________________
उद्देशकः ३, मूलं-९७, [भा.४४९१]
वृ-वन्दनकं ददत् ‘करमिव' राजदेयभागमिव मन्यते, आर्हतोऽयं कर इति । गृहीतवरताश्च वयं लौकिककराद् मुक्तास्तावन्न मुच्यामहे वन्दनकरस्यार्तस्येति ।। सप्तविंशं दोषमाह[भा.४४९२] आलिट्ठमनालिट्टे, रयहर सीसे य होति चउभंगो।
वयण-करणेहि ऊणं, जहन्नकाले सेसेहिं॥ वृ-आश्लिष्टमनाश्लिष्टं चेति पदद्वयमाश्रित्य रजोहरण-शिरसोर्विषये चतुर्भङ्गिका भवति, सा च "अहोकायंकाय" इत्याद्यावर्त्तकाले सम्भवति-रजोहरणं कराभ्यामाश्लिष्यतिशिरश्चेत्येकः, रजोहरणं श्लिष्यति नशिर इति द्वितीयः, शिरः श्लिष्यतिन रजोहरणमिति तृतीयः, नरजोहरणं नशिरश्चश्लिष्यति इतिचतुर्थो भङ्ग इति।अत्राद्यो भङ्गः शुद्धः,शेषभङ्गत्रयेआश्लिष्टानाश्लिष्टदोषदुष्टं प्रकृतवन्दनमवतरति।अष्टाविंशंदोषमाह-वचनैः-आलापकैः करमैर्वा-अवनामादिभिरावश्यकैः 'न्यून' हीनं यद्वन्दते, यद्वा कश्चदत्युत्सुकतया 'जघन्येनैव' स्वल्पेनैव कालेन वन्दनं समापयति शेषैर्वा साधुभिर्वन्दिते सति पश्चाद्वन्दते तद् न्यूनं नाम वन्दनकम्॥एकोनत्रिशंत्रिशंच दोषमाह[भा.४४९३] दाऊण वंदनं मत्थएण वंदामि चूलिया एसा।
तुसिणी आवत्ते पुन, कुणमाणो होइ मूयं तु॥ वृ-यद् वन्दनकं दत्त्वा पश्चाद् महता शब्देन "मस्तकेन वन्दे" इति ब्रूते एषा उत्तरचूलिका मन्तव्या। यत् 'तूष्णीकतया' मौनेन आवर्तान्द्वादशापि कुर्वाणोवन्दतेतद्मूकवन्दनकंभवति।।
एकत्रिंशं द्वात्रिंशं च दोषमाह[भा.४४९४] उच्चसरेणं वंदइ, ढड्डर एयं तु होइ बोधव्वं ।
चुडुलि व्व गिण्हिऊणं, रयहरणं होइ चुडुलीओ। वृ-'उच्चस्वरेण' महताशब्देन वनद्नकसूत्रमुच्चारयन्यद्वन्दते तदेतद्ढड्डरमितिबोद्धव्यम्। चुडली नाम-उल्का तामिव पर्यन्ते गृहीत्वा रजोहरणं भ्रामयन् यद् वन्दते स चुड्डलिका नाम द्वात्रिंशो दोष इति ॥ साम्प्रतमेतेष्वेव प्रायश्चित्तमाह[भा.४४९५] थद्धे गारव तेनिय, हीलिय रुट्ठ लहुगा सढे गुरुगो।
दुट्ठ पडिनीय तज्जित, गुरुगा सेसेसु लहुगोतु॥ - कृस्तब्ध-गौरव-स्तेनित-हीलित-रुष्टेषु प्रत्येकचतुर्लघवः । शठे मायादोषप्रत्ययंमासगुरुकम्। दुष्ट-प्रत्यनीक-तर्जितेषुचत्वारो गुरुकाः। शेषेषु अनाप्त-प्रविद्ध-परिपिण्डितादिषुत्रयोविंशतौ दोषेषु प्रत्येकमसमाचारीनिष्पनं मासलघु ।। अथ कृतिकर्मकरणविधिमाह[भा.४४९६] आयरिय-उवज्झाए, काऊणं सेसगाण कायव्वं ।
उप्परिवाडी मासिग, मदरहिए तिन्निय थुतीओ॥ वृ-प्रतिक्रमणसूत्राकर्षणानन्तरमाचार्योपाध्याययोः प्रथमं कृतिकर्म कृत्वा ततः शेषसाधूनां यथारनाधिकक्रमं कर्तव्यम्। अथोत्परिपाट्या वन्दतेततोलघुमासिकम्।तेनापि चाचार्यादिना मदरहितेन वन्दनकं प्रतीच्छनीयम् । प्रतिक्रमणे च समापिते तिम्रः स्तुतयः स्वरेण च्छन्दसा च प्रवर्धमानादातव्याः॥आह-शेषसाधूनां किं सर्वेषामपि वन्दनं विधेयम् ? उतन? इतिअत्रोच्यते[भा.४४९७] जा दुचरिमोत्ति ता होइ वंदनं तीरिए पडिक्कमणे।
आइन्नं पुन तिण्हं, गुरुस्स दुण्हं च देवसिए॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org