________________
उद्देशक : ३, मूलं-१०१, [भा. ४६००]
४७ वृ-संस्तारकस्वामिना श्रुतम्-संस्तारकमनर्पयित्वा गतास्ते संयताः; एवं श्रुत्वा यदि प्रीतिकं करोति-'अनर्पितेऽप्यनुग्रह एवास्माकम् इति ततश्चतुर्लघवः । अथाप्रीतिकं करोति-मदीयानि तृणानि हारितानि विनाशितानि वा इति तदा चतुर्गुरवः । यच्च तद्र्व्यस्यान्यद्रव्यस्य वा व्यवच्छेदस्तदाऽपिचतुर्गुरुकम्।अथवा तस्मिन् संस्तारकेशून्ये “कप्पट्ट"त्ति बालकानिखेलन्ते ततो मासलघु, अथान्यत्र तं नयन्ति ततश्चतुर्लघु, अथाग्नौ प्रक्षिप्य दहन्ति चतुर्लघवः, दह्यमाने च तस्मिन्नन्येषांप्राणजातीयानां विराधना भवेत्तन्निष्पन्नंप्रायश्चित्तम्॥अथाप्रीतिकपदं व्याचष्टे[भा.४६०१] दिज्जंते वि तयाऽनिच्छितूण अप्पेमु भेत्ति नेतूणं ।
कयकज्जा जनभोगं, काऊण कहिं गया भच्छा। ई-ग्रहणकाले निर्देजमपि दीयमानंतदानीं नेच्छन्ति स्म। अनिष्यच' अनभिकाङ्क्षयमासकल्पे पूर्णे “भे" भवतामर्पयिष्याम इति भणनपूर्वकं नीत्वा साम्प्रतं 'कृतकार्या' विहितात्मप्रयोजनाः शून्ये जनभोग्यं कृत्वा कुत्र ग्रामेनगरे वा गताः? । “भच्छे"ति नैपातिकं पदं कुत्सायां वर्तते, क पुनस्ते दुईष्टधर्माणो गताः ? इत्यर्थः ।। अथ “कप्पट्ट खेल्लणे" इत्यादि विवृणोति[भा.४६०२] कप्पट्ठ खेल्लण तुअट्टणे य लहुगो य होति गुरुगोय।
इत्थी-पुरिसतुयट्टे, लहुगा गुरुगा अनायारे॥ वृ-तत्र संस्तारके कल्पस्थकानि खेलन्ते लघुको मासः । अथ तान्येव त्वग्वर्त्तयन्ति गुरुको मासः । अथ महती स्त्री महान् पुरुषो वा त्वग्वर्तयति चतुर्लघु । अथैतावनाचारमाचरतस्तदा चतुर्गुरुकाः॥ [भा.४६०३] वोच्छेदे लगु-गुरुगा, नयने डहणे य दोसु वी लहुगा ॥
विहनिग्गयादऽलंभे, जंपावे सयं व तु नियत्ता ॥ -तस्यैवैकस्य साधोः तस्यैव चैकस्यद्रव्यस्य व्यवच्छेदे चतुर्लघु ।अनेकेषांसाधूनामन्यद्रव्याणां चव्यवच्छेदे चतुर्गुरु ।संस्तारकस्य कल्पस्थकैरन्यत्र नयेन दहनेच द्वयोरपिचतुर्लघवः । व्यवच्छेदकरणाच्च संस्तारकादेरलाभे विहम्-अधवा तनिर्गतादयो यत् परितापनादि प्राप्नुवन्ति स्वयं वा निवृत्तास्तत्र प्राप्ताः संस्तारकादिकमलभमानायां विराधनामासादयन्ति तन्निष्पन्न प्रायश्चित्तम्॥ [भा.४६०४] माइस्स होति गुरुगो, जति एक्कतो भागऽनप्पिए दोसा।
अह होति अनमन्ने, तेचेव य अप्पिणणे सुद्धो॥ कृ-'मायिनः' मायावतो गुरुको मासो भवति।कथं पुनर्मायां करोति? इत्याह-यदि अकतः' एकस्माद् गृहादनेकैः साधुभिरनेके संस्तारका आनीतास्तदा “भाग"त्ति प्रत्यर्पणकाले तेषु पृथग्भागीकृतेषु य आत्मीयं भागं 'तत्रैव गृहे नेतव्यः' इति कृत्वा तेषां मध्ये प्रक्षिपति नात्मना तत्र नयति एष मायी भण्यते । अस्य च येऽनर्पिते संस्तारके दोषाः ते सर्वेऽपि मन्तव्याः । अथान्यान्येभ्यो गृहेभ्य आनीताः संस्तारका भवन्ति तदापि मायाकरणे त एव दोषाः । तस्माद् यतो गृहादानीतस्तत्र विधिना प्रत्यर्पणे शुद्ध इति सङ्ग्रहगाथासमासार्थः॥अथैनामेव विवृणोति[भा.४६०५] संथारेगमनेगे, भयणऽढविहा उ होइ कायव्वा ।
___ पुरिसे घर संथारे, एगमनेगे तिसु पतेसु॥ कृसंस्तारके गृह्यमाणे एका-ऽनेकपदाभ्यामष्टविधा भजना कर्त्तव्या भवति, अष्टौ भङ्गा इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org