SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं-१०४, [भा. ४७१०] [भा.४७१०] पुव्वुप्पन्नगिलाणे, असंथरंते य चउगुरू छण्हं । वयमाण एगे संघाडए य छप्पेते न लभंति॥ वृ-एकत्र ग्रामे गच्छः स्थितः, तेषां च ग्लान उत्पन्नः, तातिचरणे साधवो व्यापृताः सन्तः सर्वेऽपि भिक्षामटितुं न प्रभवन्ति, ततश्चासंस्तरणं सातम् । एवं ग्लाने पूर्वोत्पन्ने असंस्तरतां शैक्ष उपस्थितः,तेचग्लानकार्यव्यापृततया शैक्षवर्तापयितुंनपारयन्ति, अतो भगवद्भिप्रतिषिद्धम्नतैः शैक्षो दीक्षणीयः, यदिदीक्षयन्ति ततश्चतुर्गुरुकाः। अथ लोभदोषेणामीषांषन्त्रांप्रकाराणामन्यतरेणप्रेषयन्ति-“वयमाण" इत्यादि, तंशैक्षं मुण्डयित्वा 'व्रजत्वमेकाक्येवामुकाचार्यसन्निधौ' इति वदन्तो विसर्जयन्ति, यद्वा तस्यैकं कमपि सहायं सङ्घाटकं वा समर्पयन्ति, एते त्रयः प्रकारा मुण्डितस्य भवन्ति; अमुण्डितस्याप्येत एव त्रयः; एते षडपितं शैक्षं न लभन्ते, षड्भिः प्रकारैः प्रेषयन्त इत्यर्थः । येषां समीपे प्रेषयन्ति तेषामेवासौ शिष्यः॥ अथात्मसमीपे स्थापयन्ति तत इमे दोषाः[भा.४७११]आयरिय-गिलाणे गुरुगा, सेहस्सा अकरणम्मिं चउलहुगा । परितावणणिफन्नं, दुहतो भंगे य मूलं तु॥ वृ-शैक्षं प्रव्राज्य तद्वैयावृत्यव्याकुलाः सन्तो यद्याचार्याणां ग्लानस्य वा वैयावृत्यं न कुर्वन्ति चतुर्गुरुकाः ।अथ शैक्षस्यन कुर्वन्तिचतुर्लघुकाः।अथ ग्लानादीनामनागाढमागाढं वा परितापना भवति ततस्तनिष्पन्नम् । “दुहतो भंगे य"त्ति शैक्षस्य यदुनिष्क्रमणं ग्लानस्य यद् मरणम् एष द्विधा भङ्ग उच्यते तत्र मूलं भवति ॥अथ द्वितीयपदमाह[भा.४७१८] संथरमाणे पच्छा, जायं गहिते व पच्छ गेलन्नं । अपव्वइए पव्वइए, संघाडेगे व वयमाणे॥ वृ- इह गच्छे ग्लानो विद्यते परं नागाढं ग्लानत्वम्, ततः संस्तरति तैः शैक्षमपि वर्तापयितुमाचार्याणामपिकर्तुमेवं प्रवाजितःशैक्षः, पश्चाच्च ग्लानत्वमागाढंसमजनि, तत्रोद्वर्तनपरिवर्तनादिव्यापृताएकेताव भिक्षांन हिण्डन्ते, येऽपिहिण्डन्तेतेऽपिन शक्नुवन्ति सर्वेषामपि पर्याप्तमानेतुम्, एवमसंस्तरणं जातम्; यद्वा मूलत एव ग्लानत्वं पूर्वं नासीत् किन्तु पश्चाच्छैक्षे 'गृहीते' प्रव्राजितेसतिग्लानत्वमुत्पत्रंततोऽसौ षड्भिः प्रकारैःप्रेषणीयः। तद्यथा-'अप्रव्रजितः' मुण्डितः, ‘प्रव्रजितः' मुण्डितः । एष द्विविधोऽपि त्रिधा-सङ्घाटकेन एकसाधुना “वयमाणे" त्ति एकाकी व्रजेति ब्रुवाणैः, एकाकित्वेनेत्यर्थः॥ अथ “संथरमाणे पच्छा जाय" ति पदं विशेषतो व्याचष्टे[भा.४७१३] नागाढं पउणिस्सइ, अचिरेणं तं च जायमागाढं। सेहं वट्टावेउं, न तरंति गिलाणकिच्चं च ।। . वृ- पूर्वमनागाढं ग्लानत्वं भवेत्, ततः शैक्षे उपस्थिते चिन्तितम्-अचिरेणैवायं ग्लानः प्रगुणीभविष्यति; ततःशैक्षे प्रव्राजितेतद् ग्लानत्वमागाढंजातम्, ततस्ते शैक्षंवर्तापयितुंग्लानकृत्यं च कर्तु समकमेव “न तरंति" न शक्नुवन्ति, अतोऽन्येषां समीपे प्रेषयन्तः शुद्धाः ।। [भा.४७१४] अपडिच्छनेतरेसिं, जं सेहवियावडा उ पावंति। ___ तंचेव पुव्वभणियं, परितावण-सेहभंगाइ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy