________________
१९
उद्देशक : ३, मूलं-९७, [भा. ४४८१] यदा तस्यैव शिष्यस्य सम्बन्धिनः सुह्वदादेः सम्मुखं सूरिणा किमप्यप्रियमुक्तं भवतीति । एवंप्रकारैरन्यैरपि स्व-परप्रत्ययैः कारणान्तरैनिसः प्रद्वेषो भवति यत्र तद् मनसा प्रदुष्टमुच्यते। दशमं दोषमाह-"पंचेव वेइयाउ"त्ति जानुनोरुपरि हस्तौ निवेश्याधो वा पार्श्वयोर्वा उत्सङ्गे वा एकंवा जानुं दक्षिणं वामं वाकरद्वयान्तः कृत्वा वन्दनकंयत्र करोति तद्वेदिकाबद्धम्। एकादशं दोषमाह-“भयंतु नितहणाईयं" ति नि!हणं-गच्छान्निष्काशनं तदादिकंय भयं तेन यत्र वन्दते तद् भयवन्दनकम् ॥ द्वादशं दोषमाह[भा.४४८२] भयति भयस्सति व ममं, इइ वंदति ण्होरगं निवेसंतो।
एमेव य मेत्तीए, गारव सिक्खाविनीतोऽहं ।। वृ-‘स्मर्त्तव्यं भो आचार्य! भवन्तं वन्दमाना वयं तिष्ठामः' इत्येवं निहोरकं निवेसयन् वदन्ते। किमिति? इत्याह-एष तावद् ‘भजते' अनुवर्तयति माम्, सेवायां पतितो मे वर्तत इत्यर्थ, अग्रे वामम भजनं करिष्यत्यसौ, ततश्चाहमपिवन्दनकसत्कं निहोरकं निवेशयामीत्यभिप्रायवान् यत्र वन्दते तथा मैत्र्याऽपि हेतुभूतया कश्चिद् द्वन्दते, आचार्येण समं मैत्री मम भविष्यतीत्यर्थ, तदिदं मैत्रीवन्दनकम्।चतुर्दशंदोषमाह-"गारव"त्तिसूचामात्रत्वाद् गर्ववन्दनकमितिप्रत्येयम्।कथम्भूतं तत्? इत्याह-“सिक्खाविणीओहं"तिशिक्षा-वन्दनकप्रदानादिसामाचारीविषया तस्यां विनीतःकुशलोऽहमित्यवगच्छन्त्वमी शेषसाध्वादय इत्यभिप्रायवान् 'यथावद्' आवर्ताधाराधयन् यत्र वन्दत इति । पञ्चदशं दोषमाह[भा.४४८३] नाणाइतिगंमुत्तुं, कारणमिहलोगसाहगंहोइ।
. पूया-गारवहेउं, नाणग्गहणे विएमेव ॥ वृ-ज्ञान-दर्शन-चारित्रत्रयंमुक्त्वा यत् किमप्यन्यद् ‘इहलोकसाधकं वस्त्रादिकंवन्दनकदानात् साधुरभिलषति तत् कारणं भवतीति प्रतिपत्तव्यम् । ननु ज्ञानादिग्रहणार्थं यदा वन्दते तदा किमेकान्तेनैव कारणंनभवति? इत्याशङ्कयाह-यदिपूजार्थंगौरवार्थंवा वन्दनकंदत्त्वा विनयपूर्वकं ज्ञानं श्रुतंगृह्णाति, येनलोके पूज्योऽन्येभ्यश्च श्रुतधरेभ्योऽधिकतरोभवामीतितदातदपि एवमेव' कारणवन्दनकं भवतीति ॥ तत्र किमभिप्रायवत् इहलोकसाधकं कारणं भवति? इत्याह[भा.४४८४] आयरतरेण हंदि, वंदामिणं तेन पच्छ पणयिस्सं।
वंदनग मोल्लभावो, न कारस्सइ मे पणयभंगं॥ वृ- 'हन्दि' इतीहलोकसाधककारणोपप्रदर्शने।अतिशयादरेण 'वन्दे' प्रणमामि “ण” मिति एनमाचार्यम्, 'तेन च वन्दनकप्रदानेन हेतुभूतेन पश्चादमुकिञ्चिद्वस्त्रदि प्रणयिष्ये' याचिष्ये, नचासौ मम 'प्रणयभङ्गं प्रार्थनाभङ्ग करिष्यति। कथम्भूतः सन् ? इत्याह-वन्दनकमेव मूल्यं तत्र भावः-अभिप्रायो यस्य सूरेः स तथाभूतः, वन्दनकमूल्यवशीकृत इत्यर्थः, इत्यभिप्रायवतः कारणवन्दनकं भवतीति ॥षोडशं दोषमाह[भा.४४८५] हाउं परस्स चक्, वंदंते तेणियं हवइ एतं।
तेनो इव अत्ताणं, गूहइ ओभावणा मा मे ।। वृ-'हापयित्वा' वञ्चयित्वा 'परस्य' साधु-श्रावकादेः 'चक्षु' दृष्टिं गुरुं वन्दमानस्य शिष्यस्य स्तैन्यंवन्दनकं भवति। एतदेव स्पष्टतरंव्याचष्टे-'स्तेन इव' तस्कर इवान्यसाध्वाधन्तर्धानेनात्मानं Jain Education International
For Private & Personal Use Only
www.jainelibrary.org