________________
बृहत्कल्प - छेदसूत्रम् - ३-३/१०४
वृ- इतरे नाम- येषां समीपे प्रेष्यते यदि ते न प्रतीच्छन्ति तदा चतुर्गुरुकाः, यच्च ते शैक्षव्यापृताः प्राप्नुवन्ति तन्निष्पन्नं तेषामप्रतीच्छतां प्रायश्चित्तम् । किं पुनस्तद् यत् ते प्राप्नुवन्ति ? इत्याहतदेव पूर्वभणितं परितापन - शैक्षभङ्गादिकमंत्र दोषजातं मन्तव्यम् । किमुक्तं भवति ? - ग्लानोऽप्रतिचर्यमाणः परिताप्येत, शैक्षो वैयावृत्येऽ विधीयमाने प्रतिभज्येत, आदिशब्दाद् ग्लानस्य मरणं वा भवेत् ॥ [भा. ४७१५]
७०
संखडिए वा अट्ठा, अमुंडियं मुंडियं व पेसंती । वयमाणे एग संघाए य छप्पेए न लभंति ॥
वृ-सङ्घडि-प्रकरणं तस्या वाऽर्थाय मनोज्ञाहारलम्पटतया क्वापि ग्रामे व्रजन्तः सागारिकमिति कृत्वा शैक्षममुण्डितं मुण्डितं वा प्रेषयन्ति । तत्रापि "वयमाणि" त्ति एकाकितया प्रेषणेन एकसाधुना सङ्घाकेन च षट् प्रकारा भवन्ति । एतैः षड्भिरपि प्रेषयन्तो न लभन्ते ॥ इदमेव व्याख्याति[भा. ४७१६] होहिंति नवग्गाई, आवाह-विवाह - पव्वयमहादी ।
सेहस्स य सागरियं, विद्दाहिति मा व पेसिंति ॥
वृ- इह शैक्षः केषाञ्चिदुपस्थितः, तत्र च आवाह-विवाह पर्वतमहादीनि प्रकरणानि 'नवाग्राणि' प्रत्यासन्नानि भविष्यन्ति । आवाहः वध्वा वरगृहानयनम्, विवाहः- पाणिग्रहणम्, पर्वतमहः प्रतीतः, आदिशब्दात् तडाग-नदीमहादिपरिग्रहः । शैक्षस्य च तत्र 'सागारिकम्' उठप्रव्राजनभयम्, यद्वा यद्येष शैक्षोऽत्र स्थास्यति तदा सङ्घडिभोजनगृद्धः 'मा विद्रास्यति' मा विनङ्क्षयति, यदि च वयमनेनैव सह गच्छामस्ततः सङ्घः स्फिटामः अत एनमन्यत्र प्रेषयाम इति विचिन्त्य षड्भिः प्रकारैस्तं प्रेषयन्ति न च लभन्ते येषामन्तिके प्रेषयन्ति तेषामेवासावाभवतीति ।। गतं 'प्रतिषिद्धे व्रजति कथं कल्पो विधीयते ?' इति द्वारम् । सम्प्रति 'सङ्गारदत्ते कथं कल्पो विधीयते ?' इति द्वारमाह[भा. ४७१७]. गिहियाणं संगारो, संगारं संजते करेमाणे ।
अनुमोयति सो हिंसं, पव्वावितो जेन तस्सेव ॥
वृ-गृहिणां सम्बन्धी यः ‘सङ्गारः ' 'युष्मदन्तिकेऽस्माभिरियतः कालादूर्द्धव प्रव्रज्या ग्रहीतव्या' इति सङ्केतस्तं प्रतीच्छन् संयतः स्वयं च तैः सार्द्ध 'सङ्गारं ' ' अहममुष्मिन् दिने युष्मान् प्रव्राजयिष्यामि' इति लक्षणं कुर्वन् 'हिंसा' यावदसौ न प्रव्रजति तावन्तं कालं षट्कायविराधनालक्षणामनुमोदयति । स च शैक्षस्तं प्रति विपरिणतो येन प्रव्राजितस्तस्यैवाभवति न सङ्केतदायिन इति । किञ्च[भा. ४७१८] विप्परिणमइ सयं वा, परओ ओसन्न अन्नतित्थी वा । मोत्तुं वासावासं, न होइ संगारतो इहरा ॥
वृ- सङ्केतकरणानन्तरं स शैक्षः स्वयं वा विपरिणमति, 'परतो वा' परेण स्वजनादिना स विपरिणाम्येत, अवसन्नविहारिषु वा प्रव्रजेत्, अन्यतीर्थिको वा भवेत्; अतो वर्षावासं मुक्त्वा 'इतरथा' पुष्टालम्बनं विना सङ्गारो न प्रतीच्छनीयो न वा कर्तव्यः ॥
किमर्थं पुनः सङ्गारमसौ करोति ? इत्याह[भा. ४७१९]
संखडि सन्नाया वा, खित्तं मोत्तव्वयं व मा होज्जा । एएहिं कारणेहिं, संगार करेंते चउगुरुगा ॥
वृ- सङ्घडिस्तत्र ग्रामे उपस्थितानां परिहर्तुं न शक्नोति, सज्ञातका वा तस्य तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org