________________
उद्देशकः३, मूलं-९७, [भा. ४५४६]
३५
न वन्दनीयोऽसौ । किञ्च[भा.४५४७] लोए वेदे समए, दिट्ठो दंडोअकज्जकारीणं ।
. दम्मति दारुणा विहु, दंडेन जहावराहेन । वृ-'लोके' लोकाचारे 'वेदे समस्तदर्शनिनांसिद्धान्ते समये राजनीतिशास्त्रे 'अकार्यकारिणां' चौरिकाद्यपराधविधायिनां ‘दण्डः'असम्भाष्यता-शलाका-निर्गृहणादिलक्षणः प्रयुज्यमानो दृष्टः। कुतः पुनरसौ प्रयुज्यते? इत्याह-'दारुणाः' रौद्रास्तेऽपि यथापराधेन' अपराधानुरूपेण दण्डेन दीयमानेन ‘दम्यन्ते' वशीक्रियन्ते । अत इहापि मूलगुणाद्यपराधकारिणां कृतिकर्मवर्जनादिको दण्डः प्रयुज्यते । एतच्च कारणाभावमङ्गीकृत्योक्तम्, कारणेतु वाङनमस्कारादिकं वन्दनकपर्यन्तं सर्वमपि कर्तव्यम् ।। यत आह[भा.४५४८] वायाए कम्मुणा वा, तह चिट्ठति जह न होति से मन्नु ।
पस्सति जतो अवायं, तदभावे दूरतो वजे ॥ वृ-'यतः' पार्श्वस्थादेः सकाशाद्कृतिकर्मण्यविधीयमाने अपायं संयमा-ऽऽत्मविराधनादिकं पश्यति तंप्रति 'वाचा' मधुरसम्भाषणादिना 'कर्मणा' शिरःप्रणामक्रिययातथा चेष्टते यथा तस्य 'मन्यु' स्वल्पमप्यप्रीतिकं न भवति। अथावन्दनेऽपि संयमोपघातादिरपायो न भवति ततस्तस्यअपायस्याभावेदूरतस्तंसुखशीलजनं वर्जयेत्, एष विषयविभागः कृतिकर्मकरणाऽकरणयोरिति भावः॥ [भा.४५४९] एताइं अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे।
न भवति पवयणभत्ती, अभत्तिमंतादिया दोसा ।। वृ-'एतानि' वाङ्नमस्कारादीनि पार्श्वस्थादीनां यथाऽर्ह' यथायोग्यमहद्दशिते मार्गे स्थितः सन् कषायोत्कटतयायो न करोति तेन प्रवचने भक्ति कृतान भवति, किन्तु अभक्तिमत्त्वादयो दोषाभवन्ति; तत्राऽऽज्ञाभङ्गेन भगवतामभक्तिमत्त्वं भवति, आदिशब्दात्स्वार्थपरिभ्रंशःचारिकहेरिकाद्यभ्याख्यानप्राप्ति बन्धनादयश्च दोषा भवन्ति ॥कानिपुनस्तेषांवन्दने कारणानि? इत्याह[भा.४५५०] परिवार परिस पुरिसं, खित्तं कालंच आगमं नाउं ।
. कारणजाते जाते, जहारिहं जस्स कायव्वं ।। वृ-परिवार पर्षदं पुरुष क्षेत्रं कालं च आगमंज्ञात्वा तथा कारणानि-कुल-गणादिप्रयोजनानि तेषां जातं-प्रकारः कारणजातं तत्र 'जाते' उत्पन्ने सति 'यथार्ह' यस्य पुरुषस्य यद् वाचिकं कायिकं वा वन्दनमनुकूलं तस्य तत् कर्त्तव्यम् ।। अथ परिवारादीनि पदानि व्याचष्टे[भा.४५५१] परिवारो से सुविहितो, परिसगतो साहती व वेरगं।
मानी दारुणभावो, निसंसं पुरिसाधमों पुरिसो॥ वृ-"से" तस्य पार्श्वस्थादेर्य परिवारः सः 'सुविहितः' विहितानुष्ठानयुक्तो वर्त्तते । 'पर्षदि गतो वा' सभायामुपविष्टः 'वैराग्यम्' इति कारणे कार्योपचारात् संसारवैराग्यजनकं धर्मं स कथयतियेनप्रभूताःप्राणिनः संसारविरक्तचेतसः सञ्जायन्ते।तथा कश्चित्पार्श्वस्थादिस्वभावादेव 'मानी' साहङ्कारः तथा 'दारुणभावः' रौद्राध्यवसायः 'नृशंसो नाम' क्रूरकर्मा अवन्धमानो वधबन्धादिकं कारयतीत्यर्थः, अतएव पुरुषाणांमध्येऽधमः पुरुषाधमः एताशः पुरुषइह गृह्यते।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org