________________
बृहत्कल्प - छेदसूत्रम् - ३-३/९७
गूहयति, कस्मात् ? इत्याह- " ओभावना मा मे "त्ति असावप्यतिविद्वान् किमन्येषां वन्दनकं प्रयच्छति ? इत्येवम्भूताऽपभ्राजना मम मा भूदिति ॥ सप्तदशं दोषमाहआहारस्स उ काले, नीहारुभयो य होइ पडिनीयं । रोसेण धमधमेंतो, जं वंदति रुट्ठमेयं तु ॥
[ भा. ४४८६ ]
२०
वृ- आहारस्य नीहारस्य वा 'उभयस्य' मूत्र- पुरीषलक्षणस्य काले यत्र वन्दते तत् प्रत्यनीकम् । अष्टादशं दोषमाह - 'रोषेण' स्वविकल्पजनितेन क्रोधेन ‘धमद्धमन्' जाज्वल्यमानो यद् वन्दते तद् रुष्टं वन्दनकमिति ॥ एकोनविंशं दोषमाह
[ भा. ४४८७] न वि कुप्पसि न पसीयसि, कट्ठसिवो चैव तज्जियं एयं । सीसंगुलिमादीहि व, तज्ज्ञेति गुरुं पणिवयंतो ।।
वृ- काष्ठघटितशिवदेवताविशेष इवावन्द्यमानो न कुप्यसि, तथा वन्द्यमानोऽप्यविशेषज्ञतया न प्रसीदसीत्येवं तर्जयन्-निर्भर्त्सयन् यत्र वन्दते तत् तर्जितम् । यदि वा 'मेलापकमध्ये वन्दनकं मां दापयँस्तिष्ठस्याचार्य ! परं ज्ञास्यते तवैकाकिनः' इत्यभिप्रायवान् यदा शीर्षेण अङ्गुल्या वाप्रदेशिनीलक्षणया गुरुं 'प्रणिपतन् ' वन्दमानस्तर्जयति तद् वा तर्जितम् ॥ विंशतितमं दोषमाह[भा. ४४८९] वीसंभट्ठाणमिणं, सब्भावजढे सढं हवइ एतं । कवडं ति कययवं तिय, सढया वि य होंति एगट्ठा ॥
वृ-विश्रम्भः-विश्वासस्तस्य स्थानमिदं वन्दनकम्, एतस्मिन् यथावद् दीयमाने श्रावकादयो विश्वसन्तीत्यभिप्रायेणैव 'सद्भावरहिते' अन्तर्वासनाशून्ये वन्दमाने शिष्ये शठमेतद् वन्दकं भवति । शठशब्दमेव पर्यायशब्दैव्यार्चष्ट-कपटमिति वा कैतवमिति वा शठताऽपि वा इति एकार्था शब्दा भवन्ति ।। एकविंशं दोषमाह
[भा. ४४८९ ] गणि ! वायग ! जिट्ठज्ज!, त्ति हीलियं किं तुमे पणमितेन । देसी कहवित्तंते, कधेति दरवंदिए कुंची ॥
वृ-गणिन् ! वाचक ! ज्येष्ठार्य ! किं त्वया वन्दितेन ? इत्यादि सोव्यासं हीलयित्वा यत्र वन्दते तद् हीलितवन्दनकम् । द्वाविंशं दोषमाह - 'दरवन्दिते' अर्धवन्दनके दत्ते सति देशीकथावृत्तान्तान् यत्र करोति तद् विपरिकुञ्चितम् ।। दृष्टादृष्टदोषं शृङ्गदोषं चाह
[भा. ४४९० ]
अंतरितो तमसे वा, न वंदती वंदती उ दीसंतो ।
एयं दिट्ठमदि, सिंगं पुन कुंभगणिवातो ॥
वृ- बहुषु वन्दमानेषु साध्वादिना केनचिदन्तरितः 'तमसि वा' सान्धकारप्रदेशे व्यवस्थितो मौनं विधाय उपविश्य वाऽऽस्ते न तु वन्दते, ६श्यमानस्तु वन्दते यत्र तद् दृष्टादृष्टवन्दनकम् । तथा कुम्भशब्देनेह लाटमुच्यते, तस्य वम-दक्षिणपार्श्वयोर्यो निपातः हस्ताभ्यां स्पर्शनं तद्युक्तं वन्दनकं शृङ्गमुच्यते । एतदुक्तं भवति- 'अहोकायं” इत्याद्यावर्त्तान् कुर्वन् कराभ्यां न ललाटस्य मध्यदेशं स्पृशति किन्तु वामपार्श्व दक्षिणपार्श्व वा स्पृशतीति ।।
गाथापूर्वार्धन करलक्षणं पश्चार्धेन तु मोचनलक्षणं दोषमाह[ भा. ४४९१]
Jain Education International
करमिव भन्नइ दिंतो, वंदनगं आरहंतिय करु त्ति । लोइयकरस्स मुक्का, नमुच्चिमो वंदनकरस्स ॥
For Private & Personal Use Only
www.jainelibrary.org