________________
३४
बृहत्कल्प - छेदसूत्रम् - ३-३/९७
[भा. ४५४३ ]
याहिं आगमनपहे, उज्जाने देउले सभाए वा । रच्छ उवस्सय बहिया, अंतो जयणा इमा होइ ॥
वृ-यत्र ते ग्राम-नगरादौ तिष्ठन्ति तस्य बहि स्थितो यदा तान् पश्यति तदा निराबाधवार्त्ता गवेषयति । यदा वा ते भिक्षाचर्यादौ तत्रागच्छन्ति तदा तेषामागमनपथे स्थित्वा गवेषणं करोति । एवमुद्याने दृष्टानाम्, चैत्यवन्दनिमित्तं गतैर्देवुले वा समवसरणे वा दृष्टानाम्, रध्यायां वा भिक्षामटतामभिमुखागमन मिलितानां वार्त्ता गवेषणीया । कदाचित् ते पार्श्वस्थादयो ब्रवीरन्अस्माकं प्रतिश्रयं कदाऽपि नागच्छत; ततस्तदनुवृत्त्या तेषां प्रतिश्रयमपिगत्वा तत्रोपाश्रयस्य बहि स्थित्वा सर्वमपि निराबाधतादिकं गवेषयितव्यम् । अथ गाढतरं निर्बन्धं ते कुर्वन्ति तत उपाश्रयस्य 'अन्तः' अभ्यन्तरतोऽपि प्रविश्य गवेषयतां साधूनाम् 'इयं' वक्ष्यमाणा पुरुषविशेषवन्दनविषया यतना भवति । पुरुषविशेषं तावदाह
[भा. ४५४४]
मुक्कधुरा संपागड अक्किच्चे चरण-करणपरिहीने । 'लिंगावसेसमित्ते, जंकीरइ तारिसं वोच्छं ॥
वृधूः संयमधुरा सा मुक्ता - परित्यक्ता येन स मुक्तधुरः, सम्प्रकटानि - प्रवचनोपघातनिरपेक्षतया समस्तजनप्रत्यक्षाणि अकृत्यानि-मूलोत्तरगुणप्रतिसेवनारूपाणि यस्य स सम्प्रकटाकृत्यः, अत एव चरणेन-व्रतादिना करणेन च पिण्डविशुध्यादिना परिहीनः, एताशे 'लिङ्गावशेषमात्रे' केवलद्रव्यलिङ्गयुक्ते 'यद्' याध्शं वन्दनं क्रियते तादृशमहं वक्ष्ये ॥ .
[भा. ४५४५ ] वायाए नमोकारो, हत्थुस्सेहो य सीसनमनं च । संपुच्छणऽच्छणं छोभवंदनं वंदनं वा वि ॥
वृ- बहिरागमनपथादिषु दृष्टस्य पार्श्वस्थादेर्वाचा नमस्कारः क्रियते, 'वन्दामहे भवन्तं वयम्' इत्येवमुच्चार्यत इत्यर्थः । अथासौ विशिष्टतर उग्रतरस्वभावो वा ततो वाचा नमस्कृत्य 'हस्तोत्सेधम्' अञ्जलिं कुर्यात् । ततोऽपि विशिष्टतरेऽत्युग्रस्वभावे वा द्वावपि वाङनमस्कार - हस्तोत्सेधौ कृत्वा तृतीयं शिरः प्रणामं करोति । एवमुत्तरोत्तरविशेषकरणे पुरुष-कार्यभेदः प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या । “संपुच्छणं”ति पुरतः स्थित्वा भक्तिमिव दर्शयता शरीरवार्त्तायाः सम्प्रच्छनं कर्त्तव्यम्, कुशलं भवतां वर्त्तत इति । “अच्छणं ”ति शरीरवार्त्ता प्रश्नयित्वा क्षणमात्रं पर्युपासनम् । अथवा पुरुषविशेषं ज्ञात्वा तदीयं प्रतिश्रयमपि गत्वा छोभवन्दनं सम्पूर्णं वा वन्दनं दातव्यम् ॥
अथ किमर्थं प्रथमतो वाचैव नमस्कारः क्रियते ? कारणाभावे वा किमिति मूलत एव कृतिकर्म न क्रियते ? इत्याशङ्कयाह
[भा. ४५४६] जइ नाम सूइओ मि, त्ति वज्जितो वा वि परिहरति कोयी ।
इति विहु सुहसीलजनो, परिहज्जो अनुमती माय ॥
वृ-यदि नाम कश्चित् पार्श्वस्थादिर्वाङनमस्कारमात्रकणेन अहो ! 'सूचितः' तिरस्कृतोऽहममुना भङ्गयन्तरेणेति, सर्वथा कृतिकर्माकरमेन वा 'वर्जितः' परित्यक्तोऽहममीभिरिति पराभवं मन्यमानः सुखशीलविहारितां परिहरति । "इय" एवंविधमपि कारणमवलम्ब्य परिहार्य कृतिकर्मिण सुखशीलजनः, न केवलं पूर्वोक्तं दोषजालमाश्रित्येत्यपिशब्दार्थः । अपि चतस्य कृतिकर्मणि विधीयमाने तदीयायाः सावद्यक्रियाया अप्यनुमति कृता भवति, अतः सा मा भूदिति बुध्याऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org