________________
६८
बृहत्कल्प-छेदसूत्रम् - ३-३/१०४
खित्तबहिं तु परिणयं लभतुज्जु कही न खलु मादी ॥
वृ- अथासौ ‘कथकः' धर्मकथी ऋजुकः सद्भावतः कथयति नाकर्षणहेतोः, स च प्रव्रज्यायां परिणतः ततः क्षेत्रान्तः परिणतं क्षेत्रिको लभते, क्षेत्रबहिः परिणतं तु ऋजुतो धर्मकथी लभते न खलु 'मायी' मायावान् ॥
[ भा. ४७०५ ] परिणमइ अंतरा अंतरा य भावो नियत्तति ततो से । खित्तम्मि खेत्तियस्सा, बाहिं तु परिणतो तस्स ।।
वृ- अथान्तराऽन्तरा तस्य भावः प्रव्रज्यां प्रति परिणमते निवर्त्तते वा ततः क्षेत्रे परिणतः क्षेत्रकस्याभवति बहिस्तु परिणतः 'तस्य' धर्मकथिन आभवतीति ।। गतम् 'अतिक्रामन्' द्वारम् । अथ "द्विविधा मार्गणा शिष्ये एकविधा च प्रतीच्छके" इति यदुक्तं तत्र प्रतीच्छकविषयां तावदेकविधां केवलसज्ञातकविषयां मार्गणामाह
[भा. ४७०६ ] माया पिया व भाया, भगिनी पुत्तो तहेव धूता य । छप्पेते नालबद्धा, सेसे पभवंति आयरिया ।।
वृ- माता पिता भ्राता भगिनी पुत्रस्तथैव दुहिता च, षडप्येतेऽनन्तरवल्लीमधिकृत्य नालबद्धा मन्तव्याः । एते चाभिधारयन्तः प्रतीच्छकस्याभवन्ति । उपलक्षणमिदम्, तेन परम्परावल्लीबद्धा अपि वक्ष्यमाणाः षोडश जना अभिधारयन्तस्तस्यैवाभवन्ति । शेषास्तु-ये नालबद्धा न भवन्ति तेषु आचार्या प्रभवन्ति, न प्रतीच्छकः । इदमेव व्यक्तीकुर्वन् परम्परावल्लीं प्रतिपादयति[ भा. ४७०७ ] माउम्माया य पिया, भाया भगिनी य एव पिउणो वि । भातादिपुत्त-धूता, सोलसगं छच्च बावीसं ॥
[भा. ४७०८] बावीस लभति एए, पडिच्छओ जति य तमभिधारंती । अभिधारमनभिधारे, नायमनातेतरे न लभे ॥
वृ-मातुः सम्बन्धिनो माता पिता भ्राता भगिनी चेति चत्वारो जनाः ४, पितुः सम्बन्धिनोऽप्येवमेव चत्वारो जनाः ८, “भायाइपुत्त-धूय "त्ति भ्रातुः सम्बन्धी पुत्रो दुहिता चेति जनद्वयम् १०, आदिशब्दाद् भगिन्या अप्यपत्यं भागिनेयो भागिनेयी चेति द्वयम् १२, पुत्रस्यापत्यं पौत्रः पौत्री चेति द्वयम् १४, दुहितुरपत्यं दौहित्रो दौहित्री चेति द्वयम् १६, सर्वसङ्घयया षोडशकं भवति । षट् चाऽनन्तरवल्लीजना अत्र प्रक्षिप्यन्ते, ततो द्वाविंशतिर्भवति ।। द्वाविंशतिमप्येतान् जनान् प्रतीच्छको लभते यदि च 'तं' प्रतीच्छकम् 'अभिधारयन्ति' मनसि कुर्वन्ति, अनभिधारयन्तस्तु तेऽप्याचार्यस्यैवाभाव्या इति भावः । इतरे-उक्तव्यतिरिक्तास्तानभिधारयतो वा अनभिधारयतो वा ज्ञातकान् वाऽज्ञातकान् वा प्रतीच्छंको न लभते ॥ अथ शिष्यविषयां द्विविधां मार्गणामाह[ भा. ४७०९ ] नायगमनायगा पुन, सीसे अभिधारमनभिधारे य । दोक्खर - खरदिट्ठता, सव्वे वि भवंति आयरिए ।।.
वृ- द्विविधा मार्गणा नाम-ये शिष्यस्य 'ज्ञातकाः' स्वजना ये च 'अज्ञातकाः' अस्वजनास्ते तमभिधारयन्तो वाऽनभिधारयन्तो वा सर्वेऽप्याचार्यस्याभवन्ति न शिष्यस्य । कुतः ? इत्याह'द्व्यक्षर- खरध्ष्टान्तात्' “दासेन मे खरो कीओ, दासो वि मे खरो वि मे।" इति निदर्शनात् ॥
अथ "पडिसेहिय वच्चंते कहं कप्पो विहिज्जइ" इति द्वारं निरूपयन्नाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org