न करिंती, सो चेव करेइ तेसिं तु ।
वृ-विकटनम् - आलोचनं प्रत्याख्यानं प्रतीतं तयोः तथा श्रुते च उद्दिश्यमान-समुद्दिश्यमानादौ 'रालिका अपि' ज्येष्ठार्या अप्युपसम्पदं प्रतिपन्ना अवमरानिकस्याचार्यस्य वन्दनकं कुर्वन्ति । यत्तु मध्यमं क्षामणकवन्दनं तन्न कुर्वन्ति, किन्तु स एवाचार्यस्तेषां रानिकानां करोति ॥ अथ यदुक्तम् 'तिस्रः स्तुतयो दातव्याः' इति तत्र विधिमाह
[भा. ४५०१ ] थुइमंगलम्मि गणिणा, उच्चारिते सेसगा थुती बेंति । पम्हुट्ठमेरसारण, विनयो य न फेडितो एवं ॥
वृ- पाक्षिकादिषु यद्यप्याचार्योऽवमरालिकस्तथापि सएवावश्यके समापिते प्रथमतस्तिस्रः स्तुतीर्ददाति, दैवसिक-रात्रिकयोरपि प्रथममाचार्येण स्तुतिमङ्गलं प्रारम्भणीयम्, ततः शेषः । अत एवाह-स्तुतिमङ्गले 'गणिना' आचार्येणोच्चारिते सति शेषाः साधवः स्तुतीब्रुवते, ददतीत्यर्थः, दत्त्वा च गुरुपादमूल एव कियन्तमपि कालं तिष्ठन्ति । किमर्थम् ? इति चेद् अत आह-काचिद् मर्यादा- सामाचारी “पम्हुट्ठा” विस्मृता भवेत् तस्याः स्मारणं गुरवः कुर्वीरन् । परमोपकारिणश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org