________________
बृहत्कल्प-छेदसूत्रम् - ३-३/१०१
सा चैतेषु त्रिषु पदेषु, तद्यथा- पुरुषे गृहे संस्तारके च । एतेषु एका-ऽनेकपदाभ्यामथै भङ्गाः, यथा - एकेन साधुना एकस्माद् गृहाद् एकः संस्तारकः आनीतः १ एकेनैकस्मादनेके २ एकेनानेकेभ्यो गृहेभ्य एकः ३ एकेनानेकेभ्यो गृहेभ्योऽनेके संस्तारका आनीताः ४; एवमेकेन साधुना चत्वारो भङ्गा लब्धाः, अनेकैरपि साधुभिरेवमेव चत्वारो भङ्गा लभ्यन्ते, सर्वसङ्घययैतेऽष्ट भङ्गाः ॥
४८
[भा. ४६०६ ] आनयने जा भयणा, सा भयणा होति अप्पिनंते वि । वोच्चत्थ मायसहिए, दोसा य अनप्पिणंतम्मि ।।
वृ-संस्तारकस्यानयने या 'भजना' अष्टभङ्गी भणिता सैव भजना संस्तारकमर्पयतोऽपि भवति, यथैवानीतस्तथैव प्रत्यर्पयितव्य इति भावः । अथ विपर्यस्तं प्रत्यर्पयति मायां वा करोति न वा सर्वथैवार्पयति ततो विपर्यस्ते मायासहितेऽनर्पयति च दोषा व्यवच्छेदादयो भवन्ति । तत्र ये आद्याश्चत्वारो भङ्गास्तेषु यथैव ग्रहणं तथैवार्पयन्ति । पञ्चमभङ्गे ग्रहणकाले 'अस्माकमन्यतरः समर्पयिष्यति' इत्येष विधिर्न विहितस्ततो यद्येकः प्रत्यर्पयति तदा विपर्यस्तं भवति । षष्ठभङ्गे एकः साधुः प्रत्यर्पयितुं प्रस्थितः अपरश्चिन्तयति 'मदीय अपि तृणकम्बिकास्तत्रैव नेतव्या' इति कृत्वा तदीयानां तृणादीनां मध्ये प्रक्षिपति, एषा माया भण्यते । सप्तमे भङ्गे तृतीयभङ्गे वा कम्बिकास्तृणानि वा एकस्मिन् गृहेऽर्पयतोऽनर्पणं भवति । यत एते दोषास्तस्मात् पृथक् पृथक् सर्वैरपि प्रत्यर्पणीयाः । कारणे पुनर्विपरीतमर्पयति न वा अर्पयति ।। तदेव कारणमाह
[भा. ४६०७ ] बिइयपय झामिते वा, देसुट्ठाणे व बोधिकभए वा । अद्धाणसीस वा, सत्थो व पधावितो तुरियं ॥
वृ- द्वितीयपदे संस्तारको ध्यामितो भवेत्, देशोत्थान वा संस्तारकस्वामी कुत्रापि गत इति न ज्ञायते, बोधिकभये संस्तारकस्वामीसाधवो वा नष्टाः, अध्वशीर्षके वा सार्थस्त्वरितं प्रधावितो यावत् संस्तारकं प्रत्यर्पयति तावत् सार्थो दूरं गच्छति अपरश्च सार्थो दुर्लभः ॥ [भा. ४६०८] तेहि कारणेहिं, वच्चंते को वि तस्स उ निवेदे ।
अप्पाहंति व सागारियाइ असदऽन्नसाहूणं ॥
वृ- एतैः कारणैर्न प्रत्यर्पयेयुः - अध्वशीर्षके च त्वरितं व्रजतामेकः कोऽपि साधुर्गत्वा तस्य संस्तारकस्वामिनो निवेदयति-सार्थस्त्वरितं प्रधावितस्ततो नास्माभि प्रत्यर्पितः, यूयं पुनस्तं संस्तारकमानयध्वम् । अन्यसाधूनां वा निवेदयन्ति - अमुकस्मिन् कुले संस्तारकः प्रत्यर्पणीयः । अन्यसाधूनाम् 'असति' अभावे सागारिकादीन् "अप्पाहन्ति” सन्दिशन्ति - एष संस्तारकोऽमुकस्यार्पणीयः । एष तृणकम्बिकासु विधिरुक्तः ॥
[ भा. ४६०९ ] एसेव गमो नियमा, फलएसु वि होइ आनुपुव्वीए । चउरो लहुगा माई, य नत्थि एयं तु नाणत्तं ॥
वृ- एष एव गमो नियमात् फलकेष्वप्यानुपूर्व्या वक्तव्यो भवति । नवरम्-प्रायश्चित्ते विशेषः । फलकमयस्य संस्तारकस्याप्रत्यर्पणे चतुर्लघुकाः । मायी च नास्ति, यथा तृणेषु कम्बिकासु वा अपरास्तृणकम्बिकाः प्रक्षिप्यन्ते तथा फलकानां नास्ति प्रक्षेप इति भावः । एतद् नानात्वमत्र मन्तव्यम् ॥
मू. (१०२) नो कप्पइ निग्गंथाण वा निग्गंधीण वा सागारियसंतियं सेज्जासंथारयं आयाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org