SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १८ बृहत्कल्प-छेदसूत्रम् -३-३/९७ क इव यथा किमुज्झति? इत्याह-“कयकिच्चो वक्खरंचेव"त्ति, एतदुक्तं भवति-यथा केनचिद् भाटिकेन कुतश्चिद् नगराद् नगरान्तरे 'वक्खरं' भाण्डमुपनीतम् । वक्खरस्वामिना च भाटिकोऽभिहितः-प्रतीक्षस्व कञ्चित् कालं यावदस्य वक्खरस्यावतारणस्थानं किञ्चिदन्वेषयामि। स प्राह-‘मयाऽस्मिन्नेव नगरे समानेतव्यमिदमित्येवोक्तम्, अतः कृतकृत्यत्वाद् नातः परं प्रतीक्षेऽहम्' इत्युक्त्वाऽस्थान एव तद्भाण्डमुज्झित्वा गच्छति। एवंसाधुरप्यस्थान एववन्दनकं परित्यज्य नश्यतीत्येतावता दृष्टान्त इति ॥ चतुर्थ दोषमाह[भा.४४७८] परिपिंडिए व वंदइ, परिपिंडियवयण-करणओ वा वि। टोलो व्व उप्फिडतो, ओसक्क-ऽहिसक्कणं दुहओ। वृ-यत्र परिपिण्डितान्' एकत्र मिलितानाचार्यादीनेकवन्दनकेनैव वन्दते न पृथक् पृथक् तत् परिपिण्डितमुच्यते; अथवा वचनानि-सूत्रोच्चारणगर्भाणि, करणानि-कर-चरणादीनि, परिपिण्डितानि-अव्यवच्छिन्नानि वचन-करणानि यस्य स तथा, ऊर्वोरुपरि हस्तो व्यवस्थाप्य सम्पिण्डितकर-चरणोऽव्यक्तसूत्रोच्चारणपुरः सरंयत्र वन्नदते तद् वा परिपिण्डितमिति भावः । पञ्चमं दोषमाह-उत्ष्वष्कणम्-अग्रतः सरणम् अभिष्वष्कणं-पश्चादपसरणं "दुहओ"त्ति ते द्वे अपि टोलवद् उस्लुत्योत्प्लुत्य करोति यत्र तत् टोलगतिवन्दनकमिति ॥षष्ठं दोषमाह[भा.४४७९] उवगरणे हत्थम्भिव, धित्तु निवेसेति अंकुसं बिंति। ठित-विट्ठरिंगणंजं, तं कच्छभरिंगियं नाम॥ वृ-यत्राशेन गजमिव शिष्य आचार्यमूर्द्धस्थितं शयितं प्रयोजनान्तरव्यग्रं वा 'उपकरणे' चोलपट्ट-कल्पादौ हस्ते वा अवज्ञया समाकृष्य वन्दनकदानार्थमासने उपवेशयति तद् अडशं ब्रुवते । नहि पूज्याः कदाचिदप्युपकरणाद्याकर्षणमर्हन्ति मविनयत्वात्, किन्तु प्रणामं कृत्वा कृताञ्जलिपुटैर्विनयपूर्वकमिदमुच्यते-उपविशन्तु भगवन्तो येन वन्दनकं प्रयच्छामीति; अतो दोषदुष्टमिदम् । सप्तमं दोषमाह-स्थितस्योर्द्धस्थानेन "तित्तीसन्नयराए" इत्यादिसूत्रमुचारयत उपविष्टस्य वा-आसीनस्य "अहो कायंकाय" इत्यादिसूत्रंभणतः कच्छपस्येवजलचरजीवविशेषस्य रिङ्गणम्-अग्रतोऽभिमुखंयत्किञ्चित् चलनंतचत्र करोतिशिष्यस्तदिदं कच्छपरिङ्गितं नामेति॥ अष्टमंदोषमाह[भा.४४८०] उठिंत निवेसंतो, उव्वत्तति मच्छउ व्व जलमज्झे। वंदिउकामो वऽनं, झसो व्व परियत्तती तुरियं ॥ वृ-उत्तिष्ठन् निविशमानो वाजलमध्ये मत्स्य इव 'उद्वर्तते' उद्वेल्लयति यत्रतमत्स्योद्धृत्तम्। अथवा एकमाचार्यादिकंवन्दित्वातत्समीपतत्समीपएवापरंवन्दनाहकञ्चनवन्दितुमिच्छंस्तत्समीपं जिगमिषुरुपविष्ट एव 'झषइव' मत्स्यइवत्वरितमपंपरावर्तयंयत्र गच्छति तद्वामत्स्योद्धृत्तम्।। नवममाह[भा.४४८१] अप्प-परपत्तिएणं, मणप्पदोसो अनेगउट्ठाणो। ___ पंचेव वेइयाओ, भयं तु निजूहणाईयं ॥ वृ-मनःप्रद्वेषः 'अनेकोत्थानः' अनेकनिमित्तो भवति, सचसर्वोऽप्यात्मप्रत्ययेन परप्रत्ययेन वा स्यात् । तत्रात्मप्रत्ययेन यदा शिष्य एव गुरुणा किञ्चित् परुषमभिहितो भवति, परप्रत्ययेन तु www.jainelibrary.org Jain Education International For Private & Personal Use Only www.
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy